वैशम्पायनः-
अम्बायां निर्गतायां तु भीष्मश्शान्तनवस्तदा ।
न्यायेन कारयामास राज्ञो वैवाहिकीं क्रियाम् ॥
अम्बिकाम्बालिके चैव परिणीयाग्निसन्निधौ ।
तयोः पाणी गृहीत्वा तु कौरव्यो रूपदर्पितः ।
विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥
ते चापि वनिने श्लाघ्ये नीलकुञ्चितमूर्धजे ।
रक्ततुङ्गनखो श्याभे पीनश्रोणिपयोधरे ॥
आत्मरूपानुरूपो नौ लब्धः पतिरिति स्म ते ।
विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते ॥
अन्योन्यं प्रतिसक्ते च एकभावाविव स्थिते ॥
स चापि रूपसदृशो देवसत्वपराक्रमः ।
सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् ॥
ताभ्यां सह समासक्तो विहरन्नान्यचेतसा ।
विचित्रवीर्यस्तरुणो यक्ष्मणं समपद्यत ॥
सुहृदां यतमानानाम् आप्तैस्सह चिकित्सकैः ।
जगामास्तमिवादित्यः पौरवो यमसादनम् ॥
राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ॥
तस्य प्रेतस्य कार्याणि सम्यक् सर्वाण्यकारयत् ।
ऋत्विग्भिस्सहितो भीष्मस् सर्वैश्च कुरुजाङ्गलैः ॥
ततस्सत्यवती दीना कृपणा पुत्रगृद्धिनी ॥
कृत्वा प्रेतस्य कृत्यानि स्नुषाभ्यां सहिता तदा ।
माता सत्वती भीष्मम् उवाच वदतां वरम् ॥
धर्मं च पितृवंशं च शोभनं परमास्पदम् ।
सत्वत्यभिसम्प्रेक्ष्य भीष्मं वचनमब्रवीत् ॥
सत्यवती-
दुःखार्दिता तु शोकेन मज्जतीव चं सागरे ।
शन्तनोर्धर्मनित्यस्य पौरवस्य यशस्विनी ।
त्वयि कीर्तिश्च पिण्डश्च सन्तानश्च प्रतिष्ठितः ॥
भ्राता विचित्रवीर्यस्ते भूतानामन्तमेयिवान् ॥
यथा कर्म शुभं कृत्वा स्वर्गो च गमनं ध्रुवम् ।
यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ॥
वेत्थ धर्मांश्च तत्त्वं च समान्यस्येतरस्य च ।
विविधाश्च श्रुतीर्वेत्थ वेत्थ शास्त्राणि सर्वशः ॥
व्यवस्थानं च धर्मेषु कुलाचारं च लक्षये ।
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ॥
तस्मात् सुभृशमैश्वर्यं त्वयि धर्मभृतां वर ।
वक्ष्यामि त्वां यथा प्राज्ञ! तच्छ्रुत्वा कर्तुमर्हसि ॥
मम पुत्रस्तव भ्राता वीर्यवान् कुलवंशभृत् ।
बाल एव गतस्स्वर्गम् अपुत्रः पुरुषर्षभ ॥
तस्य देव्यौ भगिन्यौ ते अम्बिकाम्बालिके उभे ।
रूपयौवनसम्पन्ने पुत्रकामे च भारत ॥
धर्ममेतत्परं ज्ञात्वा सन्तानाय कुलस्य च ।
तयोरुत्पादयापत्यं सन्तानकुलवर्धनम् ।
मन्नियोगान्महाभाग धर्म्यं कर्तुमिहार्हसि ॥
राजन् राज्येऽभिषिञ्चस्व भारताननुशाधि च ।
दारांश्च कुरु कल्याण धर्मस्ते ह पितामहान् ॥
वैशम्पायनः-
तथोच्यमानो मात्रा च सुहृद्भिश्च परन्तपः ।
प्रत्युवाच स धर्मात्मा धर्ममेव ततः परम् ॥
भीष्मः-
असंशयं परो धर्मस् त्वया मातः प्रकीर्तितः ।
राज्यार्थे नाभिषिञ्चेयं नोपेयां जातु मैथुनम् ॥
भवत्या मतमाज्ञाय कृतमेतद्व्रतं मया ।
जानीषे यत्तदा वृत्तं शुल्कहेतोस्तदन्तरे ॥
स सत्यवति सत्येन पुनरेव ब्रवीमि ते ।
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः ॥
यद्वा ह्यधिकमेताभ्यां न तु सत्यं कथञ्चन ॥
त्यजेच्च पृथिवी गन्धम् आपश्च रसमात्मजम् ।
तेजस्तथा त्यजेद्रूपं वायुस्स्पर्शगुणं त्यजेत् ॥
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् ।
त्यजेच्छब्दं तथाऽऽकाशं चन्द्रश्शीतांशुतां त्यजेत् ॥
वृत्रहा विक्रमं जह्याद् गर्भं जह्याच्च धर्मराट् ।
न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथञ्चन ॥
तन्नजात्वन्यथा कुर्यां लोकानामपि सङ्क्षये ।
अमरत्वस्य वा हेतोस् त्रैलोक्यसदनस्य वा ॥
वैशम्पायनः-
तथोच्यमाना पुत्रेण धर्मज्ञेन महात्मना ।
माता सत्यवती भीष्मं पुनरेवाभ्यभाषत ॥
सत्यवती-
अनुजानामि सर्वं तन्मदर्थे यदभाषथाः ।
आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् ॥
यथा तु नः कुलं लोकश्च न पराभवेत् ।
सुहृदश्च सकामास्ते तथा त्वं कर्तुमर्हसि ।
आत्मनश्च हितं तात प्रियं च मम भारत ॥