वैशम्पायनः-
ततः क्षत्ता च भीष्मश्च व्यासो राजा च बन्धुभिः ।
ददुश्श्राद्धं तथा पाण्डोस्स्वधामृतसमं तदा ॥
पुरोहितसहायास्ते यथान्यायमकुर्वत ।
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः ।
रत्नौघान्विप्रमुख्येभ्यो दत्त्वा ग्रामवरानपि ॥
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभ ।
आदाय विविशुः पौराः पुरं वाराणसाह्वयम् ॥
सततं स्मान्वतप्यन्त तमेव भरतर्षभम् ।
पौरजानपदास्सर्वे मृतं स्वमिव बान्धवम् ॥
श्राद्धावसानेषु तदा दृष्ट्वा तं दुःखितं जनम् ।
सम्मूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥
व्यासः-
अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः ।
शश्वत्पापीयदिवसाः पृथिवी गतयौवना ॥
बहुमायासमाकीर्णा नानादेशास्समाकुलाः ।
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥
गच्छ त्वं योगमास्थाय युक्ता वस तपोवने ।
मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षयमात्मनः ॥
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् ॥
अम्बिक तव पुत्रस्य दुर्नयात्किल भारताः ।
सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नश्श्रुतम् ॥
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् ।
वनमादाय गच्छावो भद्रं ते यदि मन्यसे ॥
वैशम्पायनः-
तथेत्युक्ता त्वम्बिकया भीष्ममामन्त्र्य सुव्रता ।
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥
तास्सुघोरं तपः कृत्वा दैवाद्भरतसत्तम ॥
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥