वैशम्पायनः-
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च ।
मद्रराजसुता पाण्डुमिदं वचनमब्रवीत् ॥
माद्री-
न मेऽस्ति त्वयि सन्तानो विगुणेऽपि तथाऽनघ ।
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा ।
श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता ।
दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ॥
यदि त्वपत्यसन्तानं कुन्ती राजसुता मयि ।
कुर्यादनुग्रहो मे स्यात्तव चैव हितं भवेत् ॥
स्तम्भो हि मे सपत्नीत्वादस्ति कुन्तिसुतान्प्रति ।
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥
पाण्डुः-
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते ।
न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥
तव त्वनुमतो राज्ञि प्रयतिष्ये यथासुखम् ।
आंशसे न चिरात्कुन्ती वचो मे प्रतिपत्स्यते ।
ततः कुन्तीं पुनः पाण्डुरेकाग्रमिदमब्रवीत् ॥
वैशम्पायनः-
पाण्डुः-
अनुगृह्णीष्व कल्याणि मद्रराजसुतामपि ।
कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ॥
मम वा पिण्डलाभाय पूर्वेषां च महात्मनाम् ।
मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥
कुलस्य पिण्डवृद्धिश्च कुलस्य किल सन्ततिः ।
मम चेष्टस्य निर्वृत्तिस्तव चापि परं यशः ॥
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् ॥
प्राप्य देवादपत्यं च यज्ञैरिष्ट्वा सहस्रशः ।
तथा मन्त्रविदो विप्रांस्तर्पयित्वा सुदुष्करम् ।
गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥
तथा ब्रह्मर्षयः पूर्वे ब्राह्मणाश्च तपोधनाः ।
चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥
तथा राजर्षयो वीरा मनुवैन्यादयः पृथक् ।
यथोक्तं धर्मयुक्तानि चक्रुः कर्माणि शोभने ॥
सा त्वमद्य प्लवेनैव तारयैनामनिन्दिते ।
अपत्यसंविभागेन परां कीर्तिमवाप्स्यसि ॥
धर्म्यं वै धर्मशास्त्रोक्तं यथा वदसि तत्तथा ।
तस्मादनुग्रहं माद्र्याः कुरुष्व वरवर्णिनि ॥
एवमुक्ताऽब्रवीत्स्नेहात्सकृच्चिन्तय दैवतम् ।
तत्र ते भविताऽपत्यमनुरूपमसंशयम् ॥
वैशम्पायनः-
कुन्त्या मन्त्रे कृते तस्मिन्विधिदृष्टेन कर्मणा ।
ततो राजसुता स्नाता शयने संविवेश ह ॥
ततो माद्री विचार्यैका जगाम मनसाश्विनौ ।
तथा च माद्र्यपत्यार्थे प्रायुङ्क्त बलिमुत्तमम् ॥
तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ।
नकुलं सहदेवं च रूपेणाप्रतिमं भुवि ॥
तथैव तावपि यमौ वागुवाचाद्भुतोपमौ ॥
कर्मतो भक्तितश्चैव शीलेन विनयैस्तथा ।
रूपसत्वगुणश्रेष्ठावेताविति नराधिप ।
भासतस्तेजसाऽत्यर्थं रूपद्रविणसम्पदा ॥
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् ।
तमुवाच पतिं राजन्रहस्युक्ता सती तदा ॥
कुन्ती-
युक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता ।
बिभेम्यस्याः परिभवान्नारीणां गतिरिदृशी ॥
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने द्वयं फलम् ।
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ॥
वैशम्पायनः-
एवं पाण्डुसुताः पञ्च देवदत्ता महाबलाः ।
सम्भूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः ॥
देवौजसस्सत्त्ववन्तस्सर्वशस्त्रविशारदाः ।
दिव्यसंहननास्सर्वे सर्वे भास्वरमूर्तयः ॥
सर्वक्षणसम्पन्नास्सोमवत्प्रियदर्शनाः ।
सिंहदर्पा महेष्वासास्सिंहविक्रान्तचारिणः ॥
सिंहक्षीबा मनुष्येन्द्रा ववृधुर्देवदर्शनाः ॥
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ ।
विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥
नामानि चाक्रिरे तेषां शतशृङ्गनिवासिनः ।
ऋषयः कर्मतश्चैव रूपतस्स्नेहतस्तथा ॥
युधिष्ठिर इति ज्येष्ठं भीम इत्येव मध्यमम् ।
तृतीयमर्जुन इति कुन्तीपुत्रानकल्पयन् ॥
पूर्वजं नकुलं चेति सहदेवं तथाऽपरम् ।
ऊचुर्माद्रीसुतावेवं महाभागास्तपस्विनः ॥
एकवर्षान्तरास्त्वेते परस्परमरिन्दमाः ।
अन्ववर्तन्त पार्थाश्च यमौ पुत्रौ तथैव च ॥
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः ।
सर्वे ववृधिरे राजन्कालेनाप्स्विव पङ्कजाः ॥
जातमात्रानुपादाय शतशृङ्गनिवासिनः ।
पाण्डोः पुत्रानमन्यन्त तापसास्स्वानिवात्मजान् ॥
ततस्तु वृष्णयस्सर्वे वसुदेवपुरोगमाः ।
पाण्डुश्शापभयाद्भीतश्शतशृङ्गमुपेयिवान् ।
तत्रैव मुनिभिस्सार्धं तापसोऽभूत्तपश्चरन् ॥
शाकमूलफलाहारस्तपस्वी नियतेन्द्रियः ।
ध्यानयोगपरो राजा बभूवेति च वादकाः ॥
प्रबुवन्ति स्म बहवस्तच्छ्रुत्वा शोककर्शिताः ।
पाण्डोः प्रीतिसमायुक्ताः कदा श्रोष्याम सत्कथाः ॥
इत्येवं कथयन्तस्ते वृष्णयस्सह बान्धवैः ।
पाण्डोः पुत्रागमं श्रुत्वा सर्वे हर्षसमन्विताः ॥
सभाजयन्तस्तेऽन्योन्यं वसुदेवं वचोऽब्रुवन् ॥
वृष्णयः-
वैशम्पायनः-
न भवेरन्क्रियाहीनाः पाण्डोः पुत्रा महायशः ।
पाण्डोः प्रियहितान्वेषी प्रेषय त्वं पुरोहितम् ।
वसुदेवस्तथेत्युक्त्वा विससर्ज पुरोहितम् ॥
युक्तानि च कुमाराणां पारबर्हाण्यनेकशः ।
कुन्तीं माद्रीं च सन्दिश्य दासीदासपरिच्छदम् ॥
गावो रौप्यं हिरण्यं च प्रेषयामास भारत ।
तानि सर्वाणि सङ्गृह्य प्रययौ स पुरोहितः ॥
तमागतं द्विजश्रेष्ठं काश्यपं वै पुरोहितम् ।
पूजयामास विधिवत्पाण्डुः परपुरञ्जयः ॥
पृथा माद्री च संहृष्टे वसुदेवं प्रशंसताम् ।
ततः पाण्डुः क्रियास्सर्वाः पाण्डवान्समकारयत् ॥
गर्भाधानादिकृत्यानि चौलोपनयनानि च ।
काश्यपः कृतवान्सर्वमुपाकर्म च भारत ॥
चौलोपनयनादूर्ध्वमृषभाक्षा यशस्विनः ।
वैदिकाध्ययने सर्वे समपद्यन्त पारगाः ॥
शय्यातेः प्रथमः पुत्रश्शुको नाम परन्तपः ।
येन सागरपर्यन्ता धनुषा निर्जिता मही ॥
अश्वमेधशतैरिष्ट्वा स महात्मा महामखैः ।
आराध्य देवतास्सर्वाः पितॄनपि महामतिः ॥
शतशृङ्गे तपस्तेपे शाकमूलफलाशनः ॥
तेनोपकरणश्रेष्ठैश्शिक्षया चोपबृंहिताः ।
तत्प्रसादाद्धनुर्वेदे समपद्यन्त पारगाः ॥
गदायां पारगो भीमस्तोमरेषु युधिष्ठिरः ।
असिचर्मणि निष्णातौ यमौ सत्त्ववतां वरौ ॥
धनुर्वेदे गतः पारं सव्यसाची परन्तपः ।
शुक्रेण समनुज्ञातो मत्समोऽयमिति प्रभो ॥
अनुज्ञाय ततो राजा शक्तिं खङ्गं तथा शरान् ।
धनुश्च ददतां श्रेष्ठस्तालमात्रं महाप्रभम् ॥
विपाठक्षुरनाराचान्गृध्रपत्रानलङ्कृतान् ।
ददौ पार्थाय संहृष्टो महोरगसमप्रभान् ॥
अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः ।
मेने सर्वान्महीपालानपर्याप्तान्स्वतेजसः ॥
एकवर्षान्तरास्त्वेते परस्परमरिन्दमाः ।
अन्ववर्तन्त पार्थाश्च माद्रीपुत्रौ तथैव च ॥
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः ।
सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ॥ ॥