वैशम्पायनः-
ततस्ते मन्त्रयामासुर्दुर्योधनपुरोगमाः ।
प्राणवान्विक्रमी चापि शौर्ये महति च स्थितः ।
स्पर्धते चापि सततमस्मानेको वृकोदरः ॥
तं तु सुप्तं पुरोद्याने जले शूले क्षिपामहे ॥
ततो जलविहारार्थं कारयामास भारत ।
चेलकम्बलवेश्मानि चित्राणि च शुभानि च ॥
तत्र संस्कारयामासुर्नानागाराण्यनेकशः ।
उदकक्रीडनार्थानि कारयामास भारत ॥
प्रमाणकोट्यामुद्देशे स्थले कृत्वा परिच्छदम् ।
भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यं तथाऽपि च ॥
उपार्जितं नरैस्तत्र तदा सूदकुतं च तत् ।
न्यवेदयन्त पुरुषा धार्तराष्ट्राय तत्तदा ।
ततो दुर्योधनस्त्वाह पाण्डवान्स्म सुदुर्मतिः ॥
दुर्योधनः-
गङ्गां वै मानयामोऽद्य उद्यानवनशोभिताम् ।
सहिता भ्रातरस्सर्वे जलक्रीडामवाप्नुमः ॥
वैशम्पायनः-
एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः ॥
ते रथैर्नगराकारैर्देशजैश्च हयोत्तमैः ।
निर्ययुर्नगराद्वीराः कुरवः पाण्डवैस्सह ॥
उद्यानवनमासाद्य सम्प्रसृज्य च वाहनम् ।
प्राविशंस्तु महावीर्यास्सिंहा इव गिरेर्गुहाः ॥
उद्यानं स्माथ पश्यन्ति भ्रातरस्सर्व एव ते ।
उपस्थानगृहैश्शुभ्रैर्वलभीभिश्च शोभितम् ॥
गवाक्षकैस्तथा जालैर्जलसंसारकैस्तथा ।
सूपस्थितं सुधुकारैश्शिल्पकारैश्च शिल्पिभिः ॥
दीर्घिकाभिश्च पुण्याभिस्तथा कारण्डकैरपि ।
जलं तु शुशुभे छन्नं फुल्लैर्जलरुहैस्तथा ॥
उपकीर्णा वसुमती तथा पुष्पैर्यथर्तुकैः ।
उपविष्टास्तथा सर्वे पाण्डवाः कुरवस्तथा ॥
उपपन्नान्बहून्कामांस्तथा भुक्त्वा तथा तथा ।
अथोद्यानवने तस्मिंस्तथा क्रीडागताश्च ते ।
परस्परस्य वक्त्रेषु ददुर्भक्ष्यांस्ततस्ततः ॥
ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम् ।
विषं प्रक्षेपयामास भीमसेनजिघांसया ॥
स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः ॥
सत्कृत्य भ्रातृवत्तत्र वाचा चामृतकल्पया ।
प्राक्षिपद्वै स्वयं भक्ष्यं वक्त्रे भीमस्य पापकृत् ।
प्रभक्षितं च भीमेन ह्यस्य दोषमजानता ॥
ततो दुर्योधनस्तत्र हृदयेन हसन्निव ।
कृतकृत्यमीवात्मानं मेने स पुरुषाधमः ॥
ततस्ते सहितास्सर्वे जलक्रीडामकुर्वत ॥
दिवसान्ते परिश्रान्ता विहृत्य कुरुनन्दनाः ।
विहारायतनेष्वेव वीरा वासमरोचयन् ॥
भीमस्तु बलवान्भुक्त्वा व्यायामाभ्यधिकं जले ।
वाहयित्वा कुमारांस्ताञ्जलक्रीडां महाबलः ।
प्रमाणकोट्यां वासार्थी पुनश्चारुह्य तत्स्थलम् ॥
स हि तत्स्थलमासाद्य श्रान्तश्चाप्सु विशेषतः ।
श्रमेण च परितात्मा सुष्वाप मृतकल्पवत् ॥
ततो बद्ध्वा दृढं पाशैर्भीमं दुर्योधनस्स्वयम् ।
शूलान्यप्सु निखायाशु स्थलाज्जलमपातयत् ॥
सशेषत्वान्न सम्प्राप्तो जले शूलिनि पाण्डवः ।
पपात यत्र तत्रास्य शूलं नासीद्यदृच्छया ॥
स निस्सञ्ज्ञो जलस्यान्तरवाग्वै पाण्डवोऽविशत् ॥
आक्राम्य नागभवने तथा नागकुमारकान् ।
ततस्समेत्य बहुभिस्तदा नागैर्महाविषैः ।
दश्यते पाण्डवस्तत्र विषदग्धो महाविषैः ॥
ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम् ।
हतं सर्पविषेणैव स्थावरं जङ्गमेन तु ॥
ततः प्रबुद्धः कौन्तेयस्स सञ्छिद्य च बन्धनम् ।
पोथयामास तान्सर्पान्कांश्चित्प्राणैर्व्ययोजयत् ॥
ते हन्यमानाः पार्थेन सर्पा वासुकिमभ्ययुः ।
ऊचुश्च सर्पराजानं वासुकिं वासवोपमम् ॥
सर्पाः-
अयं नरो वै नागरेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः ।
यथा चारातिभिर्वीर विषपीतो भविष्यति ॥
विनिविष्टोऽन्तरप्राप्तस्स च दष्टो ह्यनेकशः ।
ससञ्ज्ञश्च स संवृत्तश्छित्त्वा बन्धनमाशु सः ॥
पोथयन्नो महाबाहुस्तं वै त्वं ज्ञातुमर्हसि ॥
वैशम्पायनः-
ततो वासुकिरभ्येत्य नागैरनुगतस्तदा ।
पश्यति स्म महानागो भीमं भीमपराक्रमम् ॥
आर्यकेण च दृष्टस्स पृथायास्त्वार्यकेण तु ।
ततो दृष्टश्च तेनापि परिष्वक्तश्च पाण्डवः ॥
सुप्रीतश्चाभवत्तस्य वासुकिस्सुमहायशाः ।
अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतामिति ।
प्रियं धनौघं रत्नानि यादवस्य प्रदीयताम् ॥
एवमुक्तस्तदा नागां वासुकिं प्रत्यभाषत ॥
नागः-
यदि नागेन्द्र प्रीतोऽसि किमस्य धनसञ्चयैः ।
रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः ॥
वैशम्पायनः-
बलं नागसहस्रस्य कुण्डे चास्मिन्प्रतिष्ठितम् ।
यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम् ।
एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत ॥
ततो भीमस्तदा नागैः कृतस्वस्त्ययनश्शुचिः ।
प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः ॥
एकोच्छ्वासात्तदा कुण्डं पिबति स्म महाबलः ।
एवमष्टौ स कुण्डानि सोऽपिबत्पाण्डुनन्दनः ॥
दिव्ये ततस्तु शयने नागदत्ते महाभुजः ।
शेते स्म च तदा भीमो दिवसान्यष्ट चैव तु ॥
दुर्योधनोऽतु पापात्मा भीममाशीविषह्रदे ।
प्रक्षिप्य कृतकृत्यं स्वमात्मानं मन्यते तदा ॥
प्रभातायां रजन्यां च प्रविवेश पुरं ततः ।
ब्रुवाणो भीमसेनस्तु यातो ह्यग्रत एव नः ॥
युधिष्ठिरस्तु धर्मात्मा चिन्तयन्पापमात्मनि ।
स्वतोऽनुमानेन परं तदान्तं स्मानुपश्यति ॥
उपगम्य ततः पार्था मातरं मातृवत्सलः ।
अभिवाद्याब्रुवंस्ते वै अम्ब भीम इहागतः ॥
नेति स्माह तदा कुन्ती ततस्ते व्यथिता भवन् ॥
द्रुतं गत्वा पुरोद्यानं विचिन्वन्ति स्म पाण्डवाः ।
भीम भीमेति ते वाचं नित्यमुच्चैरुदीरयन् ।
विचिन्वन्तोऽथ ते सर्वे न स्म पश्यन्ति भ्रातरम् ॥
आगतास्स्वगृहं भूय इदमूचुः पृथां तदा ॥
न दृश्यते महाबाहुरम्ब भीमो वरोचितः ।
विचितानि च सर्वाणि उद्यानानि नदीस्तथा ॥
ततो विदुरमानाय्य कुन्ती सा स्वं निवेशनम् ।
उवाच क्षत्तो बलवान्भीमसेनो न दृश्यते ॥
उद्यानान्निर्गतास्सर्वे भ्रातरो भ्रातृभिस्सह ।
तत्र ह्येको महाबाहुर्भीमो नाभ्येति मामिह ॥
न च प्रणयते चक्षुस्साधु दुर्योधनस्य ह ।
ततः प्रसुप्तं मन्येऽहं पापेन निहतं सुतम् ॥
विदुरः-
मा मैवं वद कल्याणि शेषसंरक्षणं कुरु ।
प्रत्यादिष्टो हि पापात्मा शेषेषु प्रहरेत ह ॥
दीर्घायुषस्तु ते पुत्रा तथा ह्यृषिरभाषत ।
आगमिष्यति ते पुत्रः प्रीतिं ते वर्धयिष्यति ॥
वैशम्पायनः-
एवमुक्ता तदा कुन्ती निश्श्वसन्ती मुहुर्मुहुः ।
शय्यापरा महाभागा पुत्रैः परिवृता तदा ॥
ततोऽष्टमेऽथ दिवसे प्रत्यबुध्यत पाण्डवः ।
भीमस्तदा रसे जीर्णे ह्यप्रमेयबलो बली ॥
ओषधीभिर्विषघ्नीभिस्सुरभीभिर्विभूषितः ।
भुक्त्वा तु परमान्नं च नागैर्दत्तं महाभुजः ॥
उत्क्षिप्य च तदा नागैर्जलाज्जलरुहेक्षणः ।
तस्मिन्नेव वनोद्देशे स्थापितः पाण्डुनन्दनः ।
अन्तर्दधुश्च ते नागाः पाण्डवस्येव पश्यतः ॥
तत उत्थाय भीमस्तु आजगाम स्वयं गृहे ॥
अभिवाद्य परिष्वक्तस्समाघ्रातश्च मूर्धनि ।
प्रणम्य धर्मपुत्राय सस्वजे फल्गुनं तदा ॥
अभिवादितश्च तैर्वीरैस्सस्वजे च यमावपि ।
तच्च सर्वं यथावृत्तमाख्याति स्म वृकोदरः ॥
यदा त्ववगमंस्ते वै पाण्डवास्तस्य कर्म तत् ।
न त्वेव बहुलं चक्रुः प्रायतन्तास्य रक्षणे ।
धर्मात्मा विदुरस्तेषां प्रददौ मतिमान्मतिम् ॥
दुर्योधनोऽपि तं दृष्ट्वा पाण्डवं पुनरागतम् ।
निश्वसंश्चिन्तयंश्चैवमहन्यहनि तप्यते ॥
एवं दुर्योधनः पापश्शकुनिश्चापि सौबलः ।
अनेकैरप्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥
पाण्डवश्चापि तत्सर्वं प्रत्यजानन्नरिन्दम ।
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥
अधिजग्मुश्च कुरवो धनुर्वेदं कृपात्तु ते ॥ ॥