वैशम्पायनः-
हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघे ।
पालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥
तथा विचित्रवीर्यं तु वर्तमानं सुखेऽतुले ।
सम्प्राप्तयौवनं पश्यन् भ्रातरं धीमतां वरम् ।
भीष्मो विचित्रवीर्यस्य विवाहायोपचक्रमे ॥
ततः काशीपतेर्भीष्मः कन्यास्तिस्रोऽप्सरस्समाः ।
शुश्राव सहिता राजंस् तिष्ठन्तीर्वै स्वयंवरे ॥
ततस्स रथिनां श्रेष्ठो रथेनैकेन धर्मतः।
जगामानुमते मातुः पुरीं वाराणसीं प्रति ॥
तत्र राज्ञस्समुदितान् सर्वतस्समुपागतान् ।
ददर्श कन्यास्ताश्वैव भीष्मश्शन्तनुनन्दनः ॥
तासां कामेन सम्मत्तास् सहिताः काशिकोसलाः ।
वङ्गाः पुण्ड्राः कलिङ्गाश्च ते जग्मुस्तां पुरीं प्रति ॥
कीर्त्यमानेषु राज्ञां तु नामधेयेषु भारत ।
एकाकिनं तदा भीष्मं वृद्धं शन्तनुनन्दनम् ॥
सोद्वेगा इव तं दृष्ट्वा कन्याः परमशोभनाः ।
अपाक्रामन्त तास्सर्वा वृद्ध इत्येव चिन्तया ॥
वृद्धः परमधर्मात्मा वलीपलितधारितः ।
किं कारणमिहायातो निर्लज्जो भरतर्षभः ॥
मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारतम् ।
ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि ॥
इत्येवं प्रब्रुवन्तस्ते हसन्ति स्म नृपाधमाः ।
क्षत्रियाणां वचश्श्रुत्वा भीष्मश्चुक्रोध भारत ॥
भीष्मस्तदा स्वयं राजा वरयामास ताः प्रभुः ॥
उवाच च महीपालान् राजञ्जलदनिस्वनः ।
रथमारोप्य तत्कन्या भीष्मो भीमपराक्रमः ॥
भीष्मः-
आहूय दानं कन्यानां गुणवद्भ्यस्स्मृतं बुधैः ।
अलङ्कृत्य यथाशक्ति प्रदाय च धनान्युत ॥
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि ।
वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ॥
प्रमत्तामुपयन्त्यन्ये स्वयं गृह्णन्ति चापरे ।
अष्टमं तु मिथोवृत्त विवाहं कविभिस्स्मृतम् ॥
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च ।
सम्प्रमथ्य हृतामाहुर् ज्यायसीं धर्मचारिणिः ॥
ता इमाः पृथिवीपाला जिहीर्षामि प्रसह्य वः ।
ते यतध्वं यथाकामं विजयायेतराय वा ।
स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ॥
वैशम्पायनः-
एवमुक्त्वा नरश्रेष्ठान् काशिराजं च वीर्यवान् ।
सर्वाः कन्यास्स कौरव्यो रथमारोपयत् स्वकम् ॥
आमन्त्र्य प्रययौ क्षिप्रं भीष्मो वै जनमेजय ॥
ततस्ते पार्थिवास्सर्वे समुत्पेतुरमर्षिताः ।
संस्पृशन्तश्शनैर्बाहून् सन्दश्य दशनच्छदान् ॥
तेषामाभरणान्याशु कवचानि महान्ति च ।
आमुञ्चतां च वर्माणि सम्भ्रमस्समपद्यत ॥
ताराणामिव सम्पातो बभूव जनमेजय ।
भूषणानां च हैमानां कवचानां च सर्वशः ॥
वर्मभिर्भूषणैर्मुख्यैः प्रचार्यभिसमन्ततः ।
सक्रोधामर्षजिह्वास्याः कर्षन्तो दशनांस्तदा ॥
सूतोपक्लृप्तान् सुदृढान् सदश्वैरभिचोदितान् ।
रथानास्थाय ते वीरास् सर्वोपकरणान्विताः ।
प्रयान्तमेकं कौरव्यम् अनुसस्रुरुदायुधाः ॥
ततस्समभवद्युद्धं तेषां तस्य च भारत ।
एकस्य च बहूनां च तुमुलं रोमहर्षणम् ॥
ते त्विषून् दशसाहस्रांस् तस्मै युगपदक्षिपन् ।
अप्राप्तान् सोऽच्छिनत् सर्वांस् तदद्भुतमिवाभवत् ॥
ततस्ते पार्थिवास्सर्वे सर्वतः परिवारयन् ।
महता शरवर्षेण वर्षेणेवाम्बुदा गिरिम् ॥
तत्तु बाणमयं वर्षं स तेषामावृणोच्छरैः ।
तांश्च सर्वान् महीपालान् पर्यविध्यत् त्रिभिस्त्रिभिः ॥
तस्यातिपुरुषं कर्म लाघवं रथचारिणम् ।
रक्षणं चात्मनस्सङ्ख्ये शत्रवोह्यभ्यपूजयन् ॥
अक्षतः क्षपयित्वाऽन्यान् असङ्ख्येयपराक्रमः ।
आनिनाय स काश्यस्य सुतास्सागरगासुतः ॥
तान्निहत्य रणे सर्वान् सर्वशस्त्रविदां वरः ।
कन्याभिस्सहितो यातो भारतो भारतान् प्रति ॥
ततस्तं पृष्ठतो राजा साल्वानामीश्वरः प्रभुः ।
अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे ॥
कुञ्जरं जघने निघ्नन् दन्ताभ्यामपरो यथा ॥
वाशिता समये मत्तो यूथपो बलिनां वरः ।
स्त्रीकाम तिष्ठ तिष्ठेति साल्वश्चाह स पार्थिवः ।
साल्वेनैव अमहाबाहुर् भीष्मः परमकोपनः ॥
ततस्स पुरुषव्याघ्रो भीष्मः परबलार्दनः ।
साल्वराजं सुसंक्रुद्धो न्यवर्तत परन्तपः ॥
क्रोधेन चापि ज्वलितो विधूम इव पावकः ।
दहन् यथा कृष्णगतिः कक्षं वातेरितः प्रभुः ॥
क्षत्रधर्मं समास्थाय अभीतो राजसत्तमः ।
निवर्तयामास रथं भीष्मः प्रहरतां वरः ॥
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते ।
प्रेक्षकास्समपद्यन्त भीष्मसाल्वसमागमे ॥
तौ गजाविव निष्टन्तौ बलिनौ वाशितान्तरे ।
अन्योन्यमभ्यवर्तेतां गोष्ठेष्विव महर्षभौ ॥
ततः क्रुद्धं शान्तनवो शरैः शतसहस्रशः ।
साल्वेशावरं स राजानं हतः क्रुद्धोऽभ्यचोदयत् ॥
संस्पृशंश्च धनुश्श्रेष्ठं सज्यं कृत्वा नरर्षभः ।
समवस्थाय दुर्धर्षस् सशरस्सशरासनः ॥
अभ्यद्रवत् साल्वपतिं युद्धाय कुरुपुङ्गवः ॥
कवची बद्धनिस्त्रिंशस् तलबन्धः प्रतापवान् ।
तिष्ठ तिष्ठेति राजानं साल्वं शान्तनवोदब्रवीत् ।
कन्यार्थं वै ततस्साल्वं प्रावर्तत महाबलः ॥
ततस्तु युद्धमभवत् तदा राजन् स्वयंवरे ।
भीष्मस्य चैव राजर्षेस् साल्वस्य च तथैव च ॥
ततो भीष्मं शान्तनवं शरैश्चावारयत् प्रभुः ।
साल्वराजो नरश्रेष्ट बह्वशोभत भारत ॥
विव्याथ च तथा भीष्मं वामपार्श्वे स्तनान्तरे ।
त्वरमाणस्तदा काले क्षत्रियर्षभसत्तमः ॥
दृष्ट्वा तु भीष्मं व्रणिनं राज्ञा साल्वेन ते नृपाः ।
विस्मितास्समपद्यन्त साधु साध्विति चाब्रुवन् ॥
लाघवं तस्य ते दृष्ट्वा पृथिव्यां सर्वपार्थिवाः ।
साल्वं सम्पूजयामासुर् वाग्मिर्नृपतिसत्तमाः ॥
क्षत्रियाणां तु ताश्श्रुत्वा वाचः परपुरञ्जयः ।
क्रुद्धश्शान्तनवस्साल्वं तिष्ठ तिष्ठेति चाब्रवीत् ॥
सारथिं चाब्रवीद्भिष्मो याहि यत्रैष पार्थिवः ।
यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ॥
तदस्त्रं वारुणं सम्यग् योजयामास पार्थिवः ।
तेनाश्वांश्चतुरोऽमृद्गात् साल्वराजस्य पार्थिवः ॥
अस्त्रैरस्त्राणि संवार्य भीष्मस्तस्य परन्तपः ।
ततो नृपतिशार्दूलो न्यहनत्तस्य सारथिम् ॥
अस्त्रेण चास्य साल्वस्य न्यहनत्तुरगोत्तमान् ॥
साल्वस्तु विरथो राजन् हताश्वो हतसारथिः ।
निक्षिप्य च धनुश्श्रीमान् भूमौ तिष्ठदवाङ्मुखः ॥
कन्याहेतोर्नरश्रेष्ठो भीष्मश्शान्तनवस्तदा ।
विसर्जयामास नृपं जीवन्तं तं नराधिपः ॥
ततो विजित्य ताः कन्यास् तिस्रो रूपगुणान्विताः ।
प्रययौ हस्तिनपुरं भीष्मश्शान्तनवस्तदा ।
कुरुक्षेत्रं पुण्यतमं यत्र राजा स कौरवः ॥
साल्वोऽपि राजा स्वं राष्ट्रं सम्प्राप्तो न चिरादिव ॥
राजनस्तत्र ये चासन् स्यंवरदिदृक्षवः ।
तेऽपि स्वान्येव राष्ट्राणि हतशेषाः प्रचक्रमुः ॥
ते वनानि च रम्याणि शैलांश्च सरितस्तथा ।
अतिक्रम्य च राजानस् स्वं स्वं राज्यं प्रचक्रमुः ॥
भीष्मस्स्वयंवरे कन्या विजित्य कुरुसत्तमः ।
वनानि सरितश्चैव शैलांश्च विनिधद्गुमान् ॥
अक्षतः क्षपयित्वाऽरींस् तानसङ्ख्येयविक्रमः ।
सोऽचिरेणैव कालेन अतिक्रम्य नराधिपः ।
आनयामास काश्यस्य सुतास्सागरगासुतः ॥
तास्नुषा इव धर्मात्मा भगिनीरनुजा इव ।
यथावहुहितॄश्चैव प्रगृह्य प्रययौ कुरून् ॥
स तु धर्मेण धर्मज्ञः कर्म कृत्वाऽतिमानुषम् ।
तास्सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे ॥
भीष्मो विचित्रवीर्याय विक्रम्य मुदितो ददौ ॥
स तु धर्मेण धर्मज्ञो विधिदृष्टेन कर्मणा ।
भ्रातुर्विचित्रवीर्यस्य विवाहमुपचक्रमे ॥
सत्यवत्यास्समीपेऽथ कृत्वा नियममात्मवान् ।
विवाहं कारयिष्यन्तं भीष्मं काशिपतेस्सुता ।
ज्येष्ठा तासामिदं वाक्यम् अब्रवीज्जनसंसदि ॥
अम्बा-
मया साल्वपतिः पूर्वं मनसा हि वृतः पतिः ।
तेन चास्मि वृता राजंस् तथाकामश्च मे पतिः ॥
मया वरयितव्योऽभूत् साल्वस्तस्मिन् स्वयंवरे ।
एतद्विज्ञाय धर्मज्ञ धर्मतस्त्वं समाचर ॥
वैशम्पायनः-
एवमुक्तस्ततो भीष्मः कन्यया विप्रसंसदि ।
चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥
अन्यसक्ता त्वियं कन्या ज्येष्ठा क्षत्रे मया जिता ॥
वाचा दत्ता मनोदत्ता कृतमङ्गलवाचना ।
निर्दिष्टा तु परस्यैव सा वर्ज्या परचिन्तिनी ॥
इत्युक्त्वा चानुमान्यैव भ्रातरं स्ववशानुगम् ॥
स विनिश्चित्य तैस्सार्धं ब्राह्मणैर्धर्मकोवोदैः ।
अनुजज्ञे ततो ज्येष्ठाम् अम्बां काशीपतेस्सुताम् ॥
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे ।
भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥
तयोः पाणी गृहीत्वा तु रूपयौवनदर्पितः ।
विचित्रवीर्यो धर्मात्मा नैनामैच्छत् कथञ्चन ॥
विचित्रवीर्यः-
अम्बामन्यस्य कीर्त्यन्तीं अब्रवीच्चारुदर्शनाम् ।
प्रत्यक्षफल एवैष कामोऽसाधु र्निरर्थकः ॥
परतन्त्रोपभोगो माम् आर्य नायोक्तुमर्हसि ॥
भीष्मः-
प्रातिष्ठितश्शन्तनोर्वै तात! यस्य त्वमन्वयः ।
अकामवृत्तो धर्मात्मा साधु मन्ये मतं तव ।
इत्युक्त्वाऽम्बां समालोक्य विधिवद्वाक्यमब्रवीत् ॥
विसृष्टा ह्यसि गच्छ त्वं यथाकाममनिन्दिते ॥
नानियोज्ये समर्थोऽहं नियोक्तुं भ्रातरं प्रियम् ।
अन्यभावगतां चापि को नारीं वासयेद्गृहे ।
अतस्त्वां न नियोक्ष्यामि अन्यकामासि गम्यताम् ॥
अहमप्यूर्ध्वरेता वै निवृत्तो दारकर्मणि ।
न सम्बन्धस्तदावाभ्यां भविता वै कथञ्चन ॥
वैशम्पायनः-
इत्युक्ता सा तदा तत्र सखीभिः परिपालिता ।
निर्दिष्टा हि शनै राजन् साल्वराजपुरं प्रति ॥
अथाम्बा साल्वमासाद्य साऽब्रवीन्मनसा वृता ॥
अम्बा-
पुरा निर्दिष्टभावा त्वाम् आगतास्मि वरानन ।
देवव्रतं समुत्सृज्य सानुजं पुरुषर्षभम् ।
प्रतिगृह्णीष्व भद्रं ते विधिवन्मां समुद्यताम् ॥
वैशम्पायनः-
एवमुक्तस्तु साल्वोऽपि प्रहसन्निदमब्रवीत् ॥
साल्वः-
निर्जितासीह भीष्मेण मां विनिर्जित्य राजसु ।
अन्येन निर्जितां भद्रे विसृष्टां तेन चालयात् ।
न गृह्णामि वरारोहे तत्र चैव तु गम्यताम् ॥
वैशम्पायनः-
इत्युक्ता सा समागम्य भीष्मं पुनरथाब्रवीत् ।
अम्बा तत्राब्रवीद्भीष्मं त्वयाऽहं सहसा हृता ॥
क्षत्रधर्ममवेक्षस्व भर्ता त्वं मम धर्मतः ॥
ऊर्ध्वरेतास्त्वहं भद्रे विवाहविमुखोऽभवम् ।
तत्त्वेन साल्वं गच्छ त्वं यः पुरा मनसा वृतः ॥
अन्यसक्तां किमर्थं त्वम् आत्मानमवदः पुरा ।
अन्यसक्तां वधूं कन्यां वासयेत् स्वगृहे न हि ॥
नाहमुद्वाहयिष्ये त्वा मम भ्रात्रे यवीयसे ।
विचित्रवीर्याय शुभे यथेष्टं गम्यतामिति ।
भूयस्साल्वं समभ्येत्य राजन् गृह्णीष्व मामिति ॥
नाहं गृह्णाम्यन्यजिताम् इति साल्वनिराकृताम् ।
ऊर्ध्वरेतास्त्वहमिति प्रत्युवाच पुनः पुनः ॥
पुनस्सा चाब्रवीद्भीष्मं यथाऽजैषस्तिथा कुरु ॥
अम्बा भीष्मं पुनस्साल्वं भीष्मं साल्वं पुनः पुनः ।
एवमन्वगमद्भीष्मं षट् समाः पुष्करेक्षणा ।
अश्रुभिर् भूमिमुक्षन्ती शोचन्ती तं मनस्विनी ॥
ततोऽन्या द्वादश समा बाहुदामभितो नदीम् ।
पार्श्वे हिमवतो रम्ये तपो घोरं समाददे ॥
सङ्क्षिप्तकरणा तत्र तप आस्थाय सुव्रता ।
पादाङ्गुष्ठेन साऽतिष्ठद् अकम्पन्त ततस्सुराः ॥
तस्यास्तीव्रं तपो दृष्ट्वा सुराणां क्षोभकारकम् ।
विस्मितश्चैव हृष्टश्च तस्यानुग्रहबुद्धिना ॥
अनन्तसेनो भगवान् कुमारस्सर्वतः प्रभुः ।
मानयन् राजपुत्रीं तां ददौ तस्यै शुभां स्रजम् ॥
एषा पुष्करिणी दिव्या यथावत् समुपस्थिता ।
अम्बे त्वच्छोकशमनी माला भुवि भविष्यति ॥
एतां चैव मया दत्तां यो मालां धारयिष्यति ।
सोऽस्य भीष्मस्य निधने कारणं वै भविष्यति ॥ ॥