जनमेजयः-
धृतराष्ट्रस्य पुत्राणामादितः कथितं त्वया ।
ऋषेर्मतात्पुत्रशतं न तु कन्याऽत्र कीर्तिता ॥
वेश्यापुत्रो युयुत्सुश्च एतदेकशतं द्विज ।
जन्मापि धार्तराष्ट्रस्य उक्तमेतन्महर्षिणा ।
कथं हि सम्भवस्तस्माद्दुश्शलाया ब्रवीहि मे ॥
वैशम्पायनः-
साध्वयं प्रश्न उद्दिष्टः पाण्डवेय ब्रवीमि ते ॥
तां मांसपेशीं तु तदा स्वयमेव महामुनिः ।
शीताभिरद्भिस्सिञ्चन्वै भागं भागमधारयत् ॥
यो यथा कल्प्यते भागस्तं तु धात्र्यस्य वै पृथक् ।
घृतपूर्णेषु कुण्डेषु एकैकं प्राक्षिपत्तदा ॥
एतस्मिन्नन्तरे साध्वी गान्धारी सुमहायशाः ।
नाब्रवीच्च ऋषिं किञ्चिद्गौरवाच्च यशस्विनी ॥
मनसा चिन्तयद्देवी एतत्पुत्रशतं मम ।
भविष्यति न सन्देहो न चर्षिर्भाषतेऽन्यथा ॥
मम वै परमा तुष्टिर्दुहिता मे भवेद्यदि ।
एका शताधिका बाला शतस्यापि कनीयसी ॥
ततो दौहित्रजांल्लोकानवाप्तस्स्यात्पतिर्मम ।
अहं च कृतकृता स्यां दुहित्रा सह सङ्गता ॥
अधिकं किल नारीणां प्रीतिर्जामातृभिर्भवेत् ।
अपत्यं युवतिं चापि दृष्ट्वा प्रीतिमवाप्नुयाम् ॥
यदि सत्यं तपो वा मे गुरवस्तोषिता यदि ।
सुकृतं चेह लोकेऽस्ति तथाऽस्तु दुहिता मम ॥
एतस्मिन्नेव काले तु कृष्णद्वैपायनस्स्वयम् ।
व्यभजत्सहसा विप्रस्तां पेशीं गर्भसम्भवाम् ॥
गण्यमानेषु कुण्डेषु शते पूर्णे महात्मना ।
अभवच्चापरं खण्डं वामहस्ते तदा किल ॥
पूर्णं पुत्रशतं ह्येव न मिथ्या वागुदीरिता ।
दैवयोगात्त्वयं भाग एको दृष्टश्शतात्परः ।
एषा ते सुभगे कन्या भविष्यति यथेप्सिता ॥
ततोऽन्यद्घृतकुण्डं तु आनाय्य सुमहातपाः ।
प्रक्षिपत्तं तदा राजन्कन्याभागं परन्तप ॥
सम्भूता चैव कालेन सर्वेषां च यवीयसी ॥
ऐतत्ते कथितं वीर दुश्शलाजन्म चैव तु ।
ब्रूहि राजेन्द्र किं भूयः कथये पाण्डुनन्दन ॥ ॥