जनमेजयः-
किं कृतं कर्म धर्मेण येन शापमुपेयिवान् ।
कस्य शापाच्च धर्मज्ञ शूद्रयोनावजायत ॥
वैशम्पायनः-
बभूव ब्राह्मणः कश्चिन्माण्डव्यो नाम विश्रुतः ।
एकान्तचारी वश्यश्च सत्ये तपसि च ध्रुवः ॥
स तीर्थयात्रां विचरन्नाजगाम यदृच्छया ।
सन्निकृष्टानि तीर्थानि ग्रामाणां यानि कानिचित् ।
तत्राश्रमपदं कृत्वा वसति स्म महामुनिः ॥
स त्वाश्रमपदद्वारि वृक्षमूले महायशाः ।
ऊर्ध्वबाहुर्स्थितो योगी मौनी व्रतसमन्वितः ॥
केनचित्त्वथ कालेन तथा तपसि तिष्ठतः ।
तस्याश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः ॥
अनुसाधयमानस्ते रक्षिभिर्भरतर्षभ ।
तामेव वसतिं जग्मुस्तद्ग्रामे लोप्त्रहारिणः ॥
तस्मिन्निवसथे लोप्त्रं निदधुर्भयमोहिताः ।
अभितस्तत्र संलीना बलमन्वगमच्च तान् ॥
ततश्शीघ्रतरं राजंस्तथा गजबलं महत् ॥
यस्मिन्नावसथे शेते स मुनिस्संशितव्रतः ।
तत्राजग्मुस्तपोवश्यं तं मुनिं रक्षिणस्तु ते ।
तमपृच्छंस्ततो राजंस्तथायुक्तं तपोधनम् ॥
कतरेण पथा याता दस्यवो मुनिसत्तम ।
तेन गच्छाम वै ब्रह्मन्पथा शीघ्रतरं वयम् ॥
तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः ।
न किञ्चिद्वचनं राजन्मुनिस्तान्प्रत्यभाषत ॥
ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमम् ।
ददृशुस्तत्र वै लीनांश्चोरांस्तद्द्रव्यमेव च ॥
ततश्शङ्का समभवद्रक्षिणां तं मुनिं प्रति ।
संयम्यैनं ततो राज्ञे चोरांश्चैवान्ववेदयन् ॥
तं राजा सह चोरैस्तैरवदच्छिद्यतामिति ।
स वध्यघातैरज्ञातश्शूले प्रोतो महातपाः ॥
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा ।
प्रतिजग्मुर्महीपाला धनान्यादाय तान्यथ ॥
शूलस्थस्स तु धर्मात्मा कालेन महता अपि ।
निराहारस्तदा राजन्मरणं नाभ्युपागमत् ॥
शूलाग्रे तप्यमानेन तदानेन महात्मना ॥
सन्तापं परमं जग्मुर्ऋषयो भरतर्षभ ।
ते रात्रौ शकुना भूत्वा तमार्तिं परमां गतम् ।
दर्शयन्तो यथाशक्ति तमापृच्छन्द्विजोत्तमम् ॥
ऋषयः-
भगवान्केन दोषेण गन्तासि द्विजसत्तम ।
श्रोतुमिच्छामहे ब्रह्मनपापो ह्यसि धर्मतः ॥
तत्ते द्विजवरश्रेष्ठ संशयस्तु महान्हि नः ।
ईदृशस्य नरश्रेष्ठ उग्रे तपसि वर्ततः ॥
वैशम्पायनः-
तदोवाच महाप्राज्ञस्तानृषीन्संशितव्रतान् ।
दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ॥
तच्छ्रुत्वा रक्षिणस्तत्र तथा बहुतिथेऽहनि ।
न्यवेदयंस्तथा राज्ञे तथावृत्तं नराधिप ॥
राजा च हि तथा श्रुत्वा निश्चित्य सह मन्त्रिभिः ।
प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥
राजा-
यन्मयाऽपकृतं मोहादज्ञानादृषिसत्तम ।
प्रसादये त्वां विप्रेन्द्र न मे त्वं क्रोद्धुमर्हसि ॥
वैशम्पायनः-
एवमुक्तस्तदा राज्ञा प्रसादमकरोत्तदा ।
कृतप्रसादं राजा तं ततस्समवतारयत् ॥
अवतीर्य तु शूलाग्रात्तच्छूलं विनिकृत्य च ।
अशक्नुवंश्च निष्क्रष्टुं शूलं मूलेऽथ चिच्छिदुः ॥
स तदान्तर्गतेनैव शूलेन व्यचरन्मुनिः ।
कण्ठपार्श्वान्तरस्थेन शङ्कुना मुनिराचरन् ॥
पुष्पभाजनधारी स्यादिति चिन्तापरोऽभवत् ॥
स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः ।
तमाहुरणीमाण्डव्यमिति धर्मे रतं मुनिम् ॥
अणिमाण्डव्यः-
गत्वा संयमनीं विप्रो धर्मस्य परमार्थवित् ।
धर्मं धर्मवतां श्रेष्ठं पर्युपालभतानघ ॥
किं मया तत्कृतं कर्म धर्मपापफलोदयम् ।
येनेदं प्राप्तवानस्मि दुःखमप्रतिमं भुवि ।
तन्ममाचक्ष्व तत्त्वेन पश्य मे तपसो बलम् ॥
धर्मराजः-
पतङ्गकानां पुच्छेषु इषीकास्त्वं समादधाः ।
अहिंसकानां धर्मज्ञ तेनैतत्प्राप्तवानसि ॥
अणीमाण्डव्यः-
बालो हि द्वादशाद्वर्षाज्जन्मनो यत्करिष्यति ।
न भविष्यत्यधर्मोऽद्य न प्रज्ञास्यति वै दिशः ॥
अल्पेऽपराधे विपुले मम दण्डस्त्वया धृतः ।
शूद्रयोनावतो धर्म मानुषष्सम्भविष्यसि ॥
मर्यादां स्थापयाम्यद्य लोके कर्मफलोदयाम् ॥
आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् ।
परेणकुर्वतामेव दोष एव भविष्यति ॥
वैशम्पायनः-
एतेन त्वपराधेन शापात्तस्य महात्मनः ।
धर्मो विदुररूपेण शूद्रयोनावजायत ॥
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः ।
दीर्घदर्शी महाप्राज्ञः कुरूणां च हितेरतः ॥ ॥