वैशम्पायनः-
जाते बलवतां श्रेष्ठे पाण्डुश्चिन्तापरोऽभवत् ।
कथमन्यो मम सुतो लोके श्रेष्ठो भवेदिति ॥
दैवं पुरुषकारश्च यत्र लोकः प्रतिष्ठितः ।
ततो दैवात्तु तपसा लप्स्ये पुत्रं महाबलम् ॥
इन्द्रो हि राजा देवानां प्रधान इति मे श्रुतः ।
अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः ॥
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् ।
यं दास्यति स नः पुत्रं स प्रधानो भविष्यति ॥
अमानुषान्मानुषांश्च स सङ्ग्रामे हनिष्यति ।
तपसा कर्मणा चैव तस्मात्तप्स्ये महत्तपः ॥
ततः पाण्डुस्तु राजर्षिः मन्त्रयित्वा महर्षिभिः ।
आदिश्य कुन्त्याः कौरव्य व्रतं सांवत्सरं शुभम् ।
आत्मनश्च महावीर्य एकपादस्थितोऽभवत् ॥
उग्रं तपस्स आतस्थे परमेण समाधिना ।
आरिराधयिषुश्चैवं त्रिदशानां तमीश्वरम् ॥
सूर्येण सह धर्मात्मा पर्यवर्तत भारत ।
तं तु कालेन महता वासवः प्रत्यभाषत ॥
इन्द्रः-
पुत्र तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ।
मित्रेभ्यो ब्राह्मणेभ्यश्च सुहृद्भ्यश्चार्थसाधकम् ॥
सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् ॥
वैशम्पायनः-
इत्युक्तस्तु महेन्द्रेण कौरवः कुरुवर्धनः ।
कुन्तीं राजसुतां पाण्डुरपत्यार्थेऽभ्यचोदयत् ।
धर्मं बलं च निश्चित्य यथा स्यादिति भारत ॥
पाण्डुः-
नीतिमन्तं महात्मानमादित्यसमतेजसम् ।
दुराधर्षं रणे शूरं देवराजमिवानघम् ॥
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् ।
लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ॥
वैशम्पायनः-
जातेषु धृतराष्ट्रस्य कुमारेषु महात्मसु ।
कुन्ती पुनरपत्याय देवराजमुपाह्वयत् ॥
ततः पर्यचरत्तेन बलिना भगवानपि ।
अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ॥
उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यां ततो दिवा ।
जातस्तु फाल्गुने मासि तेनासौ फल्गुनस्स्मृतः ॥
जातमात्रे कुमारे तु सर्वभूतप्रहर्षिणी ।
सूतके वर्तमानानां वागुवाचाशरीरिणी ॥
मेघगम्भीरनिर्घोषा नभो नादयती तदा ॥
कार्तवीर्यसमः पुत्रो देवतुल्यपराक्रमः ।
एष शक्र इवाजय्यः प्रापयिष्यति ते यशः ॥
अदित्या विष्णुना प्रीतिर्यथा समभिवर्धिता ।
तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ॥
एष मद्रान्वशे कृत्वा कोसलान्सह केकयैः ।
चेदिकाशिकरूशांश्च कुरूणां लक्ष्म धास्यति ॥
एतस्य भुजवीर्येण त्रासितास्सुरशत्रवः ।
निवातकवचास्सङ्ख्ये प्रहास्यन्ते च जीवितम् ॥
हिरण्यपुरमारुष्य निहनिष्यति संयुगे ।
पुलोमजायास्तनयान्कालकेयांश्च सर्वशः ॥
गत्वोत्तरां दिशं वीरो विजित्य युधि पार्थिवान् ।
धनरत्नौघममितमानयिष्यति पाण्डवः ॥
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः ।
मेदसा सर्वभूतानां तुष्टिं यास्यति वै पराम् ॥
ग्रामणीश्च महीपालानेष जित्वा महाबलः ।
भ्रातृभिस्सहितो वीरस्त्रीन्मेधानाहरिष्यति ॥
जामदग्न्यसमः कुन्ति शिबेरौशीनरात्परः ।
एवं वीर्यवतां श्रेष्ठो महाभागो भविष्यति ॥
एष चास्त्राणि दिव्यानि निखिलेन हरिष्यति ।
विप्रनष्टां श्रियं चायमाहर्ता भरतर्षभ ॥
एतदत्यद्भुतं राजन्कुन्त्याः पार्थस्य सूतके ।
उक्तवान्वायुराकाशे कुन्ती शुश्राव भारत ॥
वाचमुच्चरितामुच्चैस्तां निशम्य यशस्विनीम् ।
बभूव पमो हर्षश्शतशृङ्गनिवासिनाम् ॥
ततो देवनिकायानां सेन्द्राणां च दिवौकसाम् ।
आकाशे दुन्दुभीनां च बभूवातुलनिस्वनः ॥
उदतिष्ठन्महामेघाः पुष्पवृष्टिभिरावृतः ।
समवेत्य च देवानां गणः पार्थमपूजयत् ॥
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा ।
प्रजानां पतयस्सर्वे सप्त चैव महर्षयः ॥
भरद्वाजः कश्यपो गौतमश्च विश्वामित्रो जमदग्निर्वसिष्ठः ।
यश्चोदितो भास्करोऽभूत्प्रनष्टस्सोऽप्यत्रिरत्र भगवान्सम्बभूव ॥
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः ।
दक्षप्रजापतिश्चैव मरीचिः प्रीतिमाप्तवान् ।
गन्धर्वाप्सरसश्चैव किन्नरास्समवादयन् ॥
दिव्यमाल्याम्बरधरास्सर्वालङ्कारभूषिताः ।
ते च प्रकाशा मर्त्येषु सर्वोपस्कारसम्भृताः ॥
उपगायन्ति बीभत्सुमुपनृत्यन्ति चैव हि ॥
ततो गन्धर्वतूर्येषु प्रणदत्सु विहायसि ।
बहुभिस्सह गन्धर्वैरगायत च तुम्बुरुः ॥
भीमसेनोग्रसेनौ च पूर्णायुरनघस्तदा ।
गोमासुर्धृतराष्ट्रश्च सूर्यवर्चास्तथाऽष्टमः ॥
युगपस्तृणपः कार्ष्णी नन्दी चित्ररथस्तथा ।
त्रयोदशस्स्थूलशिराः पर्जन्यश्च चतुर्दशः ॥
कलिः पञ्चदशश्चात्र किन्तुनारस्तु षोडशः ।
किन्नरा देवगन्धर्वा उपगायन्धनञ्जयम् ॥
सद्वान्बृहद्वान्बृहकः करालश्च महायशाः ।
ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः ॥
विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्स्मृतः ।
इत्येते देवगन्धर्वा उपगायन्धनञ्जयम् ॥
हाहा हूहूश्च गन्धर्वो हंसश्च भरतर्षभ ।
इत्येते देवगन्धर्वा उपगायन्धनञ्जयम् ॥
तथैवाप्सरसो हृष्टास्सर्वालङ्कारभूषिताः ।
ननृतुश्च वरारोहा जगुरायतलोचनाः ॥
अनूचानानवद्याङ्गी क्रियामुख्या गुणावरा ।
अतिकेशा तथा साची दीर्घकेशी त्वलम्बुसा ॥
मरीचिश्शुशुका चैव विद्युद्वर्णा तिलोत्तमा ।
अद्रिका लक्षणा क्षेमा देवी रम्भा मनोरमा ।
उर्वशी चैव राजेन्द्र ननृतर्गीतनिस्वनैः ॥
असिता च सुबाहुश्च सुमनास्सुवपुस्तथा ।
पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ॥
काम्या शारद्वती चैव ननृतुस्तत्र सङ्घशः ॥
मेनका सहजन्या च वर्णिका पुञ्जिकस्थला ।
घृताची चैव विश्वाची पूर्वाचित्तिः क्रतुस्तथा ॥
प्रम्लोचन्ती च विख्याता अनुम्लोचन्ती च तादृशी ।
उर्वश्येकादशीत्येता जगुरायतलोचनाः ॥
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ।
इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमस्स्मृतः ॥
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ।
इत्येते द्वादशादित्या ज्वलन्तस्सूर्यवर्चसः ।
महिमानं पाण्डवस्य कुर्वन्तस्तस्थुरम्बरे ॥
मृगव्याधश्च शर्वश्च निर्ऋतिश्च महायशाः ।
अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ॥
भवनोऽथेश्वरश्चैव कपाली च विशाम्पते ।
स्थाणुर्भगश्च भगवान्रुद्रास्तत्रावतस्थिरे ॥
धरो ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलः ।
प्रत्यूषश्च प्रभासश्च वसवश्चावतस्थिरे ॥
यथैव वसवस्त्वष्टौ मरुतश्च महाबलाः ।
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥
तौ चाश्विनौ तथा साध्यास्तस्य जन्मनि संस्थिताः ॥
क्रतुर्दक्षो वसुस्सत्यः कालः कामो मुनिस्तथा ।
मरुमां ल्लुलुमांश्चैव रोचमानस्तु तेजसा ।
विश्वे देवा इति ख्यातास्तस्यासञ्जन्मनि स्थिताः ॥
कर्णिकारश्च मण्डुश्च वासुकिश्च भुजङ्गमः ।
अब्जपश्चावकुण्डश्च तक्षकश्च महाबलः ॥
अभव्यास्तेजसा दीप्ता उग्रक्रोधा महाबलाः ।
एते महात्मानस्तस्य नागाः प्राञ्जलयस्स्थिताः ॥
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महायशाः ।
अरुणश्चारुणिश्चैव वैनतेया उपासत ॥
आययुस्तपसा युक्ता महायुक्ता महाबलाः ।
महान्पितामहस्त्वेनं वस्त्रेण रजसा तदा ॥
प्रतिजग्राह नप्तारं राजर्षिपरिवारितः ॥
सगरेणाम्बरीषेण नहुषेण ययातिना ।
धीमता धुन्धुमारेण राज्ञोपरिचरेण ह ॥
मुचुकुन्देन मान्धात्रा बहुनाऽरिष्टनेमिना ।
भरतेन दिलीपेन सर्वैश्च जनमेजय ।
पुरुस्सार्धं नृपतिभिर्जग्राह कुरुपुङ्गवम् ॥
अन्ये च बहवस्तत्र समासन्राजसत्तमाः ॥
एते चान्ये च बहवो नरलोकाधिपास्तथा ।
देवलोकादिहागम्य प्रैक्षन्त भरतर्षभम् ।
विद्योतमानं वपुषा भासयन्तं दिशो दश ॥
लक्षणैर्व्यञ्जितैर्युक्तस्सर्वैर्माहात्म्यसूचकैः ।
एतं दृष्ट्वा महावीर्यं विस्मिता ऋषिसत्तमाः ॥
अधिकां स्म ततो वृत्तिं वर्वन्ते पाण्डवं प्रति ।
पाण्डुः प्रीतेन मनसा नत्वा देवनपूजयत् ॥
देवाः-
पाण्डुना पूजिता देवाः प्रत्यूचुर्नृपसत्तमम् ।
प्रादुर्भूतो ह्ययं धर्मो देवतानां प्रसादतः ॥
मातरिश्वा ह्ययं भीमो बलवानरिमर्दनः ।
साक्षादिन्द्रस्स्वयं जातः प्रसादाच्च शतक्रतोः ॥
फल्गुनो जयतां श्रेष्ठः पूरुवंशविवर्धनः ॥
वैशम्पायनः-
पितृत्वाद्देवतानां हि नास्ति पुण्यतरस्त्वया ।
धन्यस्त्वमचिरादेव स्वर्गं प्राप्स्यसि पुण्यभाक् ।
इत्युक्त्वा देवतास्सर्वा विप्रजग्मुर्यथागतम् ॥
पाण्डुश्च पुनरेवार्यां पुत्रलोभान्महाबलः ।
प्रादिशद्दर्शनीयार्थी कुन्ती त्वेनमथाब्रवीत् ॥
न वै चतुर्थप्रसवं विदुरापत्सु भारत ।
अतःपरमनाचारं पञ्चमे वार्धकी भवेत् ॥
पाण्डुः-
स वै विद्वन्धर्ममिमं सञ्चोदयति मां कथम् ।
अपत्यलाभात्त्वं राजन्प्रमत्त इव भाषसे ॥
एवमेतद्धर्मशास्त्रं यथा वदसि तत्तथा ॥ ॥