अम्बा-
अन्यपूर्वेति मां साल्वो नाभिनन्दति बालिशः ।
साऽहं धर्माच्च कामाच्च विहीना शोकधारिणी ।
अपतिः क्षत्रियान् सर्वान् अक्रन्दामि समन्ततः ॥
इयं वः क्षत्रिया माला या भीष्मं निहनिष्यति ।
अहं च भार्या तस्य स्यां यो वीरं घातयिष्यति ॥
वैशम्पायनः-
तस्याश्चङ्क्रम्यमाणायाः समाः पञ्च गताः पराः ।
नाभवच्छरणं कश्चित् क्षत्रियो भीष्मजाद्भयात् ॥
अगच्छत् सोमकं सा तु पाञ्चालेषु यशस्विनम् ।
सत्यसन्धं महेष्वासं सत्यधर्मपरायणम् ॥
सा सभाद्वारमागम्य पाञ्चालैरभिरक्षितम् ।
पाञ्चालराजमाक्रन्दत् प्रगृह्य सुभुजा भुजौ ॥
अम्बा-
भीष्मेण हन्यमानां मां मज्जतीमिव च ह्रदे ।
यज्ञसेनाभिधावेह पाणिमालम्ब्य चेश्वर ॥
तेन मे सर्वधर्माश्च रतिभोगाश्च केवलाः ।
उभौ च लोकौ कीर्तिश्च समूलौ सफलौ हृतौ ॥
क्रोशन्त्येवं न विन्दामि राजन्यं शरणं क्वचित् ।
किं नु निःक्षत्रियो लोको यत्रानाथोऽवसीदति ॥
समागम्य तु राजानो मयोक्ता राजसत्तमाः ।
इक्ष्वाकूणां तु ये वृद्धाः पाञ्चालानां च ये वराः ॥
त्वत्प्रसादाद्विवाहेऽस्मिन् मा धर्मो मा पराजयेत् ।
प्रसीद यज्ञसेनेह गतिर्मे भव सोमक ॥
यज्ञसेनः-
जानामि त्वा बोधयामि राजपुत्रि! विशेषतः ।
यथाशक्ति यथाधर्मं बलं सन्धारयाम्यहम् ॥
अन्यस्मात् पार्थिवात्ते यद् भयं स्यात् पार्थिवात्मजे ।
तस्यापनयने हेतुं संविधातुमहं प्रभुः ॥
न हि शान्तनवस्याहं महास्त्रस्य प्रहारिणः ।
ईश्वरः क्षत्रियाणां हि बलं धर्मोऽनुवर्तते ॥
सा साधु व्रज कल्याणि! न नो वैरं प्रसञ्जय ॥
एवमेव त्वया कार्यम् इति मे प्रतिकाङ्क्षते ।
न तु तस्यान्यथाभावो दैवमेतन्न मानुषः ॥
अम्बा-
वैशम्पायनः-
यश्चैनां स्रजमादाय स्वयं कण्ठे प्रमोक्ष्यते ।
स भीष्मं समरे हन्ता मम धर्मप्रणाशनम् ।
तां स्रजं द्रुपदो राजा किं चित् कालं ररक्ष सः ॥
ततो विस्रम्भमास्थाय तूष्णीमेतामुपैक्षत ॥
तां शिखण्डीनिबध्नात्तु राजा पितुरजानती ।
तां पिता त्वत्यजच्छीघ्रं त्रस्तो भीष्मस्य किल्बिषात् ॥
इषीकं ब्राह्मणं भीता सा ह्यगच्छत्तपस्विनम् ।
गङ्गाद्वारि तपस्यन्तं तुष्टिहेतोस्तपस्विनी ।
उपचाराभितुष्टस्ताम् अब्रवीदृषिसत्तमः ॥
गङ्गाद्वारे विभजनं भविता न चिरादिव ॥
तत्र गन्धर्वराजं तु तं पुरुप्रियदर्शनम् ।
आराधयितुमीहस्व सम्यक् परिचरेर्विभुम् ।
अहमप्यत्र साचिव्यं कर्तास्मि तव शोभने ॥
सा तदाचर भद्रं ते स ते श्रेयो विधास्यति ॥
ततो विभजनं तत्र गन्धर्वाणामपद्यत ।
तत्र द्वाववशिष्येतां गन्धर्वाणां मितौजसौ ।
तयोरेकस्समीक्ष्यैनां स्त्रीबुभूषुरुवाच ह ॥
इदं गृह्णीष्व पुंलिङ्गं वृणे स्त्रीलिङ्गमेव ते ।
नियमं चक्रतुस्तत्र स्त्री पुमांश्चैव तावुभौ ॥
ततः पुमान् समभवच् छिखण्डी परवीरहा ।
स्त्री तु भूत्वाऽपचक्राम स गन्धर्वो मुदा युतः ॥
लब्ध्वा तु महतीं प्रीतिं याज्ञसेनिर्महायशाः ।
ततो बुद्बुदकं हत्वा पुनरस्त्राणि सोऽकरोत् ॥
तत्र चास्त्राणि दिव्यानि कृत्वा स सुमहामतिः ।
स्वदेशमभिसम्पेदे पाञ्चालं कुलनन्दन ॥
सोऽभिवाद्य पितुः पादौ महेष्वासः कृताञ्जलिः ।
उवाच भवता भीष्मान्न भेतव्यं कथञ्चन ॥ ॥