वैशम्पायनः-
चेदिराजसुतां ज्ञात्वा दाशराजेन वर्धिताम् ।
विवाहं कारयामास शास्त्रदृष्टेन कर्मणा ॥
तदा विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः ।
तां कन्यां रूपसम्पन्नां स्वगृहे सन्न्यवेशयत् ॥
ततश्शान्तनवो धीमान् सत्यवत्यामजायत ।
पुत्रश्चित्राङ्गदो नाम बलवीर्यसमन्वितः ॥
तथाऽपरं महेष्वासं सत्यवत्यां पुनस्सुतम् ।
विचित्रवीर्यं धर्मात्मा जनयामास वीर्यवान् ॥
अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ ।
स राजा शान्तनुर्वीरः कालधर्ममुपेयिवान् ॥
स्वर्याते शन्तनौ भीष्मश् चित्राङ्गदमरिन्दमम् ।
स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥
स तु चित्राङ्गदो धीमान् सर्वांश्चिक्षेप पार्थिवान् ।
मानुषं न हि मेने स कञ्चित् सममिवात्मनः ॥
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा ।
गन्धर्वराजो बलवांस् तुल्यनामाभ्ययात्तदा ॥
गन्धर्वः-
त्वं वै सदृशनामासि युद्धं देहि नृपात्मज! ।
नाम चान्यत् प्रगृह्णीष्व यदि युद्धं न दास्यसि ॥
त्वयाऽहं युद्धमिच्छामि त्वत्सकाशात्तु नामतः ।
आगतोऽस्मि वृथा भाष्यो न गच्छेन्नामतो मया ॥
वैशम्पायनः-
इत्युक्त्वा गर्जमानौ तौ हिरण्वत्तीरसङ्गतौ ।
तेनास्य युद्धं सुमहद् कुरुक्षेत्रे बभूव ह ।
नद्या कूले हिरण्वत्यास् समास्तिस्त्रोऽभवद्रणम् ॥
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः ।
तस्मिन् विमर्दे तुमुले शस्त्रवृष्टिसमाकुले ॥
मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ।
चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् ॥
चित्राङ्गदो विनिर्जित्य दिवमाचक्रमे पुनः ॥
तस्मिंस्तु नृपशार्दूले निहते भूरिवर्चसि ।
भीष्मश्शान्तनवो धीमान् प्रेतकार्याण्यकारयत् ॥
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् ।
कुरुराज्ये महाबाहुर् अभ्यषिञ्चदनन्तरम् ॥
विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः ।
अन्वशासन्महाराज पितृपैतामहं पदम् ॥
स धर्मशास्त्रकुशलं भीष्मं शान्तनवं नृपम् ।
पूजयामास धर्मेण स चैनं प्रत्यपालयत् ॥ ॥