वैशम्पायनः-
शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् ।
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ॥
पैतृष्वसेयाय ततस्सोऽनपत्याय वीर्यवान् ।
उग्रायाग्रे प्रतिज्ञाय स्वस्यापत्यं स वीर्यवान् ॥
अग्रजातेति तां कन्यामुग्रानुग्रहकाङ्क्षया ।
अददात्कुन्तिभोजाय शूरो गोपतये सुताम् ॥
सा नियुक्ता पितुर्गेहे ब्राह्मणातिथिभोजने ।
उग्रं पर्यचरद्घोरं ब्राह्मणं संशितब्रतम् ॥
निगूढं निश्चयं धर्मे दुर्वासा इति यं विदुः ।
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ॥
स तस्यै प्रददौ धर्ममापद्धर्मान्ववेक्षया ।
अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ।
अभिचारयुतं तस्या आचष्ट भगवानृषिः ॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
तस्य तस्य प्रसादाद्वै पुत्रस्तव जनिष्यते ॥
तथोक्ता सा तु मुनिना तस्य कौतूहलात्तदा ।
कन्या सती देवमर्कमाजुहाव यशस्विनी ॥
ततो घनान्तरं कृत्वा स्वमार्गं तपनस्तदा ।
उपतस्थे स तां कन्यां पृथां पृथुललोचनाम् ॥
सा ददर्श तमायान्तं विस्मयाल्लोकभावनम् ।
विस्मिता चानवद्याङ्गी दृष्ट्वा तं महदद्भुतम् ॥
साऽब्रवीद्भगवन्कस्त्वं प्रादुर्भूतो ममान्तिकम् ॥
सूर्यः-
आहूतोपस्थितं भद्रे ऋषिमन्त्रेण चोदितम् ।
विद्धि मां पुत्रलाभाय देवमर्कं शुचिस्मिते ।
पुत्रस्ते निर्मितस्सुभ्रु शृणु यादृक्छुभानने ॥
आदित्ये कुण्डले बिभ्रत्कवचं चैव मामकम् ।
शस्त्रास्त्राणामभेद्यं च भविष्यति शुचिस्मिते ॥
न न किञ्चन देयं तु ब्राह्मणेभ्यो भविष्यति ।
चोद्यमानो मया चापि नाक्षमं चिन्तयिष्यति ॥
दास्यत्येव हि विप्रेभ्यो मानी चैव भविष्यति ॥
वैशम्पायनः-
एवमुक्ता ततः कुन्ती गोपतिं प्रत्युवाच ह ।
कन्या पितृवशा चाहं पुरुषार्थो न चैव मे ॥
सूर्यः-
यद्येवं मन्यसे भीरु किमाह्वयसि भास्करम् ।
यदि मामवजानासि ऋषिस्स न भविष्यति ॥
मन्त्रदानेन यस्य त्वमवलेपेन दर्पिता ।
कुलं च तेऽद्य धक्ष्यामि क्रोधदीप्तेन चक्षुषा ॥
कुन्ती-
प्रसीद भगवान्देव अवलेपो हि नास्ति मे ।
ममैव परिहार्यं स्यात्कन्याभावस्य दूषणम् ॥
सूर्यः-
व्यपयातु भयं तेऽद्य कुमारं प्राप्स्यसे शुभे ।
मया त्वं चाभ्यनुज्ञाता पुनः कन्या भविष्यति ॥
वैशम्पायनः-
एवमुक्ता ततः कुन्ती सम्प्रहृष्टतनूरुहा ।
सङ्गता च तदा सुभ्रूरादित्येन महात्मना ॥
प्रकाशकर्मा तपनः कन्यागर्भं दधौ ततः ।
अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् ॥
आमुक्तकवचश्श्रीमान्कुण्डलाभ्यां समावृतः ।
सोऽजायत तदा वीरस्सर्वलोकेषु विश्रुतः ॥
मञ्जूषां रत्नसम्पूर्णां कर्णनामाभिसञ्ज्ञिताम् ।
गूहमानापचारं तं बन्धुपक्षभयात्तदा ।
उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् ॥
प्रादाच्च तस्याः कन्यात्वं पुनस्स परमद्युतिः ।
दत्त्वा च वरदश्रेष्ठो दिवमाचक्रमे पुनः ॥
तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः ।
पुत्रत्वे कल्पयामास भार्यायास्सूतनन्दनः ॥
नामधेयं च चक्राते तस्य बालस्य तावुभौ ।
समाहृतोऽयं वसुना वसुषेणेति नामतः ॥
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् ।
आपृष्ठतापाच्चादित्यमुपतस्थे कृताञ्जलिः ॥
यस्मिन्काले तपन्नास्ते स वीरस्सत्यसङ्गरः ।
नादेयं ब्राह्मणायासीत्तस्मिन्काले महात्मनः ॥
ततः काले तु कस्मिंश्चित्स्वप्नान्ते कर्णमब्रवीत् ।
आदित्यो ब्राह्मणो भूत्वा शृणु वीर वचो मम ॥
प्रभातायां रजन्यां त्वामागमिष्यति वासवः ।
न तस्य विप्रदातव्यं विप्ररूपी भविष्यति ॥
निश्चयोऽस्यापहर्तुं ते कवचं कुण्डले तथा ।
अतस्त्वां बोधयाम्येष स्मर्तासि वचनं मम ॥
कर्णः-
शक्रो मां विप्ररूपेण यदि वै याचते द्विज ।
कथं चास्मै न दास्यामि यथा चास्म्यवबोधितः ॥
विप्राः पूज्यास्तु देवानां प्रियं मऽस्त्विति ब्राह्मणः ।
तदेवमेव जानन्वै न शक्नोम्यवमन्त्रणे ॥
सूर्यः-
यद्येवं शृणु मे वीर वरं ते सोऽपि दास्यति ।
शक्तिं त्वमपि याचेथास्सर्वशस्त्रविबाधिनीम् ॥
वैशम्पायनः-
एवमुक्त्वा द्विजस्स्वप्ने तत्रैवान्तरधीयत ।
कर्णः प्रबुद्धस्तं स्वप्नं चिन्तयानोऽभवत्तदा ॥
तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थं भूतभावनः ।
कुण्डले प्रार्थयामास कवचं च महाद्युतिः ॥
उत्कृत्याविमनास्स्वाङ्गात्कवचं रुधिरस्रवम् ।
कर्णपाशौ च द्वे छित्त्वा प्रायच्छत्स कृताञ्जलिः ॥
अहो साहसमित्येवं मनसा वासवो हसन् ।
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ॥
न तं पश्यामि को ह्येतत्कर्म कर्ता भविष्यति ।
प्रीतोऽस्मि कर्मणा तेन वरं वृणु यमिच्छसि ॥
कर्णः-
वैशम्पायनः-
इच्छामि भगवद्दत्तां शक्तिं शत्रुनिबर्हिणीम् ।
शक्तिं तस्मै ददौ शक्रो विस्मितो वाक्यमब्रवीत् ॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
यस्मै क्षेप्स्यसि रुष्टस्सन्सोऽनया न भविष्यति ॥
हत्वैकं समरे शत्रुं ततो मामागमिष्यति ॥
पुरा नाम तु तस्याऽऽसीद्वसुषेण इति स्मृतम् ।
ततो वैकर्तनःकर्णस्स तस्मात्कारणादितः ॥ ॥