वैशम्पायनः-
स तथा सह पुत्रेण रममाणो महीपतिः ।
वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ॥
स कदाचिद्वनं यातो यमुनामभितो नदीम् ।
महीपतिरनिर्देश्यम् अजिघ्रद्गन्धमुत्तमम् ॥
तस्य प्रभवमन्विच्छन् विचचार वनं नृपः ।
स ददर्श तदा कन्यां दाशानां देववर्णिनीम् ॥
तामपृच्छत्ततो राजा कन्यामसितलोचनाम् ।
कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ॥
साऽब्रवीद्दाशकन्याऽस्मि धर्मार्थं वाहये तरिम् ।
पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः ॥
ज्ञात्वा च पितरं तस्या वरयामास तां तदा ।
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् ।
समीक्ष्य राजा दाशेयीं कामयामास शन्तनुः ॥
पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् ।
सम्भ्रमात्प्रत्युवाचेदं दाशराजो महीपतिम् ॥
दाशः-
याचमानाय वै देया वराय वरवर्णिनी ।
हृदि कामस्तु मे कश्चित् तं निबोध जनेश्वर! ॥
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसे नृप ।
सत्यवागसि सत्येन समयं प्रतिपद्यसे ॥
ततो दास्यामि राजेन्द्र तव कन्यामिमां नृप ।
न हि मे त्वत्समः कश्चिद् वरो जातु भविष्यति ॥
शन्तनुः-
श्रुत्वा तव वरं दाश व्यवसायो भविष्यति ।
दातव्यं चेत् प्रदास्यामि न त्वदेयं कथञ्चन ॥
दाशः-
योऽस्यां जायेत च पुमान् स राजा पृथिवीपतिः ।
त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन भारत ॥
वैशम्पायनः-
नाकामयत तं दातुं वरं दाशाय शन्तनुः ।
शरीरजमसह्यं तं दीप्यमानमधारयत् ॥
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः ।
प्रत्ययाद्धास्तिनपुरं शोकपहतचेतनः ॥
ततः कदाचिच्छोचन्तं शन्तनुं ध्यानमास्थितम् ।
पुत्रो देवव्रतो ह्येत्य पितरं वाक्यमब्रवीत् ॥
देवव्रतः-
सर्वतो भवतः क्षेमं विधेयास्सर्वशत्रवः ।
अकस्माद्राजशार्दूल शोचंस्तु परिदृश्यसे ॥
तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः ।
कस्मान्न भुङ्क्षे राजंस्त्वं न किञ्चिदपि भाषसे ॥
न चाश्वेन च निर्यासि विवर्णो हरिणः कृशः ।
व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै ॥
वैशम्पायनः-
स तं काममवाच्यं वै दाशकन्यां प्रतीदृशम् ।
विवृतं नाशकत्तस्मै पिता पुत्राय शंसितुम् ॥
एवमुक्तस्तु पुत्रेण शन्तनुः प्रत्यभाषत ॥
शन्तनुः-
असंशयं महाप्राज्ञा यथैवात्थ तथैव तत् ।
अपत्यं नस्त्वमेवैकः कुले महति भारत ॥
अनित्यता च मर्त्यानाम् अतश्शोचामि पुत्रक ।
कथञ्चित्त्वयि गाङ्गेय! विपन्ने नास्ति नः कुले ।
असंशयं त्वमेवैकश् शतैरपि वरस्सुतः ॥
न चाप्यहं वृथा भूयो दारान् कर्तुमिहोत्सहे ।
सन्तानस्याविनाशं तु कामये भद्रमस्तु ते ॥
अपुत्रतैकपुत्रत्वम् इत्याहुर्धर्मवादिनः ॥
चक्षुरेकं च पुत्रश्च अस्ति नास्ति च भारत ।
चक्षुर्नाशे तनोर्नाशः पुत्रनाशे कुलक्षयः ॥
अग्निहोत्रं त्रयी विद्या यज्ञाश्च सहदक्षिणाः ।
सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ॥
एवमेव मनुष्येषु स्याच्च सर्वं प्रजास्विति ।
यदपत्यं महाप्राज्ञ! तत्र मे नास्ति संशयः ॥
अपत्येनानृणो लोके पितॄणां नास्ति संशयः ।
एषा त्रयी पुराणानाम् उत्तमानां च शाश्वती ॥
अपत्यं कर्म विद्या च त्रीणि ज्योतींषि भारत! ॥
यदिदं कारणं तात सर्वमाख्यातमञ्जसा ॥
त्वं च शूरस्सदाऽमर्षी शस्त्रनित्यश्च भारत ।
नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ ॥
सोऽस्मि संशयमापन्नस् त्वयि शान्ते कथं भवेत् ।
एतन्मे कारणं तात दुःखमूलमशेषतः ॥
वैशम्पायनः-
स तस्य पितुराज्ञाय मतं समनुचिन्त्य च ।
देवव्रतो महाबुद्धिः प्रयाणमनुचिन्तयन् ॥
अपत्यफलसंयुक्तम् एतच्छ्रुत्वा पितुर्वचः ।
सूतं भूयोऽपि सन्तप्त आह्वयामास वै पितुः ॥
सूतस्तु कुरुमुख्यस्य उपयातस्तदाज्ञया ।
तमुवाच महाप्राज्ञो भीष्मो वै सारथिं पितुः ॥
भीष्मः-
त्वं सारथे पितुर्मह्यं सखाऽसि रथयुग्यतः ।
अपि जानासि यदि वै कस्यां भावो नृपस्य तु ।
यथा वक्ष्यसि मे पृष्टः करिष्ये न तदन्यथा ॥
सूतः-
दाशकन्या नरश्रेष्ठ तत्र भावः पितुर्गतः ।
वृतस्स नरदेवेन तदा वचनमब्रवीत् ॥
योऽस्यां पुमान् भवेद्गर्भस् स राजा त्वदनन्तरम् ।
नाकामयत तं दातुं पिता तव वरं तदा ॥
स चापि निश्चयस्तस्य न च दद्यांमतोऽन्यथा ।
एवं ते कथितं वीर कुरुष्व यदनन्तरम् ॥
वैशम्पायनः-
ततस्स पितुराज्ञाय मतं सम्यगवेक्ष्य च ।
ज्ञात्वा विमनसं पुत्रः प्रययौ यमुनां प्रति ॥
क्षत्रियैस्सह धर्मात्मा पुराणैर्धर्मचारिभिः ।
उच्चैश्श्रवसमागम्य कन्यां वव्रे यशस्विनीम् ॥
तं दाशः प्रतिजग्राह विधिवत् प्रतिपूज्य च ।
अब्रवीच्चैनमागम्य राजसंसदि भारत ॥
राज्यशुल्का प्रदातव्या कन्येयं याचतां वर ।
अपत्यं यद्भवेत्तस्यास् स राजा ऽस्तु पितुः परम् ॥
त्वमेवात्र महाबाहो शन्तनोर्वंशवर्धनः ।
पुत्रश्शस्त्रभृतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ॥
कुमारिकाणां शुल्केन किञ्चिद्वक्ष्यामि भारत ।
को हि सम्बन्धकं श्लाघ्यम् ईप्सितं यौनमीदृशम् ॥
अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ॥
अपत्यं हीदमार्यस्य यो युष्माकं समो गुणैः ।
यस्य सत्यवती शुक्रात् प्रादुर्भूता यशस्विनी ॥
तपनेन पिता तत्र बहुशः परिकीर्तितः ।
अर्हतीर्यं सत्यवती पितरं तेऽब्रवीत्तथा ॥
अर्थितश्चापि राजर्षिः प्रत्याख्यातस्तदा मया ।
स चाप्यासीत् सत्यवत्या भृशमर्थी महायशाः ॥
कन्यापितृत्वात् किञ्चित्तु वक्ष्यामि भरतर्षभ ।
बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ।
भूयांसं त्वयि पश्यामि तद्दोषमपराजित ॥
यस्य हि त्वं सपत्नस्स्या गन्धर्वस्यासुरस्य वा ।
न स जातु सुखं विन्देत् वयि क्रुद्धे परन्तप ॥
एतावानत्र दोषोऽस्ति नान्यः कश्चन पार्थिव ।
एतज्जानीहि भद्रं ते दानादाने परन्तप ॥
वैशम्पायनः-
तदैवमुक्तो गाङ्गेयस् तद्युक्तं प्रत्यभाषत ।
शृण्वतां भूमिपालानां पितुरर्थाय धर्मवित् ॥
देवव्रतः-
इदं वचनमाधत्स्व नास्ति वक्ताऽस्य मत्समः ।
अन्यो जातो न जनिता न च कश्चन सम्प्रति ॥
एवमेतत्करिष्यामि यथा त्वमिह भाषसे ।
योऽस्यां जनिष्यते पुत्रस् स नो राजा भविष्यति ॥
वैशम्पायनः-
दाशः-
इत्युक्तः पुनरेव स्म तं दाशः प्रत्यभाषत ।
चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ॥
त्वमेवात्र महाबाहो शान्तनुर्नाम नाथवान् ।
ईश्वरः कारणं च त्वं प्रभुर्दानाय चानघ ॥
इदं च वचनं मह्यं कार्यं वै श्रृणु भारत ।
कुमारिकाणां शुल्केन वक्ष्याम्यहमरिन्दम ॥
यत् त्वया सत्यमर्थं हि सत्यशील महाबल ।
राज्ञां मध्ये प्रतिज्ञातम् अनुरूपं तथैव तत् ॥
अत एव महाबाहो संशयो नात्र विद्यते ॥
नास्तिकस्यान्यथाभावास् त्वत्तो रिपुनिबर्हण ।
विद्यते पुरुषव्याघ्र त्वयि सत्यं महाव्रत ।
अपत्यं यद्भवेत्तुभ्यं तत्र नस्संशयो महान् ॥
तस्य तन्मतमाज्ञाय सर्वशस्त्रभृतां वरः ।
प्रतिज्ञां प्रत्यभिजानात् पितुः प्रियचिकीर्षया ॥
देवव्रतः-
उच्चैश्श्रवस्समाधत्स्व प्रतिज्ञां जनसंसदि ॥
ऋषयो वाऽथ वा देवा भूतान्यन्तर्हितानि च ।
यानि यानीह शृण्वन्तु नास्ति वक्ता हि मत्समः ॥
इदं वचनमादत्स्व सत्येन मम जल्पतः ।
शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते ॥
राज्यं तावत् पूर्वमेव मया त्यक्तं महाबल ।
अपत्यहेतोरपि च करिम्येष विनिश्चयम् ॥
अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति ।
अपुत्रस्यापि मे लोका भवितारो यथेप्सिताः ।
न हि जन्मप्रभृत्युक्तं मया किञ्चिदिहानृतम् ॥
यावत्प्राणा ध्रियन्ते वै मम देहं समाश्रिताः ।
तावन्न जनयिष्यामि पित्रे कन्यां प्रयच्छ मे ॥
परित्यजाम्यहं राज्यं मैथुनं चापि सर्वशः ।
ऊर्ध्वरेता भविष्यामि दाश सत्यं ब्रवीमि ते ॥
वैशम्पायनः-
तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः ।
ददामीत्येव तं दाशः कुमारं प्रत्यभाषत ॥
ततोन्तरिक्षेऽप्सरसो देवास्सर्षिगणास्तदा ।
तद्दृष्टा दुष्करं कर्म प्रशशंसुश्च पार्थिवाः ॥
प्रत्यवर्षन्त कुसुमैर् भीष्मोऽयमिति चाब्रुवन् ॥
ततोऽस्य पितुरर्थाय तामुवाच यशस्विनीम् ।
अधिरोह रथं मातर् गच्छावस्स्वगृहानिति ॥
एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीं ।
आगम्य हास्तिनपुरं शन्तनोस्सन्न्यवेदयत् ॥
तस्य तद्दुष्करं कर्म प्रशशंसुर्नाराधिपाः ।
समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् ॥
तच्छ्रुत्वा दुष्करं कर्म कृतं भीष्मेण शन्तनुः ।
बभूव दुःखितो राजा चिररात्राय भारत ॥
स तेन कर्मणा सूनोः प्रीतस्तस्मै वरं ददौ ।
नाकाममरणं तात! भविष्यति तवेति ह ॥
न ते प्रभविता मृत्युः यावदिच्छसि जीवितुम् ।
स्वेन कामेन मर्त्योऽसि नाकामस्त्वं कथञ्चन ॥
वैशम्पायनः-