वैशम्पायनः-
ततस्सत्यवती हृष्ट्वा स्नुषां स्नातामलङ्कृताम् ।
संवेशयन्ती शयने शनैर्वचनमब्रवीत् ॥
कौसल्ये देवरो देवि स चाद्यानुप्रवेक्ष्यति ।
अप्रमत्ताऽभिवीक्षेथा निशायामागमिष्यति ॥
श्वश्र्वास्तु वचनं श्रुत्वा शयाना शयने शुभा ।
जगाम मनसा भीष्ममन्यांश्च भरतांस्तथा ॥
ततस्सुप्तजनप्राये व्यासस्स भगवानृषिः ।
दीप्यमानेषु दीपेषु सदनं प्रविवेश तत् ॥
सत्यवत्या नियुक्तस्तु सत्यवागृषिसत्तमः ।
जगाम तस्याश्शयनं विपुले तपसि स्थितः ॥
तं समीक्ष्य तु कौसल्या दुष्प्रेक्षमतथोचिता ।
विरूपमिति वित्रस्ता सङ्कुच्यासीन्निमीलिता ॥
विरूपो हि जटी चापि दुरङ्गपरुषः कृशः ।
सुगन्धेतरगन्धश्च सर्वथा दुष्प्रधर्षणः ॥
तस्य कृष्णस्य कपिला जटा दीप्ते च चक्षुषी ।
कद्रूणि चापि श्मश्रूणि दृष्ट्वा साऽऽसीन्निमीलिता ॥
सम्बभूव तया रात्रौ मातुः प्रियचिकीर्षया ।
भयात्काशीसुता तं तु नाशक्नोदभिवीक्षितुम् ॥
ततो निष्क्रान्तमासाद्य तन्माता प्रत्यभाषत ।
अप्यत्र गुणवांस्तात राजपुत्रो भविष्यति ॥
इत्युक्तस्सोऽब्रवीन्मातः कुमारो मातृदोषतः ।
अन्धो नागायुतप्राणो भविष्यत्यम्बिकोदरात् ।
निशम्य वचनं तस्य तन्माता पुनरब्रवीत् ॥
सत्यवती-
अलब्धलाभः पुत्रोऽयं यद्यन्धो वै भविष्यति ॥
तस्माद्वंशस्य गोप्तारं सतां शोकविनाशनम् ।
तस्मादवरजं पुत्रं जनयाद्य नराधिपम् ॥
भ्रातुर्भार्याऽपरा चेयं रूपयौवनशालिनी ।
अस्यामुत्पादयापत्यं मन्नियोगाद्गुणाधिकम् ॥
वैशम्पायनः-
अम्बालिकां समाहूय तस्यां सत्यवती सुतम् ।
भूयो नियोजयामास सन्तानाय कुलस्य वै ॥
विषण्णाम्बालिका साध्वी निषण्णा शयनोत्तमे ।
कोऽन्वेष्यतीति ध्यायन्ती नियता सम्प्रतीक्षते ।
ततस्तेनैव विधिना महर्षिस्तामपद्यत ॥
अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च साऽपि तम् ।
विषण्णा पाण्डुसङ्काशा समपद्यत भारत ॥
तां बालां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य पार्थिव ।
व्यासस्सत्यवतीपुत्र इदं वचनमब्रवीत् ॥
व्यासः-
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामसि ।
तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति ॥
वैशम्पायनः-
नाम चास्य तदेवेह भविष्यति शुभानने ।
इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ॥
तमुवाच ततो माता अप्यत्र भविता शुभः ।
कुमारो ब्रूहि मे पुत्र ऋषीस्तां प्रत्युवाच ह ॥
भविष्यति सुतो मातः कुमारो दिक्षु विश्रुतः ।
पाण्डुत्वं वर्णतस्तस्य मातृदोषाद्भविष्यति ॥
तस्य पुत्रा महेष्वासा जनिष्यन्तीह पाण्डवाः ।
मुनौ यातेऽम्बिका पुत्रं महाभागमसूयत ।
इत्युक्त्वा मातरं तत्र सोऽभिवाद्य जगाम ह ॥
धृतराष्ट्रं महाप्राज्ञं प्रज्ञाचक्षुषमीश्वरम् ॥
अनुजाऽम्बालिका तत्र पुत्रं काले व्यजायत ।
पाण्डुं लक्षणसम्पन्नं दीप्यमानं श्रिया वृतम् ॥
तयोर्जन्मक्रियास्सर्वा यथावदनुपूर्वशः ।
कारयामास वै भीष्मो ब्राह्मणैर्वेदपारगैः ॥
अन्धं दृष्ट्वाऽम्बिकापुत्रं जातं सत्यवती सुतम् ।
कौसल्यार्थे समाहूय पुत्रमन्यमयाचत ॥
अन्धोऽयमन्यमिच्छामि कौसल्यातनयं शुभम् ।
एवमुक्तो महर्षिस्तां मातरं प्रत्यभाषत ॥
नियता यदि कौसल्या भविष्यति पुनश्शुभा ।
भविष्यति कुमारोऽस्या धर्मशास्त्रार्थतत्ववित् ॥
तां समाधाय वै भूयस्स्नुषां सत्यवती तदा ।
ऋतुकालं च विज्ञाय देव्या सञ्चोदिताऽम्बिका ॥
सा तु रूपं च गन्धं च महर्षेः प्रतिवीक्ष्य तम् ।
नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ॥
ततस्स्वैर्भूषणैर्दासीं भूषयित्वाऽप्सरोपमाम् ।
प्रेषयामास कृष्णाय ततः काशिपतेस्सुता ॥
दासी ऋषिमनुप्राप्तं प्रत्युत्थायाभिवाद्य च ।
संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार सा ॥
वाससोऽपि प्रदानेन गात्रसंस्पर्शनेन च ।
कामोपभोगसंयुक्तो महर्षिर्विस्मितोऽभवत् ॥
तया सहोषितो रात्रिं महर्षिः प्रीयमाणया ।
उत्तिष्ठन्नब्रवीदेनां त्वं भुजिष्या भविष्यसि ॥
एष ते शुभगे गर्भश्श्रीमानुदरमागतः ।
धर्मात्मा विश्रुतो लोके सर्वधर्मभृतां वरः ॥
जज्ञे स विदुरो नाम कृष्णद्वैपायनात्मजः ।
धृतराष्ट्रस्य च भ्राता पाण्डोश्च पृथिवीपतेः ॥
धर्मो विदुररूपेण शापात्तस्य महात्मनः ।
माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ॥
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनादपि ।
जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् ।
कुरवोऽथ कुरुक्षेत्रं सर्वं त्रयमवर्धत ॥
गन्धवत्यास्तथैवोक्त्वा धर्मरूपं सुतं प्रति ।
नाहमस्मिन्पुनर्योक्तुं शक्यो मातस्सुतान्प्रति ॥
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च ।
तस्यां च सर्वमाख्याय तत्रैवान्तरधीयत ॥ ॥