वैशम्पायनः-
रूपशीलगुणोपेता धर्मकामा नरर्षभ ।
दुहिता कुन्तिभोजस्य कुन्ती राष्ट्रे पतिंवरा ॥
सिंहदंष्ट्रं महास्कन्धमृषभाक्षं महास्वनम् ।
पतिं वव्रे महेष्वासं पाण्डुं कुन्ती यशस्विनी ॥
भूमिपालसहस्राणामग्रतस्स तया वृतः ।
युयुजे भरतश्रेष्ठः पौलोम्या मघवानिव ॥
यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् ।
विश्रुता त्रिषु लोकेषु माद्री मद्रपतेस्सुता ॥
सर्वराजसु विख्याता रूपेणासदृशी भुवि ।
पाण्डोरर्थे धनुष्क्रीता मद्रराजेश्वरात्मजा ।
विवाहं कारायामास भीष्मः पाण्डोर्महात्मनः ॥
सिंहोरस्कं महेष्वासं वृषभाक्षं महास्वनम् ।
दृष्ट्वा पाण्डुं नरव्याघ्रं व्यस्मयन्त नरा भुवि ॥
कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः ।
गोप्ता भरतवंशस्य पाणडुस्सर्वास्त्रकोविदः ॥
जिहीर्षमाणो वसुधां ययौ शत्रूननेकशः ॥
पूर्वमागस्कृतो गत्वा दशार्णास्समरे हताः ।
पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥
ततस्सेनामुपादाय पाण्डुर्नानाविधध्वजाम् ।
समृद्धहयपादातामप्रमेयहयद्विपाम् ॥
हत्वा काशीषु वङ्गेषु सुह्मेषु च नराधिपान् ।
स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ॥
आगस्कृत्सर्ववीराणां वैरी सर्वकुरुक्षिताम् ।
बहूनामागसां कर्ता वैरी सर्वमहीक्षिताम् ।
गोप्ता मगधवंशस्य दार्वो राजगृहे हतः ॥
ततः कोशं समादाय वाहनानि बलानि च ।
पाण्डुना मिथिलां गत्वा मैथिलास्समरे जिताः ॥
तं शरौघं महावेगमस्त्रज्वलितपावकम् ।
पाण्डुमासाद्य राजानो न शेकुरतिवर्तितुम् ॥
ते ससेनास्स्म यानेन विध्वंसितमहाबलाः ।
पाण्डुना पृथिवीपालः कुरुकर्मसु योजिताः ॥
तेन ते निर्जितास्सर्वे पृथिव्यां सर्वपार्थिवाः ॥
तमेकं मेनिरे शूरं देवेष्विव पुरन्दरम् ।
तं कृताञ्जलयश्शूरमासाद्य वसुधाधिपाः ॥
आजह्नुर्धनधान्यानि रत्नानि विविधानि च ।
मणिप्रवालमुक्तानि सुवर्णरजतं तथा ॥
गोरत्नानि च मुख्यानि रथरत्नानि कुञ्जरान् ।
खरोष्ट्रमहिषान्गाश्च यच्च किञ्चिदजाविकम् ।
तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥
तदादाय ययौ पाण्डुर्भृशं मुदितवाहनः ।
हर्षयन्सर्वराष्ट्राणि पुरं च गजसाह्वयम् ॥
शन्तनो राजसिंहस्य भरतस्य च धीमतः ।
नष्टा कीर्तिस्स्ववंशस्य पाण्डुना पुनराहृता ॥
ये पूर्वं परराष्ट्राणि जह्रुः परधनानि च ।
ते नागपुरसिंहेन पाण्डुना वशगाः कृताः ॥
इत्यभाषन्त राष्ट्राणि भूमिपालाश्च सङ्गताः ।
अभ्यनन्दंश्च वै पाण्डुमाशीर्वादैः पृथग्विधैः ॥
प्रसन्नमनसो भूत्वा बान्धवाः कुरुभिस्सह ।
प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरस्सराः ॥
ते तु दीर्घमिवायान्तं गत्वा नागपुरालयाः ।
आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्धनैः ॥
नानायानसमानीतै रत्नैरुच्चावचैस्तथा ॥
अजाविकाश्वसङ्घानामुष्ट्रगोमहिषस्य च ।
नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः ।
यथाऽर्हं मानयामास पौरजानपदानपि ॥
प्रमथ्य परराष्ट्राणि कृतार्थं पुनरागतम् ।
पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥
स तूर्यशतशङ्खैश्च भेरीणां च महास्वनैः ।
हर्षयन्सर्वभूतानि विवेश गजसाह्वयम् ॥
धृतराष्ट्राभ्यनुज्ञातस्स्वबाहुविजितं धनम् ।
भीष्माय सत्यवत्यै च मात्रेवोपजहार तत् ॥
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् ।
सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥
ततस्सत्यवती भीष्मः कौसल्या च यशस्विनी ।
शुभैः पाण्डुर्जितै रत्नैर्भृशं तुतुषुराहृतैः ॥
ननन्द मनसा कौसल्या तमप्रतिमतेजसम् ।
जयन्तमिव पौलोमी परिष्वज्य नर्षभम् ॥
तस्य वीरस्य विक्रान्तैस्सहस्रशतदक्षिणैः ।
अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥
सम्प्रयुक्तश्च कुन्त्या च माद्र्या सन्तत नृपः ।
जितेन्द्रियस्तदा पाण्डुर्बभूव वनगोचरः ॥
हित्वा प्रासादपङ्क्तीश्च शुभानि शयनानि च ।
चापपाणिर्मृगान्निघ्नन्बभूव मृगयापरः ॥
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः ।
उवास गिरिशृङ्गेषु महासाल्ववनेषु च ॥
बभूव कुन्त्या माद्र्या च पाण्डुस्सह वनेचरः ।
द्विपराजः करेणुभ्यां यथा मध्यगतस्तथा ॥
चरन्तं सह भार्याभ्यां बाणखङ्गधनुर्धरम् ।
विचित्रकवचं वीरं परमास्त्रविदं नृपम् ।
देवोऽयमित्यमन्यन्त चरन्तो वनवासिनः ॥
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः ।
अनुजह्रुर्वनान्तेषु धृतराष्ट्रप्रचोदिताः ॥
तदासाद्य महारण्यं मृगव्यालनिषेवितम् ।
तत्र मैथुनकालस्थं ददर्श मृगयूथपम् ॥
स च तं च मृगीं चैव रुक्मपुङ्खैस्सवाजिभिः ।
निर्बिभेद शरैस्तूर्णं पाण्डुः पञ्चभिरायसैः ॥
स च राजन्महातेजा ऋषिपुत्रस्तपोयुतः ।
भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ॥
स संयुक्तस्तथा मृग्या मानुषीं वाचमीरयन् ।
क्षणेन पतितो भूमौ विललापातुरो मृगः ॥
मृगः-
काममन्युवशं प्राप्ता बुद्ध्यन्तरगता अपि ।
वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ॥
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः ।
विधिपर्यागतानर्थान्प्रज्ञया परिपश्यति ॥
तस्माद्धर्मात्मनो मुख्ये कुले जातस्य भारत ।
कामलोभाभिभूतस्य कस्मात्ते छलिता मतिः ॥
पाण्डुः-
या वै शत्रुवधे वृत्तिस्सा मृगाणां वधे ध्रुवा ।
राज्ञां मृगवनानीह किं त्वं मोहाद्विगर्हसे ॥
अमायया ह्यच्छलेन मृगाणामिषुधारिभिः ।
वध एव भवेद्धर्मस्तद्विद्वान्किं विगर्हसे ॥
अगस्त्यस्सत्रमासीनश्चकार मृगयामृषिः ।
आरण्यान्सर्वदेवत्यान्पशून्प्रोक्ष्य महावने ॥
प्रमाणदृष्टं धर्मस्य शास्त्रं किं त्वं विगर्हसे ।
अगस्त्यस्याभिचारेण युष्माकं हि वपा हृता ॥
मृगानेव समुद्दिश्य विमुञ्चन्ति पुनश्शरान् ।
न रिपूणां समाधानं परीक्षन्ते पुरातनाः ॥
रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा ।
उपायैर्विविधैस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥
मृगः-
नाहं घ्नन्तं मृगन्राजन्विगर्हे चात्मकारणात् ।
मैथुनं तु प्रतीक्ष्यं मे त्वयेहाद्यानृशंस्यतः ॥
सर्वभूतहितः कालस्सर्वभूतहितश्च सः ।
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् ।
पुरुषार्थफलं कालं यत्त्वया वितथः कृतः ॥
नीतिमार्गप्रतिष्ठस्य भरतस्य महात्मनः ।
वंशे जातस्य राजेन्द्र नानुरूपमिदं तव ॥
अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत ।
को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ॥
स्त्रीभोगानां विशेषज्ञश्शास्त्रधर्मार्थतत्त्ववित् ।
नार्हस्यमरसङ्काश कर्तुमाचरमीदृशम् ॥
त्वया नृशंसं कर्तारः पापाचाराश्च ये नराः ।
निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ॥
किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् ।
मुनिं मूलफलाहारं मृगवेषधरं नृप ॥
वसमानमरण्येषु नित्यं शमपरायणम् ॥
त्वयाऽहं निहतो यस्मात्तस्मात्त्वामप्यनागसम् ।
द्वयोर्नृशंसकर्तारमवशं काममोहितम् ।
जीवितान्तकरो भावो मैथुने समुपेष्यति ॥
अहं हि किन्दमो नाम तपसाऽप्रतिमो मुनिः ॥
अपत्रपाभिभूतानां नराणां मैथुनं प्रियम् ।
मृगो भत्वा मृगीष्वेव मैथुने विचराम्यहम् ॥
न हि ते ब्रह्महत्येयं भविष्यति न जानतः ।
मृगरूपधरं हत्वा मामेवं काममोहितम् ॥
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि ।
प्रियया सह संवासं प्राप्य कामविमोहितः ।
त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥
अन्तकाले च संवासं यया गन्तासि कान्तया ॥
प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् ।
भक्त्या मतिमतां श्रेष्ठा सा वै त्वामनुयास्यति ॥
वर्तमानस्सुखे दुःखं यथाऽहं प्रापितस्त्वया ।
तथा सुखं त्वं सम्प्राप्य दुःखमभ्यागमिष्यसि ॥
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्यमुच्यत ।
मृगः पाण्डुश्च दुःखार्तः क्षणेन समपद्यत ॥ ॥