वैशम्पायनः-
भीष्मस्य वचनं श्रुत्वा धर्महेत्वर्थसंहितम् ।
माता सत्यवती भीष्मं पुनरेवाभ्यभाषत ॥
सत्यवती-
औचथ्यमधिकृत्येदम् अङ्गं च यदुदाहृतम् ।
पौराणश्रुतिरस्त्येषां प्राप्तकालमिदं कुरु ॥
त्वं हि पुत्रः कुलस्यास्य ज्येष्ठश्श्रेष्ठश्च भारत ।
यथा च ते पितुर्वाक्यं मम कार्यस्तथाऽनघ ॥
मम पुत्रस्तव भ्राता यवीयान् स प्रियश्च ते ।
बाल एव गतस्स्वर्गं भारतो भरतर्षभ ॥
इमे महिष्यौ तस्येह काशिराजसुते उभे ।
रूपयौवनसम्पन्ने पुत्रकामे च भारत ॥
तमेतं परमं ज्ञात्वा सन्तानाय कुलस्य च ।
आभ्यां मम नियोगात् त्वं धर्मं चरितुमर्हसि ॥
भीष्मः-
असंशयं परो धर्मस् त्वयाः मातः प्रकीर्तितः ।
त्वमप्येतां प्रतिज्ञां तु वेत्थ यापरमा मयि ॥
जानीषे यत्तदा वृत्तं शुल्कहेतोस्त्वदन्तरे ।
तत् सत्यवती सत्यं वै पुनरेव ब्रवीमि ते ।
तन्मया नान्यथा कार्यं लोकानामपि सङ्क्षये ॥
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः ।
यद्वाऽभ्यधिकमेताभ्यां न च सत्यं परित्यजे ॥
त्यजेच्च पृथिवी गन्धम् आपश्च रसमुत्तमम् ।
ज्योतिश्च परमं रूपं वायुः स्पर्शगुणं त्यजेत् ॥
त्यजेच्च घोषमाकाशं सोमश्शीतत्वमृत्सृजेत् ।
प्रभां समुत्सृजेदर्को धूमकेतुरथोष्णताम् ॥
वृत्रहा विक्रमं जह्याद् धर्मं जह्यात्तु धर्मराट् ॥
अमरत्वस्य वा हेतोस् त्रैलोक्यसदनस्य वा ।
उत्सृजेयमहं प्राणान् न तु सत्यं कथञ्चन ॥
सत्यवती-
जानामि त्वयि धर्मज्ञ सत्यं सत्यपराक्रम ।
इच्छंस्त्वमिह लोकांस्त्रीन् सृजेरन्यानरिन्दम ॥
यथा तु वः कुलं चैव धर्मं च न पराभवेत् ।
सुहृदश्च प्रभातास्स्युस् तथा त्वं कर्तुमर्हसि ॥
भीष्मः-
त्वमेव कुलवृद्धाऽसि गौरवं च परं त्वयि ।
सोपायं कुलसन्ताने वक्तुमर्हसि नः परम् ।
स्त्रियो हि परमं गुह्यं धारयन्ति कुले कुले ॥
पुरुषं चापि मायाभिर् बह्वीभिरुपगृह्णते ॥
सा सत्यवति सम्पश्य कर्म सत्यपरायणे ।
यथा न जह्यां सत्यं च न सीदेच्च कुलं हि नः ॥
वैशम्पायनः-
ततस्सत्यवती भीष्मं वाचा वै सज्जमानया ।
प्वेपमाना सव्रीलम् इदं वचनमब्रवीत् ॥
सत्यवती-
सत्यमेतन्महाबाहो यदात्थ प्रमदां प्रति।
विश्वासं ते प्रवक्ष्यामि सन्तानाय कुलस्य ते ॥ ॥