वैशम्पायनः-
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय ।
धृतराष्ट्रस्य वैश्यायामेकश्चैव शतात्परः ॥
कथञ्चित्सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ।
वर्तमानं प्रियेष्वेव धृतराष्ट्रोऽन्ववर्तत ॥
पाण्डोः कृन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः ।
समपद्यन्त देवेभ्यस्सन्तानाय कुलस्य च ॥
जनमेजयः-
एतत्सर्वं यथावृत्तं विस्तरेण तपोधन ।
कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ॥
कथं चापि स वैश्यायामेकश्चैव शतात्परः ।
कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ॥
वर्तमानां प्रियेष्वेव धृतराष्ट्रोऽन्ववर्तत ।
वैशम्पायनः-
तृषितं बुभुक्षितं शान्तं द्वैपायनमुपस्थितम् ॥
तोषयामास गान्धारी स तु तस्यै वरं ददौ ।
सा वव्रे सततं भर्तुः पुत्राणां शतमात्मनः ॥
ततः कालेन सा गर्भमगृह्णाज्ज्ञानचक्षुषः ॥
गान्धार्यामाहिते गर्भे पाण्डुरम्बालिकासुतः ।
अगच्छत्परमं दुःखमपत्यार्थमरिन्दम ॥
गर्भिण्यामथ गान्धार्यां पाण्डुः परमदुःखितः ।
मृगाभिशापादात्मानं शोचन्नुपहतक्रियः ॥
स गत्वा तपसा सिद्धिं विश्वामित्रो यथा भुवि ।
देहन्यासे कृतमना इदं वचनमब्रवीत् ॥
पाण्डुः-
चतुर्भिर्ऋणवानित्थं जायते मनुजो भुवि ।
पितृदेवमनुष्याणामृषीणामथ भारत ॥
एतेभ्यस्तु यथाकालं यो न मुच्येत कालवित् ।
न तस्य लोकास्सन्तीति तथा लोकविदो विदुः ॥
यज्ञेन देवान्प्रीणाति स्वाध्यायात्तपसा ऋषीन् ।
पुत्रैश्श्राद्धैरपि पितॄनानृशंस्येन मानवान् ॥
ऋषिदेवमनुष्याणामृणान्मुक्तोऽस्मि धर्मतः ।
पितॄणां तु न मुक्तोऽस्मि तच्च तेभ्यो विशिष्यते ॥
देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः ।
इतरेषां त्रयाणां तु नाशे ह्यात्मा विनश्यति ॥
पितॄणामृणनाशाद्धि न प्रजा नाशमृच्छति ।
इह तस्मात्प्रजालाभे प्रयतन्ते द्विजोत्तमाः ॥
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना ।
तथैवास्मिन्मम क्षेत्रे कथं सृज्येत वै प्रजाः ॥
वैशम्पायनः-
स समानीय कुन्तीं च माद्रीं च भरतर्षभः ।
आचष्ट पुत्रलाभस्य व्युष्टिं सर्वक्रियाधिकाम् ॥
उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ।
अपत्यं धर्मफलदं श्रेष्ठादिच्छन्ति साधवः ॥
अनुनीय तया सम्यङ्महाब्राह्मणसंसदि ।
ब्राह्मणं गुणवन्तं वै चिन्तयामास धर्मवित् ॥
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् ॥
पाण्डुः-
अपत्यस्य सुखं योगमापदि प्रसमर्थये ।
नानपत्यस्य मे लोके प्रतिष्ठा धर्मसंहिता ।
इति कुन्ति विदुर्धर्मं शाश्वतं धर्मचारिणः ॥
इष्टं दत्तं तपस्तप्तं नियमाश्च स्वनुष्ठिताः ।
सर्वमेवानपत्यस्य मोघं भवति निश्चयम् ॥
सोऽहमेवं व्यवसितं प्रेक्ष्यात्मानं न सङ्क्षमे ।
अनपत्यो हि मरणं कामये नोत जीवितम् ॥
मृगाभिशापाज्जानासि प्रजने मम केवलम् ।
नृशंसं कर्मणा कृत्स्नं यथाह्युपगतं तथा ॥
षडेव बन्धुदायादा निर्विष्टास्ताञ्छृणु प्रिये ॥
स्वयं जातः क्षेत्रिकश्च परिक्रीतश्च यस्सुतः ।
पौनर्भवेयः कानीनो जारिण्याश्चैव जायते ॥
दत्तः क्रीतोपहितकावुपगच्छेत्तथा स्वयम् ।
सहोढो जातरेताश्च भिन्नयोनिधृतश्च यः ।
पूर्वं पूर्वमसम्भावे मत्त्वा लिप्सेत वै सुतम् ॥
उत्तमादवरं जन्म काङ्क्षन्ते धर्मचारिणः ।
फलं महदपत्यस्य तस्य भूतिरनुग्रहः ॥
आपद्यपत्यजननं मनुस्स्वायम्भुवोऽब्रवीत् ।
तस्मात्त्वां प्रहिणोम्यद्य पाहि मां प्रजनात्स्वयम् ॥
क्षत्रियाच्छ्रेयसो वापि सूष्वापत्यं यशस्विनि ॥
या हि ते भगिनी साध्वी श्रुतसेना तपस्विनी ।
उवाह यां तु कैकेयश्शारदाण्डायनिर्महान् ॥
सा वीरपत्नी स्वजनैर्नियुक्ताऽपत्यकर्मणि ।
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे ॥
अपत्यार्थे प्रजालाभे अन्वगच्छच्छुभव्रता ।
वरयित्वा द्विजं देवी कृते पुंसवने पुरा ॥
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् ।
सा त्रीन्वीरानजनयद्दुर्जयादीन्महारथान् ॥
तथा त्वमपि कल्याणि ब्राह्मणं तपसाऽधिकात् ।
मन्नियोगात्कुरु क्षिप्रमपत्योत्पादकं महत् ॥
वैशम्पायनः-
एवमुक्ता महाराज कुन्ती प्रत्यभाषत ।
कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ॥
कुन्ती-
न मामर्हसि धर्मज्ञ वक्तुमेवं कथञ्चन ।
धर्मपत्नीं च पत्नीं च राजन्राजीवलोचन ॥
त्वमेव हि महाबाहो मय्यपत्यानि भारत ।
तथा वीर्योपपन्नानि सम्पादयितुमर्हसि ॥
स्वर्गं मनुजशार्दूल गच्छावो वा तवेप्सितम् ।
अपत्याय च मां गच्छ त्वमेव कुरुपुङ्गव ॥
नह्यावां मनसाऽप्यन्यं गच्छाव पुरुषर्षभ ।
त्वत्तः प्रतिविशिष्टस्सन्को योऽन्यो भुवि मानवः ॥
इमां धर्म्यां धर्म्यकथां मम चैव निबोधय ।
पौराणिकीं विशालाक्ष कीर्तयिष्यामि भारत ॥
व्युषिताश्व इति ख्यातो बभूव भुवि पार्थिवः ।
पुरा परमधर्मज्ञः पूरोर्वंशविवर्धनः ॥
तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि ।
अगच्छंस्त्रिदशास्सर्वे सेन्द्रास्सर्वमहर्षिभिः ॥
अमाद्यदिन्द्रस्सोमेन तुतुषुर्गुरवो धनैः ।
व्युषिताश्वस्य राजर्षेस्तदा यज्ञे महात्मनः ॥
व्युषिताश्वो मनुष्येन्द्रश्शुशुभे यज्ञसम्पदा ।
सर्वभूतेषु राजेन्द्र शरत्काल इवांशुमान् ॥
स विजित्वा गृहीत्वा तु नृपतीन्राजसत्तमः ।
प्राच्यानुदिच्यान्मत्स्यांश्च दाक्षिणा अभ्यकल्पयत् ॥
अश्वमेधशतैरिष्ट्वा व्युषिताश्वः प्रतापवान् ।
बभूव नृपशार्दूलो दशनागबलः किल ॥
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः ।
अप्रमेयमपर्यन्तं व्युषिताश्वो धनं ददौ ॥
व्युषिताश्वस्समुद्रान्तां विजित्येमां वसुन्धराम् ।
अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ॥
यजमानो महायज्ञैर्ब्राह्मणेभ्यो महद्धनम् ।
अनन्तामखिलां तत्र पृथिवीमददात्ततः ।
सुषाव च बहून्सोमान्सोमसंस्थां तथैव च ॥
आसीत्काक्षीवती तस्य भार्या परमसम्मता ।
भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥
कामयामासतुश्चैव परस्परमिति श्रुतम् ॥
स तस्यां कामसंसक्तो यक्ष्मणा समपद्यत ।
अचिरेणैव कालेन जगामास्तमिवांशुमान् ॥
तस्मिन्वृत्ते मनुष्येन्द्र भार्या काक्षीवती तदा ।
अपुत्रा पुरुषव्याघ्र विललापेति नश्श्रुतम् ।
भद्रा परमदुःखार्ता तन्निबोध नृपोत्तम ॥
भद्रा-
नारी परमधर्मज्ञा सर्वा पुत्रविनाकृता ।
पत्या विना जीवति या न सा जीवत्यसंशयम् ॥
पत्या विना मृतं श्रेयो नार्याः क्षत्रियपुङ्गव ।
तद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् ॥
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे ।
प्रसादं कुरु मे राजन्नितः क्षिप्रं नयस्व माम् ॥
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च ।
त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् ॥
छायेवानुगता राजंस्तवाहं वशवर्तिनी ।
भविष्यामि नरव्याघ्र नित्यं प्रियहितैषिणी ॥
अद्यप्रभृति मे राजन्कष्टा हृदयशोषणाः ।
आधयो हि भविष्यन्ति त्वामृते पुष्करेक्षण ॥
अभाग्यया मया नूनं विमुक्तास्सहचारिणः ।
संयोगा विप्रयोगाश्च पूर्वदेहे न संशयः ॥
तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितैः ।
दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् ॥
एषाहमद्य राजेन्द्र कुशानास्तीर्य शायिनी ।
दर्शयस्व मनुष्येन्द्र साधु मां पुष्करेक्षण ॥
विक्रोशन्तीं सतीं दुःखाद्देहमास्तां नरेश्वर ॥
वैशम्पायनः-
एवं बहुविधास्तस्या विलपन्त्याः पुनः पुनः ।
तस्मिञ्छवशरीरे वाक्तां किलान्तर्हिताऽब्रवीत् ॥
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव ।
जनयिष्याम्यपत्यानि त्वय्येवाहं वराङ्गने ॥
आत्मीये तु वरारोहे शयने मां चतुर्दशीम् ।
अष्टमीं वाप्यृतुस्नाता संभवेथाश्शुचिस्मिते ॥
कुन्ती-
एवमुक्ताथ सा देवी तच्चकार यशस्विनी ।
तथा कमलपत्राक्षी यथोक्तं पुत्रागर्धिनी ॥
सा तेन सुषुवे देवी क्रमेण मनुजाधिप ।
त्रीन्साल्वांश्चतुरो मद्रान्पुत्रान्भरतसत्तम ॥
तथा त्वमपि मय्येव मनसा भरतर्षभ ।
शक्तो जनयितुं राजनपत्यं तपसो बलात् ॥ ॥