कुन्ती-
अपत्यकाम एवं स्यान्ममापत्यं भवेदिति ।
विप्रं वा गुणसम्पन्नं सर्वभूतहिते रतम् ।
अनुजानीहि भद्रं ते दैवतं हि पतिः स्त्रियाः ॥
यं त्वं वक्ष्यसि धर्मज्ञ देवं ब्राह्मणमेव वा ।
यथोद्दिष्टं त्वया वीर तत्कर्तास्मि महाभुज ॥
देवात्पुत्रफलं सद्यो विप्रात्कालान्तरे भवेत् ॥
आवाहयामि कं देवं कदा वा भरतर्षभ ।
तत्त्वदाज्ञां प्रतीक्षन्तीं विद्ध्यस्मिन्कर्मणीप्सिते ॥
पाण्डुः-
धन्योऽस्म्यनुगृहीतोऽस्मि त्वं नो धात्री कुलस्य हि ।
नमो महर्षये तस्मै येन दत्तो वरस्तव ।
न चाधर्मेण धर्मज्ञे शक्याः पालयितुं प्रजाः ॥
तस्मात्त्वं पुत्रलाभाय सन्तानाय ममैव च ।
प्रवरं सर्वदेवानां धर्ममावाहयाबले ॥
वैशम्पायनः-
पाण्डुना समनुज्ञाता भारतेन यशस्विना ।
मतिं चक्रे महाराज धर्मस्यावाहने तदा ॥
पाण्डुः-
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि ।
धर्ममावाहय शुभे स हि देवेषु मुख्यभाक् ॥
अधर्मेण न धर्मो वै संयुज्येत कदाचन ।
लोकश्चापि वरारोहे धर्मोऽयमिति मंस्यते ॥
धार्मिकश्च कुरूणां स भविष्यति न संशयः ।
दत्तस्य तस्य धर्मेण नाधर्मे रंस्यते मनः ॥
धर्मादिकं हि धर्मज्ञे धर्मान्तं धर्ममध्यमम् ।
प्रशस्तमिष्टं लोकेषु यशःकीर्तिविवर्धनम् ॥
ततो धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते ।
आकाराचारसम्पन्ना भजस्वाराधय स्वयम् ॥
वैशम्पायनः-
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना ।
अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमथाकरोत् ॥
संवत्सरोषिते गर्भे गान्धार्यां जनमेजय ।
आजुहाव ततो धर्मं कुन्ती गर्भार्थमच्युतम् ॥
सा बलिं त्वरिता देवी धर्मायोपजहार ह ।
जानन्ती धर्ममग्र्यं वै मन्त्रैर्वशमुपानयत् ॥
आहूतो नियमात्कुन्त्या सर्वभूतनमस्कृतः ।
ददृशे भगवान्धर्मस्सन्तानार्थाय पाण्डवे ॥
तस्मिन्बहुमृगे रम्ये शतशृङ्गे नगोत्तमे ।
पाण्डोरर्थे महाभागा कुन्ती धर्ममुपागमत् ॥
ऋतुकाले शुचिस्स्नाता शुक्लवस्त्रा यशस्विनी ।
शय्यां जगाम सुश्रोणी सह धर्मेण सुव्रता ॥
धर्मेण सह सङ्गम्य योगमूर्तिधरेण सा ।
लेभे पुत्रं महाभागं सर्वप्राणभृतां हितम् ॥
ऐन्द्रे चन्द्रमसा युक्ते मुहूर्तेऽभिजितेऽष्टमे ।
दिवा मध्यं गते सूर्ये तिथौ पुण्येऽभिपूजिते ॥
समृद्धयसशं कुन्ती सुषाव समये सुतम् ॥
जातमात्रे ततस्तस्मिन्वागुवाचाशरीरिणी ।
एष धर्मभृतां श्रेष्ठो भविष्यति विनादिनी ॥
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजस्सुतः ।
अभवत्प्रथितो राजंस्त्रिषु लोकेषु विर्यवान् ।
यशसा तेजसा चैव वृत्तेन च समन्वितः ॥
संवत्सरे द्वितीये तु गान्धार्या उदरं महत् ।
न च प्राजायत तदा ततस्तां दुःखमाविशत् ॥
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् ।
उदरस्यात्मनस्स्थैर्यमुपालभ्य च सौबली ॥
कौरवस्यापरिज्ञातं यत्नेन महता स्वयम् ।
उदरं घातयामास गान्धारी शोकमूर्छिता ॥
ततो जज्ञे मांसपेशी साष्ठीला जनमेजय ।
द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ॥
अथ द्वैपायनो राजनाजगाम यदृच्छया ।
तां च मांसमयीं पेशीं ददर्श वदतां वरः ॥
ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् ।
सा चात्मनो मतं सर्वं शशंस परमर्षये ॥
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् ।
दुःखेन परमेणेदमुदरं घातितं मया ॥
शतं च किल पुत्राणां दत्तवानसि मे प्रभो ।
इयं मांसमयी पेशी जाता पुत्रशताय वै ॥
व्यासः-
एतावदेतद्गान्धारि नैतज्जात्वन्यथा भवेत् ।
वितथं नोक्तपूर्वं मे स्वैरेष्वपि कदाचन ॥
घृतपूर्णं कुण्डशतं क्षिप्रमानीयतामिति ।
शीताभिरद्भिराष्ठीलामिमां च परिषिञ्च च ॥
वैशम्पायनः-
संसिच्यमाना साष्ठीला ह्यभवच्छतधा तदा ॥
अङ्गुष्ठपर्वमात्राणां गर्भाणां पुनरेव तु ।
एकाधिकशतं पूर्णं यथायोगं विशाम्पते ॥
ततः कुण्डशतं तत्र आनाय्य तु महानृषिः ।
मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ।
ततस्तांस्तेषु कुण्डेषु गर्भान्सर्वान्समादधात् ॥
स्वनुगुप्तेषु देशेषु रक्षां चैषां व्यधापयत् ॥
शशास चैव कृष्णो हि गर्भाणां रक्षणं तथा ।
उवाच चैनां भगवान्कालेनैव तथा पुनः ॥
व्यासः-
घटमानेषु कुण्डेषु जाताञ्जानीहि शोभने ।
अह्नोत्तराः कुमारस्ते कुण्डेभ्यस्तु समुत्थिताः ॥
तेनैवैषां क्रमेणासीज्ज्योष्ठानुज्येष्ठता तदा ।
जन्मतश्च प्रमाणेन ज्येष्ठः कुन्तीसुतोऽभवत् ॥
वैशम्पायनः-
एवं सन्दिश्य कौरव्यं कृष्णद्वैपायनस्तदा ।
जगाम पर्वतायैव तपसे संशितव्रतः ।
धार्मिकं तं सुतं दृष्ट्वा पाण्डुस्तां पुनरब्रवीत् ॥
पाण्डुः-
प्राहुः क्षत्रबलं ज्येष्ठं बलज्येष्ठं सुतं वृणे ।
ततः कुन्तीमभिक्रम्य शशासातीव भारत ॥
वायुमावाहयस्वेति स देवो बलवत्तरः ॥
अश्वमेधः क्रतुश्रेष्ठो ज्योतिश्श्रेष्ठो दिवाकरः ।
ब्राह्मणो द्विपदां श्रेष्ठो बलश्रेष्ठस्तु मारुतः ॥
मारुतं मरुतां श्रेष्ठं सर्वप्राणिभिरीडितम् ।
आवाहय त्वं नियमात्पुत्रार्थं वरवर्णिनि ॥
स नो यं दास्यति सुतं स प्राणबलवान्नृषु ।
भविष्यति वरारोहे बलज्येष्ठा हि भूमिपाः ॥
वैशम्पायनः-
तथोक्तवति सा काले वायुमेवाजुहाव च ।
द्वितीयेनोपहारेण तेनोक्तविधिना पुनः ॥
तैरेव नियमैस्स्थित्वा मन्त्रग्राममुदीरयत् ।
आजगाम ततो वायुः किं करोमीति चाब्रवीत् ॥
लज्जान्विता ततः कुन्ती पुत्रमैच्छन्महाबलम् ।
तथाऽस्त्विति च तां वायुस्समालभ्य दिवं गतः ॥
तस्माज्जज्ञे महावीर्यो भीमो भीमपराक्रमः ।
तमप्यतिबलं जातं वागुवाचाशरीरिणी ।
सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ॥
जातमात्रे कुमारे तु सर्वलोकस्य पार्थिवाः ।
मूत्राम्बु सुस्रुवुस्सर्वे व्यथिताश्च प्रपेदिरे ॥
वाहनानि विशीर्यन्ते विमुञ्चन्त्यश्रुबिन्दवः ॥
यथाऽनिलस्समुद्धूतस्समर्थः कम्पने भुवः ।
तथा मन्युपरीताङ्गो भीमो भीमपराक्रमः ॥
इदं चाद्भुतमत्रासीज्जातमात्रे वृकोदरे ।
यदङ्कात्पतितो मातुश्शिलां गात्रैरचूर्णयत् ॥
कुन्ती तु सह पुत्रेण याता सुरुचिरं सरः ।
स्नात्वा तु सुतमादाय दशमेऽहनि यादवी ॥
दैवतान्यर्चयिष्यन्ती निर्जगामाश्रमात्पृथा ।
शैलस्यान्तेन गच्छन्त्यास्तदा भरतसत्तम ।
निश्चक्राम महाव्याघ्रो जिघांसन्गिरिगह्वरात् ॥
तमापतन्तं शार्दूलं विकृष्याथ कुरूत्तमः ।
निर्बिभेद शरैः पाण्डुस्त्रिभिस्त्रिदशविक्रमः ॥
नादेन महता तां तु पूरयन्तं गिरेर्गुहाम् ।
दृष्ट्वा शैलमुपारोढुमैच्छत्कुन्ती भयात्ततः ॥
त्रासेनास्यास्सुतस्त्वङ्कात्पपात भरतर्षभ ।
पर्वतस्योपरिस्थाया अधस्तादपतच्छिशुः ॥
स शिलाश्चूर्णयामास वज्रवद्वज्रिचोदितः ॥
पुत्रस्नेहात्ततः पाण्डुरभ्यधावद्गिरेस्तटम् ।
पतता तेन शतधा शिला गात्रैर्विचूर्णिता ।
शिलां च चूर्णितां दृष्ट्वा परं विस्मयमागमत् ॥
स तु जन्मनि भीमस्य विनदन्तं विनादितम् ।
ददर्श गिरिशृङ्गस्थं व्याघ्रं व्याघ्रपराक्रमः ॥
दारसंरक्षणार्थाय रक्षमाणस्तथाऽऽत्मजम् ।
सदा बाणधनुष्पाणिरभवत्कुरुनन्दनः ॥
मघे चन्द्रमसा युक्ते सिंहे चाभ्युदिते गुरौ ।
दिवा मध्यगते सूर्ये तिथौ पुण्ये त्रयोदशे ॥
मैत्रे मुहूर्ते सा कुन्ती सुषुवे भीममच्युतम् ॥
यस्मिन्नहनि भमस्तु जज्ञे भीमपराक्रमः ।
तामेव रात्रिं पूर्वं तु जज्ञे दुर्योधनो नृपः ॥
दुर्योधने जातमात्रे दिक्षु सर्वासु भारत ।
क्रव्यादाः प्राणदन्घोराश्शिवाश्चाशिवनिस्वनाः ।
ववर्ष रुधिरं देवो भयमावेदयन्महत् ॥
एतस्मिन्नन्तरे राजा धृतराष्ट्रोऽम्बिकासुतः ।
समाहूय बहून्विप्रान्विदुरं चेदमब्रवीत् ॥
धृतराष्ट्रः-
श्रुतं मया यथा जातो ज्येष्ठः पाण्डोस्सुतः किल ।
स तु दुर्योधनाच्छ्रेष्ठस्तस्मिन्राज्यं न संशयः ॥
अयं त्वनन्तरं तस्माद्राजा भवितुमर्हति ।
एतं विब्रूत मे प्रश्नं यद्वाऽस्मिन्दृश्यते फलम् ॥
अस्मिञ्जाते निमित्तानि संशयन्त्यशिवं महत् ।
अतो ब्रवीमि विदुर द्रुतं मां भयमाविशत् ॥
वैशम्पायनः-
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत ।
क्रव्यादाः प्राणदन्घोराश्शिवाश्चाशिवशंसिनः ॥
लक्षयित्वा निमित्तानि तानि सर्वाणि भारत ।
तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥
विदुरः-
अयं कुलान्तकृज्जातो यस्माच्च कुलपांसनः ।
तस्य त्यागेन शान्तिस्स्यात्पुष्टिस्त्वपनये भवेत् ॥
शतमेकोनमप्यस्तु पुत्राणां ते महीपते ।
एकेन कुरु नः क्षेमं कुलस्य च कुलस्य च ॥
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥
वैशम्पायनः-
स तथा विदुरेणोक्तस्तैश्च विप्रैर्जनाधिपः ।
न चकार तदा राजा पुत्रस्नेहसमन्वितः ॥
ततः पुत्रशतं सर्वं धृतराष्ट्रस्य भारत ।
अह्नां शतेन सञ्जज्ञे कन्या चैका शतात्परा ॥
गान्धार्यां क्लिश्यमानायां वर्धमाने तथोदये ।
वैश्या सा त्वम्बिकापुत्रं कन्या परिचचार ह ॥
तया समभवद्राजा धृतराष्ट्रो यदृच्छया ।
तस्यामजनयत्पुत्रं युयुत्सुं नाम भारत ॥
इत्थमेकशतं जज्ञे पुत्राणां भरतर्षभ ।
महारथानां वीराणां कन्या चैकाऽथ दुश्शला ॥
धृतराष्ट्रस्य राजेन्द्र यथा ते कथितं मया ॥ ॥