वैशम्पायनः-
एवं स शान्तनुर्धीमान् देवराजर्षिसत्कृतः ।
धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ।
शान्तनोः कीर्तयिष्यामि सर्वानेव गुणानहम् ॥
दमो दानं क्षमा बुद्धिर् ह्रीर्धृतिस्तेज उत्तमम् ।
न्यवसंश्च महासत्वे शान्तनौ भरतर्षभ ॥
अमात्यगुणसम्पन्नः क्षत्रधर्मविशेषवित् ।
आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ॥
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः ।
धर्म एव परः कामाद् अर्थाच्चेति व्यवस्थितः ॥
एवमासीन्महासत्वश् शान्तनुर्भरतर्षभ ।
न चास्य सदृशः कश्चित् क्षत्रियो धर्मतोऽभवत् ॥
वर्तमानं च सद्धर्मे शस्त्रशास्त्रविदांवर ।
तं महीपा महेष्वासं राजराजमकुर्वत ॥
तेन कीर्तिमता शिष्टाश् शक्रप्रतिमतेजसा ।
यज्ञदानतपश्शीलास् समपद्यन्त पार्थिवाः ॥
शान्तनुप्रमुखैर्गुप्तं राष्ट्राधिपतिभिर्जगत् ।
नियमात् सर्ववर्णानां ब्रह्मोत्तरमवर्तत ॥
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः ।
ब्रह्मक्षत्रानुलोमांश्च शूद्राः पर्यचरन् विशः ॥
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने ।
वसन् सागरपर्यन्ताम् अन्वशासद्वसुन्धराम् ॥
स देवराजसदृशो धर्मज्ञस् सत्यवागृजुः ।
दानधर्मपरो योगी श्रिया परमया युतः ॥
अरागद्वेषसंयुक्तस् सोमवत् प्रियदर्शनः ।
तेजसा सूर्यसङ्काशो वायुवेगसमो बले ॥
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥
वधः पशुवराहाणां तथैव मृगपक्षिणाम् ।
शान्तनौ पृथिवीपाले नावर्तत वृथा तदा ॥
सर्वब्रह्मोत्तरे राज्ये शान्तनुर्विनयात्मवान् ।
समं शशास भूतानि कामरागविवर्जितः ॥
चकोरनेत्रस्ताम्रास्यस् सिंहर्षभगतिर्युवा ।
गुणैरनुपमैर्युक्तस् समस्तैराभिगामिकैः ।
गम्भीरस्सत्वसम्पन्नः पूर्णचन्द्रनिभाननः ॥
देवर्षिपितृयज्ञार्थं बभूवुः पशवो नृणाम् ।
न ह्यधर्मेण केषां चित् प्राणिनामभवद्वधः ॥
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् ।
स एव राजा भूतानां सर्वेषामभवत् पिता ॥
वीतशोकभयाबाधास् सुखस्वप्ननिबोधनाः ।
श्रिता भारतभर्तारं समपद्यन्त भूमिपाः ॥
तस्मिन् नरवरश्रेष्ठे राजराजेश्वरे सति ।
नृणां वागभवत्सत्यं दानार्थमभवद्धनम् ॥
स समाष्षोडशाष्टौ च चतस्रोऽष्टौ तथाऽपराः ।
रतिमप्राप्तवान् काञ्चित् बभूव वनगोचरः ॥
तथारूपस्तथाचारस् तथावृत्तस्तथाश्रुतः ।
गाङ्गेयस्तस्य पुत्रोऽभूद् आदादेव तथा वसुः ॥
सर्वास्त्रेषु च निष्णातः पार्थिवेष्वितरेषु च ।
महाबलो महासत्वो महावीर्यो महायशाः ॥
स कदाचिन्मृगान् विद्ध्वा वनादनुससार ह ।
भागीरथीमल्पजलां ददर्श सरितां वराम् ॥
तां दृष्ट्वा चिन्तयामास शान्तनुः पुरुषर्षभः ।
स्यन्दते किन्न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥
ततो निमित्तमन्विच्छन् ददर्श सुमहामनाः ।
कुमारं रूपसम्पन्नं बृहन्तं प्रियदर्शनम् ॥
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम् ।
कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ॥
तां शरैरावृतां दृष्ट्वा नदीं गङ्गां समन्ततः ।
विस्मितः प्रेक्षते स स्म कर्म तस्यातिमानुषम् ॥
जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा ।
न ज्ञातवान् महाभागम् अचं पुत्रो ममेति वै ॥
स तु तं पितरं दृष्ट्वा मोहयामास मायया ।
प्रमोह्य च ततः क्षिप्रं तत्रैवान्तरधीयत ॥
तदद्बुतं ततो दृष्ट्वा तत्र राजा स शान्तनुः ।
सङ्कमानस्सुतं गङ्गाम् अब्रवीद्दर्शयेति माम् ॥
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् ।
गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् ॥
अलङ्कृतामाभरणैर् अरजोवस्त्रवासिनीम् ।
दृष्टपूर्वां सतीं गङ्गाम् अभ्यजानात्स शन्तनुः ॥
गङ्गा-
यं पुत्रमष्टमं राजंस् त्वं पुरा मय्यविन्दथाः ।
स तेऽयं पुरुषव्याघ्र वज्रसंहननो युवा ॥
वेदानधिजगे पूर्वं वसिष्ठाच्चरितव्रतः ।
कृतास्त्रः परमेष्वासो देवराजसमो युधि ॥
सुराणां सम्मतो नित्यम् असुराणां च भारत ।
उशना वेद यच्छास्त्रं तदप्यस्मिन् प्रतिष्ठितम् ॥
महेष्वासमिमं राजन् राजधर्मार्थकोविदम् ।
मया दत्तं निजं पुत्रं वीरं वीर गृहं नय ॥
वैशम्पायनः-
इत्युक्त्वा सा महाभागा तत्रैवान्तरधीयत ।
तयैवं समनुज्ञातः पुत्रमादाय शन्तनुः ।
भ्राजमानं यथाऽदित्यम् आययौ स्वपुरं प्रति ।
पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् ॥
पौरवस्तु पुरीं गत्वा पुरन्दरपुरोपमाम् ।
सर्वकामसमृद्धार्थं मेने चात्मानमात्मना ॥
पौरवाञ्शन्तनोः पुत्रः पितरं च महायशाः ।
राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ॥
तथावृत्तसमाचारस् तथाधर्मस्तथाश्रुतः ।
पुत्रो देवव्रतो नाम शन्तनोरधिको गुणैः ॥
सर्वास्त्रेष्वभ्यनुज्ञातः पार्थिवेष्वितरेषु च ।
गुणैर्विशिष्टो बहुभिः पुत्रो देवव्रतोऽभवत् ॥ ॥