वैशम्पायनः-
सत्यवती-
एवमुक्त्वा तदा भीष्मं तन्माता प्रत्यभाषत ।
रोचते मे वचस्तुभ्यं ममापि वचनं शृणु ।
न च शक्यमनाख्यातुमापद्धीयं तथाविधा ॥
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं गतिः प्रभो ।
यत्त्वं वक्ष्यसि तत्कार्यमस्माभिरिति मे मतिः ॥
तस्मान्निशम्य सत्यं मे वद त्वं यदनन्तरम् ॥
शृणु भीष्म वचो मह्यं धर्मार्थसहितं हितम् ।
न च विस्रम्भकथितं भवान्सूचितुमर्हति ॥
यस्तु राजा वसुर्नाम श्रुतस्ते भरतर्षभ ।
तस्य शुक्लादहं मत्स्याद्धृता कुक्षौ पुरा किल ॥
मातरं मे जलाद्धृत्वा दाशः परमधर्मवित् ।
मां तु स्वगृहमानीय दुहितृत्वे ह्यकल्पयत् ।
धर्मयुक्तस्स धर्मेण पिता चासीत्ततो मम ॥
सा कदाचिदहं तत्र गता प्रथमयौवना ॥
अथ धर्मविदां श्रेष्ठः परमर्षिः पराशरः ।
आजगाम तरीं तात तरिष्यन्यमुनां नदीम् ॥
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा ।
सान्त्वपूर्वं महाभागः कामार्तो मधुरं बहु ।
उक्त्वा जन्म कुलं मह्यं नासि दाशसुतेति च ॥
तमहं शापभीता च पितुर्भीता च भारत ।
वरैरसुलभैश्चाहं प्रत्यदातुं प्रचक्रमे ॥
अभिभूय स मां बालां तेजसा वशमानयत् ॥
तमसा लोकमावृत्य नौगतामेव भारत ।
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः ।
तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥
ततो मामाह स मुनिर्गर्भ उत्सृज्यतामयम् ।
द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥
पाराशर्यो महायोगी स बभूव महामतिः ।
सद्योत्पन्नस्स तु महान्सह पित्रा यतो गतः ॥
कन्यापुत्रो मम पुरो द्वैपायन इति श्रुतः ॥
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः ।
लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमागतः ॥
सत्यवादी शमपरस्तपसा दग्धकिल्बिषः ।
स नियुक्तो मया व्यक्तं त्वया चाप्यमितद्युते ।
भ्रातुः क्षेत्रे तु कल्याणमपत्यं जनयिष्यति ॥
स हि मामुक्तवांस्तत्र स्मर कार्येषु मामिति ।
स्मरिष्यामि महाबाहो यदि भीष्म त्वमिच्छसि ॥
तव ह्यनुमते भीष्म नियतं स महातपाः ।
विचित्रवीर्यक्षेत्रे तु पुत्रानुत्पादयिष्यति ॥
वैशम्पायनः-
भीष्मः-
महर्षेः कीर्तनात्तस्य भीष्मः प्राञ्जलिरब्रवीत् ।
देशकालौ च जानासि क्रियतामिह सिद्धये ॥
धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ॥
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् ।
कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् ॥
यो विचिन्त्य धिया सम्यग्व्यवस्यति स युक्तिमान् ।
सर्ववित्सर्वकर्ता स यद्येवं तत्करोति च ॥
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः ।
उक्तं भवत्या यच्छ्रेयः परमं रोचते मम ॥
वैशम्पायनः-
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन ।
कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ॥
स वेदान्विब्रुवाणोऽयं मातुर्विज्ञाय चिन्तितम् ।
प्रादुर्बभूव विदितः क्षणेन कुरुनन्दन ॥
तस्मै पूजां ततो दत्वा सुताय विधिपूर्वकम् ।
परिष्वज्य च बाहुभ्यां प्रस्रवैरभ्यषिच्य च ।
मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ॥
तामद्भिः परिषिच्यार्तां महर्षिरभिसृत्य च ।
मातरं पूर्वजः पुत्रः कृष्णद्वैपायनोऽब्रवीत् ॥
भवत्या यदभिप्रेतं तदहं कर्तुमागतः ।
शाधि मां धर्मतत्वज्ञे करवाणि प्रियं तव ॥
तस्मै पूजां ततोऽकार्षीत्पुरोधाय परन्तप ।
स च तां प्रतिजग्राह विधिमन्मन्त्रपूर्वकम् ॥
पूजितं मन्त्रपूर्वेण विधिना प्रीतमानसम् ।
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् ॥
सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् ॥
सत्यवती-
मातापित्रोः प्रजायन्ते पुत्रास्साधारणाः कुले ।
तेषां पिता यथा स्वीमी तथा माता न संशयः ॥
विधात्रा विहितस्स त्वं यथा मे प्रथमस्सुतः ।
विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजस्सुतः ॥
यथा वै पितृतो भीष्मस्तथा त्वमपि मातृतः ।
भ्राता विचित्रवीर्यस्य यथावा पुत्र मन्यसे ॥
यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे ।
रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः ॥
अयं शान्तनवस्सत्यं पालयन्सत्यविक्रमः ।
बुद्धिं न कुरुतेऽपत्ये तथा राज्याऽनुशासने ॥
स त्वं ह्यपेक्षया भ्रातुस्सन्तानाय कुलस्य तु ।
भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ॥
अनुक्रोशाच्च भ्रातॄणां सर्वेषां रक्षणाय च ।
आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ।
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक ॥
अनुरूपं कुलस्यास्य तेजः प्रशमसंयुतम् ।
वेत्थ धर्मं त्वमेवेह परं चापरमेव च ॥
व्यासः-
तथा तव महाप्राज्ञे धर्मे प्रणिहिता मतिः ।
नियोगात्तव चैवाहमेतैरपि च कारणैः ॥
ईप्सितं तत्करिष्यामि दृष्टं ह्येतत्पुरा मया ।
भवत्या यदभिप्रेतं तदहं कर्तुमागतः ॥
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोस्समान् ॥
व्रतं चरेतां निर्दिष्टं मया संवत्सरं शुभे ।
न च मामर्हतः प्राप्तुमशुद्धे कोसलात्मजे ।
एवं सत्यवती धर्मं परमाज्ञातुमर्हसि ॥
सत्यवती-
तद्यथा प्रतिपद्येतां देव्यौ गर्भं तथा कुरु ॥
अराजकेषु राज्येषु नास्ति वृष्टिर्न देवता ।
कथं चाराजकं राष्ट्रं शक्यं धारयितुं प्रभो ।
तस्माद्गर्भं निषिञ्चस्व भीष्मस्तं वर्धयिष्यति ॥
व्यासः-
यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् ।
विरूपतां मे सहतामेतद्धि स्यान्महत्तपः ॥
यदि मे सहते वेषं रूपं गन्धं तथा वपुः ।
अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपत्स्यते ॥
तस्य चापि शतं पुत्रा भवितारो न संशयः ।
गोप्तारः कुरुवंशस्य भवत्याश्शोकनाशनाः ॥
शयने चैव कौसल्या शुचिवस्त्रा स्वलङ्कृता ।
ममागमनमाकाङ्क्षेदित्युक्त्वाऽन्तरधीयत ॥
वैशम्पायनः-
अभिगम्य तु सा देवी स्नुषां रहसि सङ्गताम् ।
धर्ममर्थसमायुक्तमुवाच वचनं मिथः ॥
सत्यवती-
कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे ॥
भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् ।
व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् ॥
भीष्मो बुद्धिं ददौ पुत्रीं वंशस्यास्य पुनर्भवे ।
सा च बुद्धिस्त्वय्यधीना पुत्रभावाय नान्यथा ॥
नष्टं च भारतं वंशं पुनरेव समुद्धर ।
गर्भं धारय कल्याणि देवरस्य महात्मनः ॥
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् ।
स हि राज्यधुरं गुर्वीं धारयिष्यति भारतीम् ॥
वैशम्पायनः-
सा धर्मतोऽनुनीयैनां कथञ्चिद्धर्मचारिणीम् ।
भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥ ॥