वैशम्पायनः-
पाण्डवानां तथाऽऽयुष्यं शृणु कौरवनन्दन ।
जगाम हास्तिनपुरं षोडशाब्दो युधिष्ठिरः ॥
पञ्चदशाब्दो भीमस्तु चतुर्दशाब्दो धनञ्जयः ।
त्रयोदशाब्दौ च यमौ जग्मतुर्नागसाह्वयम् ॥
तत्र त्रयोदशाब्दानि धार्तराष्ट्रैस्सहोषिताः ।
षट्च मासाञ्जातुगृहान्मुक्ता जातो घटोत्कचः ॥
षण्मासानेकचक्रायां वर्षं पाञ्चालके गृहे ।
धार्तराष्ट्रैस्सहोषित्वा पञ्च वर्षाणि भारत ॥
इन्द्रप्रस्थे वसन्तस्ते त्रीणि वर्षाणि विंशतिम् ।
द्वादशाब्दान्यथैकं च बभ्रमुर्द्यूतनिर्जिताः ॥
भुक्त्वा षट्त्रिंशतं राज्यं सागरान्तां वसुन्धराम् ।
मासैष्षड्भिर्महात्मानस्सर्वे कृष्णपरायणाः ।
राज्ये परीक्षितं स्थाप्य इष्टां गतिमवाप्नुवन् ॥
एवं युधिष्ठिरस्यापि आयुरष्टोत्तरं शतम् ॥
अर्जुनात्केशवो ज्येष्ठस्त्रिभिर्मासैर्महाभुजः ।
कृष्णात्सङ्कर्षणो ज्येष्ठस्त्रिभिर्मासैर्महाबलः ॥
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने ।
तान्पश्यन्पर्वते रम्ये स्वबाहुबलपालितान् ॥
सुपुष्पितवने काले प्रवृत्ते मधुमाधवे ।
पूर्णे चतुर्दशे वर्षे फल्गुनस्य च धीमतः ॥
तदा उत्तरफल्गुन्यां प्रवृत्ते स्वस्तिवाचने ।
रक्षणे विस्मृता कुन्ती व्यग्रा ब्राह्मणभोजने ।
पुरोहितेन सहिता ब्राह्मणान्पर्यवेषयत् ॥
तस्मिन्काले समाहूय माद्रीं मदनमोहितः ।
भूतसम्मोहने काले सभार्यो व्यचरद्वने ॥
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः ।
कर्णिकारैरशोकैश्च मल्लिकैरतिमुक्तकैः ॥
वकुलैस्तिलकैस्सालैः पनसैर्वनकिंशुकैः ।
अन्यैश्च बहुभिर्वृक्षैर्लतापुष्पफलैर्वृतम् ॥
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् ।
पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥
मत्तभ्रमरसङ्गीतं कोकिलस्वनमिश्रितम् ॥
गामानैस्तु गन्धर्वैः पुरा नागपुरे यथा ।
प्रहृष्टमनसं तत्र विहरन्तं यथाऽमरम् ।
तं माद्र्यनुजगामैका वसने बिभ्रती शुभे ॥
समीक्षमाणस्य तु तां वयस्स्थां तनुवाससम् ।
तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः ॥
रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् ।
न शशाक नियन्तुं तं कामं कामबलात्कृतः ॥
अथ सोऽष्टादशे वर्षे ऋतौ माद्रीमलङ्कृताम् ।
आजुहाव ततः पाण्डुः परीतात्मा यशस्विनीम् ॥
तत एनां बलाद्राजा निजग्राह रहोगतः ।
वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥
स तु कामपरीतात्मा तं शापं नान्वबुध्यत ।
माद्रीं मैथुनधर्मेण गच्छमानो बलादिव ॥
जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः ।
शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् ॥
तस्य कामात्मनो बुद्धिस्साक्षात्कालेन मोहिता ।
सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सहचेतना ॥
स तया सह सङ्गम्य भार्यया कुरुसत्तमः ।
पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥
क्षणेनाभ्यपतद्राजा राजधानीं यमस्य वै ॥
ततो माद्री समालिङ्ग्य राजानं गतचेतसम् ।
आक्रोशपरमायत्ता चक्रवाकी यथा पतिम् ॥
तं श्रुत्वा करुणं शब्दं सहसोत्पतितं तदा ।
सहपुत्रा ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ ।
आजग्मुस्सहितास्तत्र यत्र राजा तथागतः ॥
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं तदा ।
एकैव त्वमिहागच्छ तिष्ठन्तां तत्र दारकाः ॥
एतच्छ्रुत्वा वचस्तस्यास्तत्रैवावार्य दरकान् ।
हताऽहमिति विक्रुश्य सहसोपजगाम ताम् ॥
दृष्ट्वा माद्रीं च पाण्डुं च शयानौ धरणीतले ।
कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥
कुन्ती-
रक्ष्यमाणो मया नित्यं धीरस्सततमात्मवान् ।
कथं त्वामत्यतिक्रान्तश्शापं जानन्वनौकसः ॥
ननु नाम त्वया माद्रि रक्षितव्यो नराधिपः ।
सा कथं लोभितवती विजने त्वं नराधिपम् ॥
माद्री-
विधिना चिदितस्यास्य मां दृष्ट्वा विजने वने ।
अचिन्तयित्वा तच्छापं प्रहर्षस्समजायत ॥
कुन्ती-
कथं दिने वसन्ते त्वामासाद्य च रहोगताम् ।
तं विचिन्तयतश्शापं प्रहर्षस्समजायत ॥
धन्या त्वमसि बाह्लीके मत्सौभाग्यतरा भुवि ।
दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ॥
माद्री-
अलोभ्यमानेन मया वार्यमाणेन चासकृत् ।
आत्मा न धारितस्तेन सत्यं दिष्टं चिकीर्षुणा ॥
वैशम्पायानः-
तस्यास्तद्वचनं श्रुत्वा कुन्ती शोकाग्नितापिता ।
पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥
निश्चेष्टा पतिता भूमौ मोहेन न चचाल सा ॥
तस्मिन्क्षणे कृतस्नानममलाम्बरसंवृतम् ।
अलङ्कारकृतं पाण्डुं शयानं शयने शुभे ॥
कुन्तीमुत्थाप्य माद्री च मोहेनाविष्टचेतनाम् ।
एह्येहीति तां कुन्तीं दर्शयामास कौरवम् ॥
पादयोः पतिता कुन्ती पुनरुत्थाय भूमिपम् ।
रक्तचन्दनदिग्धाङ्गं महारजनवाससम् ॥
सस्मितेन तु वक्त्रेण गदन्तमिव भारत ।
परिरभ्य तदा मोहाद्विललापाकुलेन्द्रिया ।
माद्री चापि समालिङ्ग्य राजानं विललाप सा ॥
तं तथाऽधिगतं पाण्डुमृषयस्सह चारणैः ।
अभ्येत्य सहितास्सर्वे शोकाश्रूणि प्रवर्तयन् ॥
अस्तं गतमिवादित्यं सुशुष्कमिव सागरम् ।
दृष्ट्वा पाण्डुं नरव्याघ्रं शोचन्ति स्म महर्षयः ॥
समानशोका ऋषयः पाण्डवाश्च बभूविरे ।
ते समाश्वासिते विप्रैर्विलेपतुरनिन्दिते ॥
कुन्ती-
हा राजन्कस्य नो हित्वा गच्छसि त्रिदशालयम् ॥
हा राजन्मम मन्दायाः कथं माद्रीं समेत्य वै ।
निधनं प्राप्तवान्राजन्मद्भाग्यपरिसङ्क्षयात् ॥
युधिष्ठिरं भीमसेनमर्जुनं च यमावुभौ ।
कस्य हित्वा प्रियान्पुत्रान्प्रयातोऽसि विशाम्पते ॥
नूनं त्वां त्रिदशा देवाः प्रतिनन्दन्ति भारत ।
यथा हि तप उग्रं ते चरितं ब्रह्मसंसदि ॥
आवाभ्यां सहितो राजन्गमिष्यसि दिवं शुभम् ।
आजमीढाजमीढानां कर्मणा चरतां गतिम् ॥
ननु नाम सहावाभ्यां गमिष्यामीति नस्त्वया ।
प्रतिज्ञातं कुरुश्रेष्ठ यदाऽस्मि वनमागता ॥
आवाभ्यां त्वेव सहितो गमिष्यसि विशां पते ।
मुहूर्ते क्षम्यतां राजनारोक्ष्यावश्चितां तव ॥
वैशम्पायनः-
विलपित्वा भृशं त्वेवं निस्सञ्ज्ञे पतिते भुवि ।
यथा मृगे हते मृग्यौ लुब्धैर्वनगतस्तदा ॥
युधिष्ठिरमुखास्सर्वे पाण्डवा वेदपरागाः ।
तेऽभ्यागत्य पितुर्मूले निस्सञ्ज्ञाः पतिता भुवि ।
पाण्डोः पादौ परिष्वज्य विलपन्ति स्म पाण्डवाः ॥
युधिष्ठिरः-
हा विनष्टास्स्म तातेति हा अनाथा भवामहे ।
क्षणेनैव महाराज अहो लोकस्य चित्रता ॥
नास्मद्विधा राजपुत्रा अधन्यास्सन्ति भारत ।
त्वद्विनाशाच्च राजेन्द्र राज्यप्रस्खलनात्तथा ॥
बान्धवानामथाज्ञानात्प्राप्तास्स्म व्यसनं महत् ।
किं करिष्यामहे राजन्कर्तव्यं नः प्रसीदताम् ॥
भीमसेनः-
हित्वा राज्यं च भोगांश्च शतशृङ्गे निवासिना ।
त्वया लब्धास्स्म राजेन्द्र महता तपसा वयम् ॥
हित्वा मानं वनं गत्वा स्वयमाहृत्य भक्षणम् ।
शाकमूलफलैर्वन्यैर्भरणं वै त्वया कृतम् ॥
पुत्रानुत्पाद्य पितरो यमिच्छन्ति महात्मनः ।
त्रिवर्गफलमिच्छन्तस्तस्य कालोऽयमागतः ॥
वैशम्पायनः-
अभुक्त्वैव फलं राजन्गन्तुं नार्हसि भारत ।
इत्येवमुक्त्वा पितरं भीमोऽपि विललाप ह ॥
अर्जुनः-
प्रनष्टं भारतं वंशं पाण्डुना पुनरुद्धृतम् ॥
तस्मिंस्तपोवनगते नष्टं राज्यं सराष्ट्रकम् ।
पुनर्निस्सारितं क्षत्रं पाण्डुपुत्रैश्च पञ्चभिः ।
एतच्छ्रुत्वाऽनुमोदित्वा गन्तुमर्हसि कौरव ॥
वैशम्पायनः-
इत्येवमुक्त्वा पितरं विललाप धनञ्जयः ॥
यमौ-
दुस्सञ्जयं तपः कृत्वा लब्ध्वा नो भरतर्षभ ।
पुत्रलाभस्य महतश्शुश्रूषादिफलं त्वया ।
न चावाप्तं त्वया तात त्वत्पित्रा तु यथा पुरा ॥
वैशम्पायनः-
एवमुक्त्वा यमौ चापि विलेपतुरथातुरौ ॥
कुन्ती-
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम ।
अवश्यम्भाविनो भावान्मा मा माद्रि निवर्तय ॥
अन्विष्यामीह भर्तारमहं प्रेतवशं गतम् ।
उत्तिष्ठैनं विसृज्य त्वमिमान्रक्षस्व दारकान् ।
अवाप्य पुत्राल्ँलब्धात्मा वीरपत्नीत्वमर्थये ॥
वैशम्पायनः-
मद्रराजसुता कुन्तीमिदं वचनमब्रवीत् ॥
माद्री-
अहमेवानुयास्यामि भर्तारमपलायिनम् ।
न हि तृप्ताऽस्मि कामानां त्वं ज्येष्ठा ह्यनुमन्यताम् ॥
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः ।
समुच्छिद्यामस्य कामं कथं नु यमसादने ॥
मम हतोर्गतो राजा दिवं राजर्षिसत्तमः ।
न चैव तादृशी बुद्धिर्बान्धवाश्च न तादृशाः ॥
न चोत्सहे धारयितुं प्राणान्भर्त्रा विनाकृता ।
तस्मात्तमनुयास्यामि यान्तं वैवस्वतक्षयम् ॥
वर्तेयं न समां वृत्तिं जात्वहं न सुतेषु ते ।
तथा हि वर्तमानां मामधर्मस्संस्पृशेन्महान् ॥
तस्मान्मे सुतयोर्देवि वर्तितव्यं स्वपुत्रवत् ।
अन्वेष्यामि च भर्तारं व्रजन्तं यमसादनम् ।
मां हि कामयमानोऽयं राजा प्रेतवशं गतः ॥
राज्ञश्शरीरेण सह मामपीदं कलेबरम् ।
दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु ॥
दारकेष्वप्रमत्ता त्वं भवेश्चाभिहिता मम ।
अतोऽन्यन्न प्रपश्यामि सन्देष्टव्यं हि किञ्चन ॥
वैशम्पायनः-
ऋषयस्तान्समाश्वास्य पाण्डवान्सत्यविक्रमान् ।
ऊचुः कुन्तीं च माद्रीं च समाश्वास्य तपस्विनः ॥
सुभगे बालपुत्रे तु न मर्तव्यं कथञ्चन ।
पाण्डवांश्चापि नेष्यामः कुरुराष्ट्रं परन्तपान् ॥
अधर्मेष्वर्थजातेषु धृतराष्ट्रश्च लोभवान् ।
स कदाचिन्न वर्तेत पाण्डवेषु यथाविधि ॥
कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च ।
माद्र्याश्च बलिनां श्रेष्ठश्शल्यो भ्राता महारथः ॥
भर्त्रानुमरणं सार्थं फलवन्नात्र संशयः ।
युवाभ्यां दुष्करं चैतद्वदन्ति द्विजपुङ्गवाः ॥
मृते भर्तरि या साध्वी ब्रह्मचर्यव्रते स्थिता ।
यमैश्च नियमैश्श्रान्ता मनोवाक्कायजैश्शुभा ॥
भर्तारं चिन्तयन्ती सा भर्तारं निस्तरेच्छुभा ।
तारितश्चापि भर्ता स्यादात्मा पुत्रस्तथैव च ॥
तस्माञ्जीवितमेवैतद्युवयोर्विद्म शोभनम् ॥
कुन्ती-
यथा पाण्डोश्च निर्देशस्तथा विप्रगणस्य च ।
आज्ञा शिरसि निक्षिप्ता करिष्यामि च तत्तथा ॥
यथाऽऽहुर्भगवन्तो हि तन्मन्ये शोभनं परम् ।
भर्तुश्च मम पुत्राणां मम चैव न संशयः ॥
माद्री-
कुन्ती समर्था पुत्राणां योगक्षेमस्य धारणे ।
अस्या हि न समा बुद्ध्या यद्यपि स्यादरुन्धती ॥
कुन्त्याश्च वृष्णयो नाथाः कुन्तीभोजस्तथैव च ।
नाहं त्वमिव पुत्राणां समर्था धारणे तथा ॥
साऽहं भर्तारमन्विष्ये अतृप्ता नन्वहं तथा ।
भर्तृलोकस्य तु ज्येष्ठा देवी मामनुमन्यताम् ॥
धर्मज्ञस्य कृतज्ञस्य सत्यधर्मस्य धीमतः ।
पादौ परिचरिष्यामि तदार्ये ह्यनुमन्यताम् ॥
वैशम्पायनः-
एवमुक्त्वा महाराज मद्रराजसुता शुभा ।
ददौ कुन्त्यै यमौ माद्री शिरसाऽभिप्रणम्य च ॥
अभिवाद्य ऋषीन्सर्वान्परिष्वज्य च पाण्डवान् ।
मूर्ध्न्युपाघ्राय बहुशः पार्थानात्मसुतौ तथा ।
हस्ते युधिष्ठिरं गृह्य माद्री वाक्यमभाषत ॥
माद्री-
कुन्ती माता अहं धात्री युष्माकं तु पिता मृतः ।
युधिष्ठिरः पिता ज्येष्ठश्चतुर्णां धर्मतस्सदा ॥
वृद्धानुशासने सक्तास्सत्यधर्मपरायणाः ।
तादृशा न विनश्यन्ति नैव यान्ति पराभवम् ॥
तस्मात्सर्वे कुरुध्वं वै गुरुवृत्तिमतन्द्रिताः ॥
वैशम्पायनः-
ऋषीणां च पृथायाश्च नमस्कृत्य पुनः पुनः ।
आयासकृपणा माद्री प्रत्युवाच पृथां तथा ॥
धन्या त्वमसि वार्ष्णेयि नास्ति स्त्री सदृशी त्वया ।
वीर्यं तेजश्च योगं च माहात्म्यं च यशस्विनाम् ॥
कुन्ति द्रक्ष्यसि पुत्राणां पञ्चानाममितौजसाम् ।
ऋषीणां सन्निधावेषां मया वागभ्युदीरिता ॥
दिदृक्षमाणायास्स्वर्गं ममैषा न वृथा भवेत् ।
आर्या चाप्यभिवाद्या च मम पूज्या च सर्वतः ॥
ज्येष्ठा वरिष्ठा त्वं देवि भूषिता स्वगुणैश्शुभैः ।
अभ्यनुज्ञातुमिच्छामि त्वया यावनन्दिनि ॥
वैशम्पायनः-
धर्मं स्वर्गं च कीर्तिं च त्वत्कृतेऽहमवाप्नुयाम् ।
यथा तथा विधत्स्वेह मा च कार्षीर्विचारणां ।
बाष्पसन्दिग्धया वाचा कुन्त्युवाच यशस्विनी ॥
कुन्ती-
अनुज्ञातासि कल्याणि त्रिदिवे सङ्गमोऽस्तु ते ।
भर्त्रा सह विशालिक्षि क्षिप्रमद्यैव भामिनि ॥
सङ्गता स्वर्गलोके त्वं रमेथाश्शाश्वतीस्समाः ॥
वैशम्पायनः-
ततः पुरोहितस्स्नात्वा प्रेतकर्मणि पारगः ।
हिरण्यशकलान्याज्यं तिलान्दधि च तण्डुलान् ॥
उदकुम्भं सपरशुं समानीय तपस्विभिः ।
अश्वमेधाग्निमाहृत्य यथान्यायं समन्ततः ।
काश्यपः कारयामास पाण्डोः प्रेतस्य तां क्रियाम् ॥
पुरोहितोक्तविधिना पाण्डोः पुत्रो युधिष्ठिरः ।
चित्याग्निनाऽदहत्पाण्डुं कृत्वा चापि क्रियां तदा ॥
रुदञ्छोकाभिसन्तप्तः पपात भुवि पाण्डवः ॥
ऋषीन्पुत्रान्पृथां चैव विसृज्य च नृपात्मजान् ।
नमस्कृत्य चिताग्निस्थं धर्मपत्नी नराधिपम् ।
मद्रराजसुता तूर्णमन्वारोहद्यशस्विनी ॥
अहताम्बरसंवीतो भ्रातृभिस्सहितोऽनघः ।
उदकं कृतवांस्तत्र पुरोहितमते स्थितः ॥
अर्हतस्तस्य कृत्यानि शतशृङ्गनिवासिनः ।
तापसा विधिवच्चक्रुश्चारणा ऋषिभिस्सह ॥ ॥