वैशम्पायनः-
धृतराष्ट्रे च पाण्डौ च विदुरे च महात्मनि ।
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् ।
कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥
यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ।
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः ॥
ऊर्ध्वसस्याऽभवद्भूमिस्सस्यानि फलवन्ति च ।
गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥
वणिग्भिश्चोपकीर्यन्ते नगराण्यथ शिल्पिभिः ।
शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥
नाभवत्कृपणः कश्चिन्न काचिद्विधवाऽभवत् ।
नाभवन्दस्यवः केचिन्नाधर्मरुचयो नराः ॥
प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ।
तन्महोदधिसङ्काशं नगरं बह्वशोभत ॥
द्वारतोरणनिर्यूहैश्छन्नमभ्रं घनैरिव ।
प्रसादशतसम्बाधं महेन्द्रपुरसन्निभम् ॥
नदीपादपषण्डेषु वापीपल्वलसेतुषु ।
काननेषु च दिव्येषु विहरन्तिस्म कौरवाः ॥
उत्तरैः कुरुभिस्सार्धं दक्षिणाः कुरवस्तदा ।
स्पर्धमानाश्च दृश्यन्ते चारणर्षिसमागमे ॥
दानधर्मक्रियायुक्ता यज्ञव्रतपरायणाः ।
अन्योन्यप्रीतिसंयुक्ता वर्धन्ते स्म प्रजास्तदा ॥
मानक्रोधविहीनाश्च प्रजा लोभविवर्जिताः ।
अन्योन्यप्रीतिसंयुक्ता वर्धन्ते स्म प्रजास्तदा ॥
तस्मिञ्जनपदश्रिष्ठे भीष्मेण विधिना कृताः ।
कूपाराममहावाप्रा ब्राह्मणावसथास्तदा ॥
स्वाहाकारैस्स्वधाभिश्च सन्निवासस्सुरक्षितः ।
बभूव परमोपेतो यूपैश्चैत्यधनुर्भुजैः॥
प्रमृज्य परराष्ट्राणि स्वराष्ट्रं परिरक्षता ।
भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥
क्रियमाणेषु कृत्येषु कुमाराणां यशस्विनाम् ।
पौरजानपदास्सर्वे बभूवुः परमोत्सवाः ॥
गृहेषु कुरुमुख्यानां पौराणां च नराधिप ।
दीयतामिज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महायशाः ।
जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥
वैदिकाध्ययने युक्तो नीतिशास्त्रे च पारगः ।
भीष्मेण राजन्कौरव्यो धृतराष्ट्रोऽभिषेचितः ॥
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि ।
तथैव गजशिक्षायामस्त्रेषु विविधेषु च ॥
अर्थधर्मप्रधानासु विद्यासु विविधासु च ।
गतः पारं यदा पाण्डुस्तदा सेनापतिः कृतः ॥
धृतराष्ट्रस्त्चक्षुष्मान्राज्यं न प्रतिपद्यत ।
रक्षाकरश्च विदुरः पाण्डुश्चासीन्महीपतिः ॥
अमात्यो मनुजेन्द्रस्य बाल एव यशस्विनः ।
प्रणेता सर्वधर्माणां भीष्मेण विदुरः कृतः ॥
सर्वशास्त्रार्थतत्त्वज्ञो बुद्धिमेधापटुर्युवा ।
भावेनागमयुक्तेन सर्वं वेदयते जगत् ॥
प्रनष्टश्शान्तनोर्वंशो भीष्मेण पुनरुद्धृतः ।
ततो निर्वचनं सत्सु तदिदं परिपठ्यते ॥
कौसल्या वीरसूस्स्त्रीणां देशानां कुरुजाङ्गलम् ।
भीष्मो धर्मभृतां श्रेष्ठः पुराणां गजसाह्वयम् ॥
ते त्रयः कालयोगेन कुमारा जनमेजय ।
अवर्धन्त महात्मनो नन्दयन्तस्सुहृज्जनान् ॥
संस्कारैस्संस्कृतास्ते वै वृत्तैरध्ययनेन च ।
शमव्यायामकुशलास्समपद्यन्त यौवने ॥
धनुर्वेदेऽश्वपृष्ठे च तथा युद्धेऽसिचर्मणि ।
तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ॥
इतिहासमुराणेषु नानाशिल्पासु चान्विताः ।
वेदवेदाङ्गतत्त्वज्ञास्सर्वत्र कृतविश्रमाः ॥
अतीव बलवानासीद्धृतराष्ट्रोऽम्बिकासुतः ।
पाण्डुर्धनुषि विक्रान्तो नरेभ्यो ह्यधिकोऽभवत् ॥
त्रिषु लोकेषु नत्वासीत्प्राणी विदुरसम्मितः ।
धर्मनित्यो हि धर्मज्ञ बुद्ध्या चैव गतिं गतः ॥
अथ शुश्राव विप्रेभ्यो देवकस्य महीपतेः ।
रूपयौवनसम्पन्नां सुतां सागरगासुतः ॥
सुबलस्य च कल्याणीं गान्धाराधिपतेस्सुताम् ।
सुतां च मद्रराजस्य रूपेणाप्रतिमां भुवि ॥
भीष्मः-
गुणैस्समुदितं सर्वमिदं नः प्रथितं कुलम् ।
अत्यन्यान्पृथिवीपालान्पृथिव्यामपि राजकान् ॥
रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः ।
नोत्सादमगमच्चेदं कथञ्चिदिह नः कुलम् ॥
मया च सत्यवत्या च कृष्णेन च महात्मना ।
समवस्थापितं भूयो युष्मासु कुलतन्तुषु ॥
वर्धेत तदिदं पुत्र कुलं सागरवद्यथा ।
तथा मया विधातव्यं त्वया चैव विशेषतः ॥
श्रूयते यादवी कन्या ह्यनुरूपा कुलस्य नः ।
सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥
कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः ।
उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभ ॥
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर ।
सन्तानार्थाः कुलस्यास्य यद्वा विदुर मन्यसे ॥
विदुरः-
भवान्पिता भावन्माता भवान्नः परमो गुरुः ।
तस्मात्स्वयं कुलस्यास्य विचार्य कुरु वर्धितम् ॥
वैशम्पायनः-
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् ॥
आराध्य वरदं देवं भगनेत्रहरं हरम् ।
गान्धारी लघु पुत्राणां शतं लेभे वरं शुभा ॥
इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः ।
ततो गान्धारराजस्य सुतस्शकुनिराव्रजन् ॥
स्वसारं परया लक्ष्म्या प्रेषयामास कौरवः ।
अचक्षुरिति तस्याऽऽसीत्सुबलस्य विचारणा ॥
कुलख्यातिं च वृद्धिं च बुद्ध्या तु प्रसमीक्ष्य च ।
ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ॥
गान्धारी त्वथ शुश्राव धृतराष्ट्रं त्वचक्षुषम् ।
आत्मानं दिप्सितं तत्र पितुर्मातुश्च कौरव ॥
ततस्सा पट्टमानाय्य कृत्वा बहुगुणं शुभा ।
न पश्यतीति भर्ता मे वेष्टयामास चक्षुषी ॥
नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया ।
ततो गान्धारराजस्य सुतश्शकुनिराव्रजत् ॥
स्वसारं परया लक्ष्म्या युक्तामादाय कौरव ।
ततो विवाहं चक्रेऽस्या नक्षत्रे कृत्स्नसम्मते ।
सौबलस्य महाराजश्शकुनिः प्रियदर्शनः ॥
दत्त्वा स्वभगिनीं तत्र यथार्हं च परिच्छदम् ।
पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ॥
गान्धार्यपि वरारोहा शीलाचारविचिष्टितैः ।
तुष्टिं कुरूणां सर्वेषां जनयामास भारत ॥
गान्धारी सा पतिं दृष्ट्वा प्रज्ञाचक्षुषमीश्वरम् ।
अतिचाराद्भृशं भीता भर्तुस्सा समचिन्तयत् ॥
सा दृष्टिविनिवृत्ता हि भर्तुस्तु समतामियात् ।
न हि सूक्ष्मेऽप्यतीयाते भर्तुस्सा ववृधे तदा ॥
वृत्तेनाराधितान्सर्वान्पतिव्रतपरायणा ।
वाचाऽपि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ॥
तस्यास्सहोदरीः कन्याः पुनरेव ददौ दश ।
गान्धारराजस्सुबलो भीष्मेण परितस्तदा ॥
सत्यव्रतां सत्यसेनां सुषेणां च सुसंहिताम् ।
तेजश्श्रर्वां सुश्रवां च तथोर्वीं निकृतिं शुभाम् ॥
शम्भुवां च दशार्णां च गान्धारीं दश विश्रुताः ।
एकाह्ना चोपयेमे ता धृतराष्ट्रो जनेश्वरः ॥
ततश्शान्तनवो भीष्मो धानुःक्रीतास्ततस्ततः ।
आहरद्धृतराष्ट्रस्य राजपुत्रीः परश्शतम् ॥ ॥