वैशम्पायनः-
अहोरात्रानृतून् मासान् न बुबुोध गतान् बहून् ।
रममाणः प्रियां लब्ध्वा यथाकामं नरेश्वरः ॥
दिविष्ठान् मानुषांश्चैव भोगान् भुङ्क्ते स्म वै नृपः ।
आसाद्य शान्तनुश्श्रीमान् मुमुदे च परन्तपः ॥
ऋतुकाले तु सा देवी दिव्यं गर्भमधारयत् ।
अष्टावजनयत्पुत्रांस् तस्य चामरवर्णिनः ॥
जातं जातं च सा पुत्रं तास्वप्सु क्षिपति स्म ह ।
सूतके कण्ठमाक्रम्य तान्निनाय यमक्षयम् ॥
वृणोतु त्वां नदीत्युक्त्वा सर्वान् स्रोतस्यवासृजत् ।
तस्य तत् त्वप्रियं राज्ञश् शान्तनोरभवत्तदा ।
उवाच किञ्चिन्न तु तां पितुर्वचनयन्त्रितः ॥
अमीमांस्या कर्मयोनिर् आगमश्चेति शान्तनुः ।
स्मरन् पितृवचश्चैव नापृच्छत् पुत्रकिल्बिषम् ॥
जाताञ्जातांश्च वै हन्ति सा स्त्री सप्त वरान् सुतान् ।
शान्तनुर्धर्मभङ्गाच्च नापृच्छत्तां कथञ्चन ॥
अष्टमं तु जिघांसन्त्यां चुक्षुभे शान्तनोर्धृतिः ॥
उवाच राजा दुःखार्तः परीप्सन् पुत्रमात्मनः ॥
आलभन्तीं तदा दृष्ट्वा तां स कौरवनन्दनः ।
अब्रवीद्भरतश्रेष्ठो वाक्यं परमदुःखितः ॥
शन्तनुः-
मा वधीः कस्य काऽसीति किं हिनत्सि सुतानिति ।
पुत्रघ्नि सुमहत्पापम् अकार्षीः कर्म निन्दितम् ॥
गङ्गा-
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर ।
जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥
अहं गङ्गा जह्नुसुता महर्षिगणपावनी ।
देवकार्यार्थसिद्ध्यर्थम् उषिताऽहं त्वया सह ॥
इमेऽष्टौ वसवो देवा महाभागा महौजसः ।
आपगस्याभिशापेन मानुषेषूपपादिताः ॥
तेषां जनयिता नान्यस् त्वदृते भुवि विद्यते ।
जनित्री मद्विधा धात्री नैवास्ति पुरुषाधिप ॥
तस्माद्विजनने युक्त्वा त्वत्संयोमरोचयम् ।
जनयित्वा वसूनष्टौ जिता लोकाश्च पुष्कलाः ॥
देवानां समयस्त्वेष वसूनां संश्रुतो मया ।
जातं जातं मोक्षयिष्ये नोयोगान्मानुषेष्वति ॥
श्प्ताश्शापाद्विमुक्तास्ते त्वत्कृतोऽयं विमुच्यते ।
स्वस्ति तेस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥
अयं तव सुतस्तेषां वीर्येण कुलनन्दनः ।
सम्भूतोऽति जनानन्यान् भविष्यति न संशयः ॥
एष पर्यायवासस्थो देवस्त्वत्सदृशोऽष्टमः।
मत्प्रसादाच्च जानीहि गङ्गादत्तमिमं सुतम् ॥
तस्माद्देवव्रतश्चैव गङ्गादत्तश्च वीर्यवान् ।
द्विनामा शन्तनोः पुत्रश् शन्तनोरधिको गुणैः ॥
तेषां लोकानवाप्नोति वसूनां वसुधाधिप ॥