वैशम्पायनः-
भीष्मः-
तां तु लालपतीं दृष्ट्वा कृपणां पुत्रगर्धिनीम् ।
धर्मादपेतं ब्रुवतीं भीष्मो वचनमब्रवीत् ॥
क्षत्रधर्ममवेक्षस्व मा नस्सर्वान् व्यनीनशः ॥
धारणेन व्रतस्याहुः क्षत्रियाः परमां धृतिम् ॥
शन्तनोरपि सन्तानो यथा स्यात् पुनरेव हि ।
क्षत्रधर्मं प्रवक्ष्यामि क्षत्रियाणां पुरातनम् ॥
श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैस्सह पुरोहितैः ।
आपद्धर्मार्थकुशलैर् लोकधर्ममवेक्ष्य च ॥
जामचग्न्येन रामेण निशाम्य वचनं पितुः ।
पुरा परशुहस्तेन हेहयाधिपतिर्हतः ॥
क्रुद्धेन च महाप्राज्ञे हेहयस्य महात्मनः ।
शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै ॥
पुनश्च धनुरादाय महास्त्राणि विमुञ्चता ।
निर्दग्धं क्षत्रमेकेन रामेण जयता महीम् ॥
एवमुच्चावचैरस्त्रैर् भार्गवेण महात्मना ।
त्रिस्सप्तकृत्वो रोषेण कृता निःक्षत्रिया मही ॥
ततस्सम्भूय सम्भूय क्षत्रियाभिस्समन्ततः ।
उत्पादितान्यपत्यानि ब्राह्मणेभ्य इति श्रुतम् ॥
पाणिग्राहस्य तनय इति वेदेषु निश्चितम् ।
धर्मं मनसि संस्थाप्य ब्राह्मणांस्तास्समभ्ययुः ।
लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ॥
अथोचथ्य इति ख्यात आसीद्धीमान्महानृषिः ।
भार्या च ममता नाम बभूवास्य महात्मनः ॥
उचथ्यस्य यवीयांस्तु पुरोधा यो दिवौकसाम् ।
बृहस्पतिर्बृहत्तेजा ममतां सोऽभ्यमन्यत ॥
उवाच ममता तं तु देवरं वदतां वरम् ॥
ममता-
अन्तर्वत्न्यस्मि ते भ्रात्रा ज्येष्ठेनारम्यतामिति ।
अयं च मे महाभाग कुक्षावेव बृहस्पते ॥
औचथ्यो गर्भ आदत्ते षडङ्गं वेदमुत्तमम् ।
अमोयरेतास्त्वं चापि नूनं भवितुमर्हसि ।
तस्मादेवं गते कार्ये यथा युक्तं तथा कुरु ॥
वैशम्पायनः-
एवमुक्तस्तदा सम्यग् बृहत्तेजा बृहस्पतिः ।
कामात्मानं महाऽत्मपि नात्मानं न सोऽभ्यधारयत् ॥
स बभूव ततः कामी तया सार्धमकामया ।
उत्सृजन्तं तु तत्तेजो गर्भस्थो ह्यभ्यभाषत ॥
कनीयांस्तात नैवेह सम्भवो विद्यते त्वया ।
अमोघशुक्लस्त्वं चापि पूर्वं चाहमिहागतः ॥
शशाप च ततः क्रुद्ध एवमुक्तो बृहस्पतिः ।
उचथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ॥
बृहस्पतिः-
यस्मात् त्वमीदृशे काले सर्वभूतेप्सिते सति ।
एवमात्थ यदा तस्मात् तमो दीर्घं प्रवेक्ष्यसि ॥
ततो दीर्घतमा नाम शापादृषिरजायत ।
बृहस्पतेर्बृहत्कीर्तेर् बृहस्पतिरिवौजसा ॥
जात्यन्धो वेदवित् प्राज्ञः पत्नीं लेभे सविद्यया ।
तरुणीं रुपसम्पन्नां प्रद्वेषीं नाम ब्राह्मणीम् ॥
ऋषेरुचथ्यस्य महान् सन्तानकुलवृद्धये ।
स पुत्रञ्जनयामास गौतमादीन् महायशाः ॥
पुत्रलाभाच्च सा पत्नी न तुतोष पतिं तदा ॥
प्रद्विषन्तीं पतिर्भार्यां किं मां द्वेष्टीति चाब्रवीत् ।
प्रद्विषन्ती-
प्रतिभार्यानुभरणाद् भर्ता चेति प्रकीर्त्यते ॥
अहं त्वा भरणं कृत्वा जात्यन्धं ससुता सदा ।
नित्यकालं श्रमेणार्ता न भरेयं महातपः ॥
भीष्मः-
दीर्घतमाः-
तस्मास्तद्वचनं श्रुत्वा ऋषिः कोपसमन्वितः ।
प्रत्युवाच ततः पत्नीं प्रद्वेषीं ससुतां तदा ।
नीयतां क्षत्रियकुले धनार्थीभ त्वं भविष्यति ॥
पत्नी-
त्वया दत्तं धनं विप्र नेच्छेयं दुःखकारणम् ।
यथेष्टं कुरु विप्रेन्द्र न भेरयं पुरा यथा ॥
दीर्घतमाः-
अद्यप्रभृति मर्यादा मया लोके प्रतिष्ठिता ।
एक एव पतिः पत्न्या यावज्जीवं परायणम् ॥
मृते जीवति वा तस्मिन् न परं प्राप्नुयान्नरम् ।
अभिगम्य परं नारी पतिष्यति न संशयः ॥
अपतीनां तु नारीणाम् अद्यप्रभृति पातकम् ।
यद्यस्ति चेद्धनं सर्वं वृथाभोगा भवन्तु ताः ॥
अकीर्तिः परिवादाश्च नित्यकालं भवन्तु वै ॥
भीष्मः-
तस्य तद्वचनं श्रुत्वा ब्राह्मणी भृशकोपिता ।
गङ्गायां नीयतामेष पुत्रा इत्येवमब्रवीत् ॥
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः ।
काष्टे समृद्धे प्रक्षिप्य गङ्गायां समवासृजन् ।
न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म वै ॥
कर्मण्यथ ततः क्रूरे तेषां बुद्धिरजायत ।
चिन्तयित्वा ततः क्रूराः प्रतिजग्मुर्यथा गृहान् ॥
सोऽनुस्रोतस्तदा राजन् प्लवमानो मुनिस्तदा ।
जगाम सुबहून् देशान् अन्धस्तेनोडुपेन ह ॥
तं तु राजा बलि नाम सर्वधर्मविशारदः ।
अपश्यन्मज्जनगतं स्रोतसाऽभ्याशमागतम् ॥
जग्राह चैनं धर्मात्मा बली सत्यपराक्रमः ।
ज्ञात्वा चैनं वरं वव्रे पुत्रार्थं मनुजर्षभ ॥
तं पूजयित्वा राजर्षिर् विश्रान्तं मुनिमब्रवीत् ॥
राजा-
भीष्मः-
सन्तानार्थं महाभाग भार्यायां मम मानद ।
एवमुक्तस्स तेजस्वी तं तथेत्युक्तवानृषिः ॥
पुत्रान् धर्मार्थकुशलान् उत्पादयितुमर्हसि ।
तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ॥
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह ।
स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ॥
तस्यां काक्षीवदादीन् स शूद्रयोनावृषिर्वशी ।
जनयामास धर्मात्मा पुत्रानेकादशैव तु ॥
काक्षीवदादीन् सर्वांस्तान् साङ्गान् वेदानघीयतः ।
उवाच तमृषिं राजा ममैत इति वीर्यवान् ।
नेत्युवाच महर्षिस्तं ममैत इति चाब्रवीत् ॥
शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ॥
अन्धं वृद्धं च मां दृष्ट्वा सुदेष्णा महिषी तव ।
अवमत्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ॥
ततः प्रसादयामास पुनस्तमृषिसत्तमम् ।
बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत् पुनः ॥
दीर्घतमाः-
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् ।
भविष्यति कुमारास्ते तेजस्वी सत्यवागिति ।
तत्राङ्गो नाम राजर्षिस् सुदेष्णायामजायत ॥
एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ।
जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः ॥
एतछ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ॥ ॥