वैशम्पायनः-
तमतीतमुपक्रम्य राजा स्वमिव बान्धवम् ।
सभार्यश्शोकमोहार्तः पर्यदेवयदातुरः ॥
पाण्डुः-
सतामपि कुले जाताः कर्मणा चातिदुर्गतिम् ।
प्राप्नुवन्ति दुरात्मानः कामजालविमोहिताः ॥
कुले धर्मात्मनां जातः कामात्मा किल भारतः ।
जीवितान्तमनुप्राप्तो बालभावे पिता मम ॥
तस्य कामात्मनः क्षेत्रे राज्ञस्संयतवागृषिः ।
कृष्णद्वैपायनस्साक्षाद्भगवान्मामजीजनत् ॥
तस्य मे व्यसने बुद्धिस्सञ्जातेयमिहाधमा ।
त्यक्तस्य देवैविषमान्मृगयायां दुरात्मनः ॥
मोक्ष एव व्यवस्यामि बन्धं हि व्यसनं महत् ।
सद्वृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ।
अतीव तपसाऽऽत्मानं योजयिष्याम्यसंशयम् ॥
तस्मादेकाहमेकाहमेकैकस्मिन्वनस्पतौ ।
चरन्भैक्षां मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥
पांसुना च प्रतिच्छन्नश्शून्यागारप्रतिश्रयः ।
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥
न शोको न प्रहर्षश्च तुल्यनिन्दात्मसंस्तुतिः ।
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ॥
न जात्वभिहसन्कञ्चिन्नकुर्वन्भ्रुकुटीं क्वचित् ॥
प्रसन्नवदनो नित्यं सर्वप्राणभृतः पुनः ।
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् ॥
प्रजावर्गे स्ववर्गस्थस्समस्सर्वप्रजाः प्रति ।
एककालं चरन्भिक्षां कुलानि द्वे च पञ्च च ॥
असम्भवे वा भैक्षस्य चरन्ननशनान्यपि ।
अल्पमल्पं यथा भोज्यं पूर्वलाभं च जातुचित् ।
नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ॥
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ।
नाकल्याणं न कल्याणं ध्यायन्नुभययोरपि ॥
याः काश्चिज्जीवता शक्याः त्यक्तं नित्यं क्षमाः क्रियाः ।
तास्सर्वास्समतिक्रम्य निमेषादिव्यवस्थितः ॥
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् ।
मरणं जीवितं चोभे नाभिनन्दन्न च द्विषन् ॥
तासु चाप्यनवस्थासु त्यक्तसर्वक्रियेन्द्रियः ।
सम्परित्यक्तधर्मार्थस्सुनिर्निक्तात्मकिल्बिषः ॥
विमुक्तस्सर्वपापेभ्यो व्यतीतस्सर्ववागुराः ।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥
एतया सततं वृत्त्या चरन्नेवम्प्रकारया ।
देहं संस्कारयिष्यामि निर्भयं स्थानमाश्रितः ॥
नाहं श्वाचरिते मार्गे निर्वीर्यकृपणोचिते ।
स्वधर्मात्सततापेते रमेयं धीरवर्जिते ॥
सत्कृतोऽसत्कृतो वाऽपि योऽन्यां कृपणचक्षुषा ।
उपैति वृत्तिकामत्वात्स शुनां वर्तते पथि ॥
वैशम्पायनः-
एवमुक्त्वा तु दुःखार्तमपश्यद्भरतर्षभः ।
अवेक्षमाणः कुन्तीं च मान्द्रीं च समभाषत ॥
पाण्डुः-
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः ।
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥
ब्राह्मणाश्च महाभागे सोमपास्संशितव्रताः ।
पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ॥
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्राजितो वने ॥
वैशम्पायनः-
श्रुत्वा च वचनं भर्तुस्त्यागधर्मकृतात्मनः ।
तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥
कुन्तीमाद्र्यौ-
अन्येऽपि ह्याश्रमास्सन्ति ये शक्या भरतर्षभ ।
आवाभ्यां सह संवस्तुं धर्ममाश्रित्य चिन्तिताः ॥
आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा महत्तपः ।
वसेह भविता सार्थस्स्वर्गस्यापि न संशयः ॥
प्रणिधायेन्द्रियग्रामं भर्तृलोके नरर्षभ ।
त्यक्तकामसुखे ह्यावां राजंस्तप्स्यावहे तपः ॥
यदि वाऽऽवां महाभाग त्यक्ष्यस्येव विशां पते ।
अद्यैवाऽऽवां प्रहास्यावो जीवितं भरतर्षभ ॥
पाण्डुः-
यदि व्यवसितं त्वेवं युवाभ्यां धर्ममिश्रितम् ।
सद्वृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥
त्यक्तग्राम्यसमाचारस्तप्यमानो महत्तपः ।
वल्कली फलमूलाशी चरिष्यामि महावने ॥
अग्नौ जुह्वदुभौ कालावुभौ कालावुपस्पृशन् ।
कृशः परिमिताहारश्चीरचर्मजटाधरः ॥
शीतवातातपसहः क्षुत्पिपासाश्रमाहितः ।
तपसा विधियुक्तेन शरीरं परिशोषयन् ॥
एकान्तशीलो विमृशन्पक्वापक्वेन वर्तयन् ।
पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥
वानप्रस्थजनस्यापि दर्शयन्कुलवासिनः ।
नाप्रियाणि चरञ्जातु किं पुनर्ग्रामवासिनाम् ॥
एवमारण्यशास्त्राणामुक्तमुग्रं तपोविधिम् ।
सेवमानः प्रतीक्षिष्ये देहस्यास्य विमोक्षणम् ॥
वैशम्पायनः-
एवमुक्त्वा स भार्ये ते राजा कौरववंशजः ।
ततश्चूडामणिं निष्कानङ्गदे कुण्डलानि च ॥
मुकुटं हारसूत्रं च कटिबन्धं तथैव च ।
वासांसि विमलाः खङ्गास्स्त्रीणामाभरणानि च ॥
वाहनानि च मुख्यानि शस्त्राणि विविधानि च ।
हेमभाण्डानि दिव्यानि पर्यङ्कास्तरणानि च ॥
मणिमुक्ताप्रवालानि वसूनि विविधानि च ।
आसनानि च मुख्यानि बहूनि विविधानि च ।
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत ॥
पाण्डुः-
गत्वा नागपुरं वाच्यं पाण्डुः प्रव्राजितो वने ॥
अर्थं कामं रतिं चैव रत्नानि विविधानि च ।
व्रस्थस्सर्वमुत्सृज्य सभार्यो भरतर्षभ ॥
वैशम्पायनः-
ततस्तस्यानुयातारस्सर्वे च परिचारकाः ।
श्रुत्वा भरतसिंहस्य विधिधाः करुणा गिरः ।
भममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥
उष्णमास्रं प्रमुञ्चन्तस्तमालोक्य यशस्विनम् ।
ययुर्नागपुरं तूर्णं सर्वमादाय तद्धनम् ॥
ते गत्वा नगरं राज्ञे यथावृत्तं महात्मने ।
कथयाञ्चक्रिरे सर्वं धनं च विविधं ददुः ॥
गृहीत्वा धृतराष्ट्रस्तु धनं भरतर्सत्तम ।
कृपायुक्तो महाबाहुः पाण्डुमेव स्म शोचति ॥
राजपुत्रस्तु कौरव्यो मुनिर्मूलफलाशनः ।
जगाम सह भार्याभ्यामाशु नागसहं गिरिम् ॥
स चैत्ररथमासाद्य वारिषेणमवाप्य च ।
वारिषेणमतिक्रम्य गत्वा गन्धरजोवहम् ॥
रक्ष्यमाणो महाभूतैस्सिद्धैश्च परमर्षिभिः ।
उवास सततं राजा समेषु विषमेषु च ॥
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च ।
शतशृङ्गे महाप्राज्ञस्तापसस्समपद्यत ॥
तत्रापि तपसि श्रेष्ठे वर्तमानः परन्तपः ।
सिद्धचारणसङ्घानां बभूव परमप्रियः ॥
शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः ।
स्वर्गं गन्तुं पराक्रान्तस्स्वेन वीर्येण भारत ॥
केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा ।
ऋषयस्त्वभवत्कैश्चित्पुत्रवत्परिरक्षितः ॥
स तु कालेन महता प्राप्य निष्कल्मषं तपः ।
ब्रह्मर्षिसदृशः पाण्डुरभवद्भरतर्षभ ॥
अमावास्यां तु सहिता ऋषयस्संशितव्रताः ।
ब्रह्माणं द्रष्टुकामास्ते सम्प्रतस्थुर्मनीषिणः ॥
पाण्डुः-
सम्प्रस्थितानृषीन्दृष्ट्वा पाण्डुर्वचनमब्रवीत् ।
भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः ॥
ऋषयः-
समावायो महानद्य ब्रह्मलोके महात्मनाम् ।
देवानां च ऋषीणां च पितॄणां च महात्मनाम् ॥
वयं तत्र गमिष्यामो द्रष्टुकामास्स्वयम्भुवम् ॥
वैशम्पायनः-
पाण्डुरुत्थाय सहसा गन्तुकामं मनीषिभिः ।
स्वर्गमार्गं तितीर्षन्तं शतशृङ्गादुदङ्मुखम् ।
प्रतस्थे सह भार्याभ्यामब्रुवंस्ते तु तापसाः ॥
उपर्युपरि गच्छन्तश्शैलराजमुदङ्मुखाः ।
प्रपश्यामो गिरिं तस्मिन्दुर्गान्देशान्बहून्वयम् ॥
यक्षराक्षसगुप्तानि गन्धर्वचरितानि च ।
आक्रीडितान्यप्सरोभिस्सह देवगणैस्सदा ॥
सादनानि कुबेरस्य हृद्यानि च मृदूनि च ।
तेषां नदं नितम्बांश्च घोरांश्च गिरिगह्वरान् ॥
सन्ति नित्यहिमा देशा निवृत्तमृगपक्षिणः ।
सन्ति केचित्सदावर्षा घोररूपा दुरासदाः ॥
पक्षिणां न गतिस्तत्र कथमेवापरे मृगाः ।
वायुरेवात्र संयाति सिद्धा यक्षाश्च चारणाः ॥
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे ।
न सीदेतामदुःखार्हे मा गमो भरतर्षभ ॥
पाण्डुः-
अप्रजस्य किल स्वर्गमद्वारं सम्प्रचक्षते ।
स हि सन्तापतप्तोऽहमप्रजश्च ब्रवीमि वः ॥
सोऽहमुग्रेण तपसा सभार्यस्त्यक्तजीवितः ।
अनपत्योऽपि विन्देयं स्वर्गमुग्रेण कर्मणा ॥
तापसाः-
अस्ति वै तव धर्मात्मन्विदुर्देवोपमं शुभम् ।
अपत्यमनघं त्विष्टं पश्यामो दिव्यचक्षुषा ॥
दैवादिष्टं मनुष्ययेन्द्र कारणेनोपपादय ।
अरिष्टं क्षिप्रमव्यग्रो विन्देथाः परमां गतिम् ॥
तस्मादिष्टफले तात कुरु यत्नं यथागमम् ।
अपत्यं गुणसम्पन्नं लब्धा प्रीतिमवाप्यस्यसि ॥
वैशम्पायनः-
तच्छ्रुत्वा तापसवचः कौरव्यस्समचिन्तयत् ।
मृगशापादपहतामात्मनो हीन्द्रियक्रियाम् ॥
अथ पारशवीं कन्यां देवकस्य महीपतेः ।
रूपयौवनसम्पन्नां स शुश्रावापगासुतः ॥
ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः ।
विवाहं कारयामास विदुरस्य महामतेः ॥
तस्यां चोत्पादयामास विदुरः कुरुनन्दनः ।
पुत्रान्विनयसम्पन्नानात्मनस्सदृशान्गुणैः ॥ ॥