वैशम्पायनः-
एवमुक्तस्तया राजा तां देवीं वाक्यमब्रवीत् ।
धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥
पाण्डुः-
एवमेव वरारोह व्युषिताश्वश्चकार ह ।
त्वया यथोक्तं कल्याणि स ह्यासीदमरोपमः ॥
अथ त्विमं प्रवक्ष्यामि धर्म चैव निबोध मे ।
पुराणमृषिभिर्दृष्टं वत्सधर्मविदां वरैः ॥
अनावृताः किल पुरा स्त्रिय आसन्वराङ्गने ।
कामचारप्रचारिण्यस्स्वतन्त्राश्चारुहासिनि ॥
कामान्व्युच्चरमाणानां कौमारान्सुभगे पतीन् ।
नासीदधर्मस्तु तदा स हि धर्मस्सनातनः ॥
तं चैव धर्मं धर्मज्ञे तिर्यग्योनिगताः प्रजाः ।
पालयन्ति वरारोहे यथावदसितेक्षणे ॥
उत्तरेष्वपि रम्भोरु कुरुष्वद्यापि वर्तते ।
स्त्रीणामनुग्रहो धर्मस्स एव हि सनातनः ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकस्सर्वभूतानां न पुंसां वामलोचना ॥
एवं तृष्णा तु नारीणां पुरुषात्पुरुषान्प्रति ।
अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते ॥
पुत्रं वा किल पौत्रं वा कासाञ्चिद्भ्रातरं तथा ।
रहसीह नरं दृष्ट्वा योनिरुत्क्लिद्यते स्त्रियः ॥
एतत्स्वाभाविकं स्त्रीणामनिमित्तं तु तद्भवेत् ।
अस्मिंस्तु न चिराल्लोके मर्यादेयं यशस्विनि ॥
बभूवोद्दालको नाम महर्षिरिति नश्श्रुतम् ।
श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ॥
मर्यादा स्थापिता येन मनुष्येषु विशेषतः ।
कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ॥
श्वेतकेतोस्तदा देवि तप उग्रं समास्थितः ।
ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वभ्रोदकाशनः ॥
शिशिरे जलमध्यस्थस्सह पत्न्या महातपाः ।
उद्दालकं तपस्यन्तं नियमेन समाहितम् ॥
तस्य पुत्रश्श्वेतकेतुः परिचर्यां चकार ह ।
अभ्यागच्छद्द्विजः कश्चिद्वलीपलितसन्ततः ॥
तं दृष्ट्वैव मुनिः प्रीतः पूजयामास शास्त्रतः ।
स्वागतेन च पाद्येन मृदुवाक्यैश्च भामिनी ॥
शाकमूलफलाद्यैश्च वन्यैरन्यैरपूजयत् ।
क्षुत्पिपासाश्रमैकार्तः पूजितस्तु महर्षिणा ॥
विश्रान्तो मुनिमासाद्य पर्यपृच्छद्द्विजस्तदा ।
उद्दालक महर्षे त्वं सत्यं मे ब्रूहि माऽनृतम् ॥
ऋषिपुत्रः कुमारोऽयं दर्शनीयो विशेषतः ।
तव पुत्रमिमं मन्ये कृतकृत्योऽसि तद्वद ॥
उद्दालकः-
मम पत्नी महाप्राज्ञ कुशिकस्य सुता मता ।
मामेवानुगता पत्नी मम नित्यमनुव्रता ॥
अरुन्धतीव पत्नीनां तपसा कर्शितस्तनी ।
अस्यां जातश्श्वेतकेतुर्मम पुत्रो महातपाः ॥
वेदवेदाङ्गविद्विप्र मच्छासनपरायणः ।
लोकज्ञस्सर्वलोकेषु विश्रुतस्सत्यवाग्घृणी ॥
द्विजाः-
अपूर्वी भार्यया चास्मि वृद्धोऽहं मन्दचाक्षुषः ।
पित्र्यादृणादनिर्मुक्तः पूर्वमेवाकृतास्त्रियः ॥
प्रजारिणी तु पत्नी ते कुलशीलसमाधिनी ।
सदृशी मम गोत्रेण वहाम्येनां क्षमस्व वै ॥
पाण्डुः-
इत्युक्त्वा मृगशाबाक्षीं चीरकृष्णाजिनाम्बराम् ।
यष्ट्याधारस्स्रस्तगात्रो मन्दचक्षुरबुद्धिमान् ॥
सव्यापारामक्षमां तामचित्तामात्मनि द्विजः ।
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः ।
जग्राह ब्राह्मणः पापौ गच्छाव इति चाब्रवीत् ॥
ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा ॥
स मातरं तथा दृष्ट्वा नीयमानां बलादिव ।
तपसा दीप्तवीर्यो हि श्वेतकेतुर्न चक्षमे ।
सङ्गृह्य मातरं हस्ते श्वेतकेतुरभाषत ॥
श्वेतकेतुः-
दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम् ।
अयं पिता मे ब्रह्मर्षिः क्षमावान्ब्रह्मवित्तमः ॥
शापानुग्रहयोश्शक्तस्तूष्णीम्भूतो महाव्रतः ।
तस्य पत्नी दमोपेता मम माता विशेषतः ॥
पतिव्रतां तपोवृद्धां साध्वाचारैरलङ्कृताम् ।
प्राणदानेन ते ब्रह्मन्मातृभूतां विमुञ्च वै ॥
वैशम्पायनः-
एवमुक्त्वा तु याचन्तं विमुञ्चेति मुहुर्मुहुः ।
प्रत्यवोचद्द्विजो राजन्नप्रगल्भमिदं वचः ॥
द्विजाः-
अपत्यार्थं श्वेतकेतो वृद्धोऽहं मन्दचाक्षुषः ।
पिता ते ऋणनिर्मुक्तस्त्वया पुत्रेण काश्यपः ॥
ऋणादहमनिर्मुक्तो वृद्धोऽहं विगतस्पृहः ।
मम को दास्यति सुतां कन्यां सम्प्राप्तयौवनाम् ॥
प्रजारणिमिमां पत्नीं विमुञ्च त्वं महातपः ।
एकया प्रजया प्रीतो मातरं ते ददाम्यहम् ॥
पाण्डुः-
एवमुक्तश्श्वेतकेतुर्लज्जया क्रोधमेयिवान् ।
तं क्रुद्धं वै पिता ज्ञात्वा श्वेतकेतुमुवाच ह ॥
उद्दालकः-
मा तात कोपं कार्षीस्त्वमेष धर्मस्सनातनः ।
अनावृता हि वर्णानां सर्वेषामङ्गना भुवि ॥
यथा गावस्स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ॥
पाण्डुः-
तथैव वै कुटुम्बेषु न प्रमाद्यन्ति कर्हिचित् ।
ऋतुकाले तु सम्प्राप्ते भर्तारं न जहुस्तदा ।
एवमुक्तो महाबाहुश्श्वेतकेतुर्न चक्षमे ॥
चकारैव च मर्यादामिमां स्त्रीपुंसयोर्भुवि ॥
मानुषेष्वसिताङ्गे न त्वेवान्येषु जन्तुषु ।
तदाप्रभृति मर्यादा स्थापितेयमिति श्रुतिः ॥
व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम् ।
भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् ॥
अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः ।
उत्तरेषु महाभागे कुरुष्वेवं यशस्विनि ।
पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥
भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् ।
पतिव्रतामेतदेव भविता पातकं भुवि ॥
पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च ।
न करिष्यति तस्याश्च भविष्यत्येतदेव हि ॥
इति तेन पुरा भीरु मर्यादा स्थापिताऽबले ।
उद्दालकस्य पुत्रेण धर्मे वै श्वेतकेतुना ॥
तेन भूयस्ततो दृष्टं यस्मिन्नर्थे निबोध तत् ॥
नियुक्ता पतिना भार्या यद्यपत्यस्य कारणात् ।
न कुर्यात्तत्तथा भीरु सैनस्सुमहदाप्नुयात् ॥
सौदासेन च रम्भोरु नियुक्ताऽपत्यकर्मणि ।
मदयन्ती जगामर्षिं वसिष्ठमिति नश्श्रुतम् ।
तस्माल्लेभेऽथ सा पुत्रमश्मकं नाम भामिनी ॥
भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया ॥
अस्माकमपि वै जन्म विदितं पङ्कजेक्षणे ।
कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ॥
तस्मादेतानि सर्वाणि कारणानि नरीक्ष्य तु ।
सम्प्रधार्य मयोक्तं यत्तत्त्वं वै कर्तुमर्हसि ॥
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता शुभेक्षणे ।
नातिवर्त्य इति त्वेवं धर्मं धर्मविदो विदुः ।
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति ॥
धर्मं चैव जनास्सन्तः पुराणं परिचक्षते ॥
भर्ता स्त्रियं राजपुत्रि शुभं वा यदि वाऽशुभम् ।
कार्यं नियुञ्ज्यात्सुश्रोणि कर्तव्यं तदकालिकम् ॥
विशेषतः पुत्रगृध्नुर्हीनः प्रजननात्स्वयम् ।
यथाऽहमनवद्याङ्गि पुत्रदर्शनलालसः ॥
अयं रक्ताङ्गुलितलः पद्मपत्रनिभश्शुभः ।
प्रसादनार्थं सुश्रोणि शिरस्यभ्युद्यतोऽञ्जलिः ॥
मन्नियोगात्सुकेशान्ते मत्तश्श्रेयस्तरैर्द्विजैः ।
अपत्यानि विशिष्टानि कैश्चिदुत्पादयाबले ।
त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥
वैशम्पायनः-
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् ।
प्रत्युवाच वरारोहा भर्तुः प्रियचिकीर्षया ॥
कुन्ती-
अधर्मस्सुमहानेषु स्त्रीणां भरतसत्तम ।
यत्प्रसादयते भर्ता प्रसाद्यः क्षत्रियर्षभ ॥
शृणु चेदं महाबाहो मम प्रीतिकरं वचः ॥
पितृवेश्मन्यहं बाला नियुक्ता तिथिभोजने ।
उग्रं पर्यचरं पूर्वं ब्राह्मणं संशितव्रतम् ।
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः ॥
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयम् ॥
स मे ह्याचारसंयुक्तमाचष्ट भगवान्मुनिः ।
मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् ॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
अकामो वा सकामो वा स समेष्यति ते वशम् ॥
इत्युक्ताऽहं तदा तेन पितृवेश्मनि भारत ।
ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः ।
अनुज्ञाता त्वया देवमाह्वयेयं परन्तप ॥
यां मे विद्यां महाराज अददात्स महायशाः ।
तयाऽऽहूतस्सुरः पुत्रं प्रदास्यति सुरोपमम् ॥
अनपत्यकृतं यस्ते शोकं हि व्यपनेष्यति ॥ ॥