वैशम्पायनः-
अवाप्तवन्तो वेदोक्तान्संस्कारान्पाण्डवास्तदा ।
अवर्धन्त महाभोगान्भुञ्जानाः पितृवेश्मनि ॥
ते धार्तराष्ट्रैस्सहिताः क्रीडन्तो पितृवेश्मनि ।
बालक्रीडासु सर्वासु विशिष्टाः पाण्डवा भवन् ॥
जवे लक्ष्याभिहरणे भेद्ये पांसुविकर्षणे ।
धार्तराष्ट्रान्भीमसेनस्सर्वांस्तु परिमर्दति ॥
हर्षाद्ध्येतान्क्रीडमानान्गृह्यैकाकी निलीयते ।
शिरस्सु च निगृह्यैनान्योधयामास पाण्डवः ॥
शतमेकोत्तरं तेषां कुमाराणां महौजसाम् ।
एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ॥
गलेषु च निगृह्यैनान्विनिहत्य बलाद्बली ।
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ॥
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः ।
आस्ते स्म सलिले मग्नः प्रमृद्नंश्च विमुञ्चति ॥
फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा ।
तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ॥
प्रहाराभिहताच्चापि द्रुमाद्व्याघूर्णितात्ततः ।
सफलाः प्रपतन्ति स्म द्रुमात्स्रस्ताः कुमारकाः ॥
न ते नियुद्धे न जवे योग्या ह्याशु कदाचन ।
कुमारा उत्तरं चक्रुस्स्पर्धमाना वृकोदरम् ॥
एवं स धार्तराष्ट्रांश्च स्पर्धमानो वृकोदरः ।
अप्रियेऽतिष्ठदत्यर्थं बाल्यान्न द्रोहचेतसा ॥
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् ।
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥
तस्य धर्मादपेतस्य पापानि परिपश्यतः ।
मोहादैश्वर्यभावाच्च पापा मतिरजायत ॥
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः ।
मध्यमं पाण्डुपुत्राणां निकृत्या विनिहन्यताम् ॥
अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् ।
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् ॥
एवं स निश्चयं पापं कृत्वा दुर्योधनस्तदा ।
नित्यमेवान्तरं प्रेक्षन्भीमस्यासीन्महात्मनः ॥
ततो जलविहारार्थं कारयामास भारत ।
चेलकम्बलवेश्मानि विचित्राणि महान्ति च ॥
प्रमाणकोट्यां तद्देशं स्थलं किञ्चिदुपेत्य च ।
क्रीडावसाने सर्वे च शुचिवस्त्रास्स्वलङ्कृताः ।
सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः ।
विहारावसथेष्वेव वीरा वासमरोचयन् ॥
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा ।
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ॥
प्रमाणकोट्यां वासार्थं सुष्वापारुह्य तत्स्थलम् ॥
शीतं वासं समासाद्य श्रान्तो मदविमोहितः ।
निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ॥
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनश्शनैः ।
प्रमाणकोट्यां तं सुप्तं गङ्गायां बलिनां वरम् ।
भीमसेनं तदा राजन्बद्धं प्राक्षेपयज्जले ॥
ततः प्रबुद्धः कौन्तेयस्सर्वान्सञ्छिद्य बन्धनान् ।
उदतिष्ठज्जलाद्भूयो भूयः प्रहरतां वरः ॥
स विमुक्तो महाराज नाज्ञासीत्तेन तत्कृतम् ।
पुनर्निद्रावशं प्राप्य तत्रैव प्रास्वपद्बली ॥
अथ रात्र्यां व्यतीतायामुत्तस्थुः कुरुपाण्जवाः ।
दुर्योधनस्तु कौन्तेयं दृष्ट्वा निर्वेदमभ्यगात् ॥
सुप्तं चापि पुनस्सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः ।
कुपितैर्दशयामास सर्वेष्वेवाङ्गसन्धिषु ॥
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः ।
त्वचं न चास्य बिभिदुस्सारत्वात्पृथुपक्षसः ॥
प्रबुद्धो भीसेनस्तान्सर्वान्सर्पानपोथयत् ।
सारथिं चास्य दयितं वामहस्तेन जघ्निवान् ॥
तथाऽन्यदिवसे राजन्हन्तुकामोऽत्यमर्षणः ।
वललेन सहामन्त्र्य सौबलस्य मते स्थितः ॥
भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् ॥
कालकूटं विषं तीक्ष्णं सम्भृतं रोमहर्षणम् ।
तच्चापि भुक्त्वाऽजरयदविकारो वृकोदरः ।
विकारं नाभ्यजनयत्सुतीक्ष्णमपि तद्विषम् ॥
ततोऽन्यदिवसे राजन्हन्तुकामो वृकोदरम् ।
सौबलेन सहायेन धार्तराष्ट्रोऽभ्यचिन्तयत् ॥
चिन्तयन्नालभन्निद्रां दिवारात्रमतन्द्रितः ॥
एवं दुर्योधनः कर्णश्शकुनिश्चापि सौबलः ।
अनेकैरप्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥
न जज्ञिरे तु तद्वृत्तं पाण्डवा मन्दचेतसः ।
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया ॥
पाण्डवा ह्यपि तत्सर्वं प्रत्यजानन्नरिन्दमाः ।
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥ ॥