शन्तनुः-
आपवो नाम कोन्वेष किमृषेस्तस्य दूषितम् ।
शशाप यस्मात् कल्याणि! स वसूंश्चारुदर्शने ।
यस्याभिशापात्ते सर्वे मानुषीं योनिमागताः ॥
अनेन च विशेषेण गङ्गादत्तेन किं कृतम् ।
कस्य चैष कृतेनैष चिरमेष वसिष्यति ॥
ईशानास्सर्बलोकानां वसवः केन हेतुना ।
मनुष्येषूदपद्यन्त तत्समाचक्ष्व जाह्नवि! ॥
वैशम्पायनः-
एवमुक्ता वरारोहा राजानमिदमब्रवीत् ।
भर्तारं जाह्नवी देवी शान्तनुं पुरुषर्षभ ॥
गङ्गा-
लेभे यं यमुना पुत्रं वरुणाद्राजसत्तम ।
वसिष्ठनामा स मुनिः ख्यात आपग इत्युत ॥
तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् ।
मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकवनावृतम् ॥
स वारुणिस्तपस्तेपे तस्मिन् भरतसत्तम ।
वने पुण्यकृतां श्रेष्ठस् स्वादुमूलफलोदके ॥
दक्षस्य दुहिता या तु सुरभीत्यभि विश्रुता ।
गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥
अनुग्रहार्थं जगतस् सर्वकामदुहां वराम् ।
लेभे तां गां तु धर्मात्मा होमधेनुं स वारुणिः ॥
सा तस्मिंस्तपसाऽरण्ये वसन्ती ऋषिसेविते ।
चचार रम्ये हर्म्ये च गौरपेतभया तदा ॥
ततस्तद्वनमाजग्मुः कदाचिद्भरतर्षभ ।
अष्टौ च वसवस्सर्वे देवा देवर्षिसेवितम् ॥
सभार्यास्तद्वनं सर्वं विचरन्तस्ततस्तत ।
रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥
एकस्य भार्या राजेन्द्र! वसोर्वासवविक्रम! ।
तां च दोग्ध्रीं वने तस्मिन् गां ददर्श सुदर्शनाम् ॥
स्निग्धां वसिष्ठस्य मुनेस् सर्वकामधुगुत्तमाम् ॥
सा विस्मयसमाविष्टा रूपयुक्ता सुनन्दिनी ।
दर्शयामास कल्याणी यातां गां गोवृषविक्रम ॥
सा पीनां च सुदोग्ध्रीं च सुवालधिमुखुरोदराम् ।
उपपन्नां गुणैस्सर्वैश् शीलेनानुत्तमेन च ॥
एवङ्गुणसमायुक्तां वसवे वसुनन्दिनी ।
दर्शयामास कल्याणी पुरा पौरवनन्दन ॥
द्यौस्तदा तां तु दृष्ट्वैव गां गजेश्वरविक्रम ।
उवाच सा सतां देवि! तस्या रूपगुणान्वयम् ॥
द्यौः-
एषा गौरुत्तमा देवी वारुणेरसितेक्षणा ।
मुनेस्तस्य वरारोहे! यस्येदं वनमुत्तमम् ॥
अस्याः क्षीरं पिबेन्मर्त्यस् स्वादु यो वै सुमध्यमे ।
दशवर्षसहस्राणि स जीवेत् स्थिरयौवनः ॥
वैशम्पायनः-
एतच्छ्रुत्वा तु सा देवी नृपोत्तम! सुमध्यमा ।
तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ॥
गङ्गा-
अस्ति मे मानुषे लोके नरदेवात्मजा सखी ।
नाम्ना जितवती नाम रूपयौवनशालिनी ॥
उशीनरस्य राजर्षेस् सत्यसन्धस्य धीमतः ।
दुहिता प्रथिता लोके मानुषे रूपसम्पदा ॥
तस्या हेतोर्महाभाग! सवत्सां गां ममेप्सिताम् ।
आनयस्व नरश्रेष्ठ त्वरितं पुण्यवर्धनाम् ॥
यावदस्याः पयः पीत्वा सा सखी मम मानद ।
मानुषेषु भवच्चैका जरारोगविवर्जिता ॥
एतन्मम महाभाग कर्तुमर्हसि केर्म वै ।
प्रियात् प्रियतरं ह्यस्मान्नास्ति मेऽन्यत् कथञ्चन ॥
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया ।
धराद्यैर्भ्रातृभिस्सार्धं द्यौस्तदा तां जहार गाम् ॥
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप ।
ऋषेस्तस्य तपस्वीव्रं न शशाक परीक्षितुम् ॥
हृता गौस्सा तदा तेन प्रयाताऽद्भुतदर्शन ।
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः ॥
नापश्यद्गां सवत्सां तां सा हि तस्मिन् वनोत्तमे ।
स तस्मिन् मृगयामास वने तामृषिसत्तमः ।
नाध्यागच्छच्च मृगयन् स्वां गां मुनिरुदारधीः ॥
ज्ञात्वा तथाऽपनीतां तां वसुभिर्दिव्यदर्शनः ।
स तु कोपवशं प्राप्तश् शशाप च वसूंस्तदा ॥
यस्मान्मे वसवो जह्रुर् गां वै दोग्ध्रीं सुवालधिम् ।
तस्मात् सर्वे जनिष्यन्ति वसवो मानुषेष्विति ॥
एवं शशाप भगवान् वसूंस्तान् मुनिसत्तमः ।
वशं क्रोधस्य सम्प्राप्त आपगो भरतर्षभ ॥
शप्त्वा च तान् महाभागस् तपस्येव मनो दधे ।
एवं स शप्तवान् राजन् वसूनष्टौ तपोधनः ॥
हरप्रभावो ब्रह्मर्षिर् देवान् रोषसमन्वितः ॥
एवं शप्तास्ततस्तेन मुनिना यामुनेन वै ।
अष्टौ समस्ता वसवो निजदोषेण सत्तम ॥
अथाश्रमपदं प्राप्य पुनस्तस्य महात्मनः ।
शप्तास्स्म इति जानन्तस् तमृषिं चाभिचक्रमुः ॥
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ ।
न लेभिरे कृते तस्मात् प्रसादमृषिसत्तमात् ॥
चकार च न तेषां वै प्रसादं भगवानृषिः ।
आपगः पुरुषव्याघ्र! सर्वधर्मविशारदः ॥
उवाच च स धर्मात्मा सप्त राजन् धरादिकान् ।
अनुसंवत्सराच्छापान्मोक्षध्वमिति भारत ॥
अयं तु यत्कृते शप्ता मया यूयं स वत्स्यति ।
द्यौस्तु वै मानुषे लोके दीर्घकालं स्वकर्मणा ।
नानृतं तच्चिकीर्षामि क्रुद्धो यदब्रुवम् ॥
प्रजां ह्यनृतवाक्येन हिंस्यामप्यात्मनस्तदा ।
न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥
भविष्यति च धर्मात्मा सर्वशास्त्रार्थविद्बली ।
पितुश्चायं प्रियं कुर्वन् स्त्रीभोगान् वर्जयिष्यति ॥
एवमुक्त्वा वसून् सर्वान् जगाम भगवानृषिः ।
ततो मामुपजग्मुस्ते समस्ता वसवस्तदा ॥
अयाचन्त च मां राजन् वरं तेभ्यो ददाम्यहम् ।
जातं जातं क्षिपेत्यूचुस् स्वयं गङ्गे! त्वदम्भसि ॥
एवं तेषां वरं सम्यक् शप्तानां राजसत्तम! ।
मोक्षार्थं मानुषाल्लोकाद् यथावत्कृतवत्यहम् ॥
अयं शापादृषेस्तस्य एक एव नृपोत्तम! ।
द्यौ राजन् मानुषे लोके चिरं वत्स्यति भारत! ॥
अयं देवव्रतश्चैव गङ्गादत्तश्च मे सुतः ।
द्विनामा शन्तनोः पुत्रश् शन्तनोरधिको गुणैः ॥
अयं कुमारः पुत्रस्ते विवृद्धः पुनरेष्यति ।
इयं च ते भविष्यामि आह्वानोपगता नृप! ॥
वैशम्पायनः-
एतदाख्याय सा देवी तत्रैवान्तरधीयत ।
आदाय च कुमारं तं जगाम च यथेप्सितम् ॥
तस्माद्देवव्रतश्चैव गाङ्गादत्तश्च सोऽभवत् ।
शान्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः ॥
तस्य कीर्तिं च वृत्तिं च महतो नृप सद्गुणान् ।
शन्तनोः कीर्तयिष्यामि सर्वानेव यथातथम् ॥
महाभाग्यस्य नृपतेर् भारतस्य यशस्विनः ।
यस्येतिहास आख्यातो महाभारत इत्युत ॥ ॥