वैशम्पायनः-
ततः प्रतीपो राजाऽऽसीत् सर्वभूतहिते रतः ।
निषसाद महाबाहुर् गङ्गातीरे जितेन्द्रियः ॥
तस्य रूपगुणोपेता लोभनीयतमाकृतिः ।
उत्तीर्य गङ्गा सलिलाद् उद्देशं स्त्री समभ्यगात् ॥
अधीयानस्य राजर्षेस् तस्य सा देववर्णिनी ।
दक्षिणं सालसङ्काशम् ऊरुं भेजे शुभानना ॥
प्रतीपः-
प्रतीपस्तु महीपालस् तामुवाच यशस्विनीम् ।
वाक्यं वाक्यविदां श्रेष्ठो धर्मनिश्चयतत्त्ववित् ।
करवाणि किं ते कल्याणि! यदर्थं मां त्वमभ्यगाः ॥
गङ्गा-
कामये त्वां नरव्याघ्र स कौरव्य भजस्व माम् ।
त्यागः कामयमानानां स्त्रीणां सद्भिर्विगर्हितः ॥
प्रतीपः-
नाहं कामात् स्त्रियं भद्रे गच्छेयं वरवर्णिनि! ।
न चासवर्णां कल्याणि! धर्म्यमेतद्धि मे व्रतम् ॥
गङ्गा-
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कथञ्चनः ।
मां वै भजस्व नृपते देहि कामं वरस्त्रियाः ॥
प्रतीपः-
समयातीतमेतद्वै यन्मां चोदयसि प्रियम् ।
अन्यथा प्रतिपन्नं मां क्षिणुयाद्धर्मविप्लवः ॥
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने ।
अपत्यानां स्नुषाणां च आसनं विद्धि तच्छुभे ॥
सव्योरुः कामिनीभोग्यस् त्वया स च विवर्जितः ।
तस्मादहं नाचारामि त्वयि कामं प्रियंवरम् ॥
स्नुषा मे भव कल्याणि! पुत्रार्थं त्वां वृणोम्यहम् ।
स्नुषापक्षं हि वामोरुं त्वमागम्य समाश्रिता ॥
गङ्गा-
एवमप्यस्तु धर्मज्ञ संयोगस्स्यात् सुतेन ते ।
त्वद्भक्त्या तु भजिष्यामि प्रख्यातं भारतं कुलम् ॥
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् ।
गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ॥
कुलस्य यो वः प्रणेता तस्याहं च नरोत्तम ॥
यश्च मेऽभिजनं जातिम् आचारं चापि यद्विभो ।
तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ॥
एवं वसन्ती राजेन्द्र! वर्धयिष्यामि ते प्रियम् ।
पुत्रैः पुण्यैः परं चापि स्वर्गं प्राप्स्यति ते सुतः ॥
वैशम्पायनः-
तथेत्युक्त्वा तु सा राजंस् तत्रैवान्तरधीयत ।
अदृश्या राजसिंहस्य पश्यतस्साऽभवत्तदा ।
पुत्रजन्म प्रतीक्षन् वै स राजा तदधारयत् ॥
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः ।
तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ॥
प्रतीपस्य तु भार्यायां गर्भः श्रीमानवर्धत ।
श्रिया परमया युक्तश् शरच्छुक्ले यथा शशी ॥
ततस्तु दशमे मासि प्राजायत रविप्रभम् ।
कुमारं देवगर्भाभं प्रतीपमहिषी तदा ॥
तयोस्समभवत् पुत्रो वृद्धयोस्स महाभिषक् ।
शान्तस्य जज्ञे सन्तानस् तस्मादासीत्स शान्तनुः ॥
तस्य जातस्य कृत्यानि प्रतीपोऽकारयत् प्रभुः ।
जातकर्मादि विप्रेण वेदोक्तैः कर्मभिस्तदा ॥
नामकर्म च विप्रास्तु चक्रुः परमसत्कृतम् ।
शान्तनोरवनीपाल! वेदोक्तैः कर्मभिस्तदा ॥
ततस्संवर्धितो राजा शान्तनुर्लोकपालकः ।
स तु लेभे परां निष्ठां प्राप्य धर्मविदां वरः ॥
धनुर्वेदे च वेदे च गतिं स परमां गतः ।
यौवनं चापि सम्प्राप्तः कुमारो वदतां वरः ॥
संस्मरंश्चाक्षयाँल्लोकान् विजातांस्तान् स्वकर्मणा ।
बभूव धर्मकृद्राजा शन्तनुर्भरतर्षभ ॥
प्रतीपश्शान्तनुं पुत्रं यौवनस्थमबोधयत् ॥
पुरा स्त्री मां समभ्यागाच् छान्तनो भूतये तव ।
त्वामाव्रजेद्यदि रहस् सा पुत्र वरवर्णिनी ॥
कामयानाऽभिरूपाढ्या दिव्यस्त्री पुत्रकाम्यया ।
सा त्वया नानुयोक्तव्या काऽसि कस्यासि चाङ्गने ॥
यच्च कुर्यान्न तत्कर्म प्रतिषेद्धुं त्वयाऽनघ ।
मन्नियोगाद्व्रजन्तीं तां भजेथा इत्युवाच तम् ॥
एवं सन्दिश्य तनयं प्रतीपश्शान्तनुं तदा ।
स्वे च राज्येऽभिषिच्यैनं वनं राजा जगाम ह ॥
स राजा शान्तनुर्धीमान् पार्थिवानां धुरन्धरः ।
बभूव सर्वलोकस्य सत्यवागिति सम्मतः ॥
पीनस्कन्धो महाबाहुर् मत्तवारणविक्रमः ।
अन्वितः परिपूर्णार्थैस् सर्वैर्नृपतिलक्षणैः ॥
अमर्त्यसम्पदोपेतः क्षत्रधर्मविशेषवित् ।
वशे चक्रे महीमेको विजित्य वसुधाधिपान् ॥
वेदानागमयत् कृत्स्नान् राजधर्मांश्च सर्वशः ।
ईजे च बहुभिस्सत्रैः क्रतुभिर्भूरिदक्षिणैः ॥
तर्पयामास विप्रांश्च वेदाध्ययनकोविदान् ।
रत्नैरुच्चावचैर्गोभिर् ग्रामैरश्वैर्धनैरपि ॥
वयोरूपेण सम्पन्नः पौरुषेण बलेन च ।
ऐश्वर्येण प्रतापेन विक्रमेण धनेन च ॥
वर्तमानं च सत्येन सर्वधर्मविशारदम् ।
तं महीपं महीपाला राजराजमकुर्वत ॥
वीतशोकभयाबाधास् सुखस्वप्नप्रबोधनाः ।
श्रिया भरतशार्दूल समपश्यन्त भूमिपाः ॥
शन्तनुप्रमुखैर्गुपतं राष्ट्राधिपतिभिर्जगत् ।
नियमैस्सर्ववर्णानां ब्रह्मोत्तरमवर्तत ॥
ब्राह्मणाभिमुखं क्षत्रं क्षत्रियाभिमुखा विशः ।
ब्रह्मक्षत्रानुकूलोमाश्च शूद्राः पर्यचरन् विशः ॥
एवं पशुवराहाणां तथैव मृगपक्षिणाम् ।
शान्तनावथ राज्यस्थे नावर्तत वृथा वधः ॥
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् ।
स एव राजा सर्वेषां भूतानामभवत् पिता ॥
स हस्तिनाम्नि धर्मात्मा विहरन् कुरुनन्दनः ।
तेजसा सूर्यकल्पोऽभूद् वायुना च समो बले ॥
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ।
बभूव राजा सुमतिः प्रजानां सत्यविक्रमः ॥
स वनेषु च रम्येषु शैलप्रस्रवणेषु च ।
चचार मृगयाशीलश् शान्तनुर्वनगोचरः ॥
स मृगान् महिषांश्चैव विनिघ्नन् राजसत्तमः ।
नदीमन्वच्रद्राजा शन्तनुः परया मुदा ॥
गङ्गां त्रिपथगं पुण्यां सिद्धचारणसेविताम् ।
स कदाचिन्महाराज ददर्श परमां स्त्रियम् ।
सा च शन्तनुमभ्यागाद् अल्क्षमीमपकर्षती ॥
जाज्वल्यमानां वपुषा साक्षाच्छ्रियमिवापराम् ।
सर्वानवद्यां युवतीं दिव्याभरणभूषिताम् ॥
सूक्ष्माम्बरधरां साक्षात् पद्मोदरसमप्रभाम् ।
स्नातमात्रामधोवस्त्रां गङ्गातीररुहे वने ॥
प्रकीर्णकेशीं पाणिभ्यां संस्पृशन्तीं शिरोरुहान् ।
तां दृष्ट्वा हृष्टरोमाऽभूद् दर्शनादेव शन्तनुः ॥
पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥
दृष्ट्वैव सा च राजानं विचरन्तं महाद्युतिम् ।
स्नेहादागतसौहार्दा नातृप्यत विलासिनी ॥
गङ्गा कटाक्षेण राजानं प्रेक्षमाणा विलासिनी ।
चञ्चूर्यताग्रतस्तस्य किन्नरीवाप्सरोपमा ॥
तां दृष्ट्वा हृष्टरूपोऽभूद् दर्शनादेव शान्तनुः ।
विलासचेष्टितैस्तस्या हृतचेताश्च योषितः ।
तामुवाच ततो राजा कामिनीं तु मनोरमाम् ॥
शन्तनुः-
पिबन्तीव च नेत्राभ्यां न तृप्तिं दर्शनेन च ॥
देवता किन्नरी वा त्वं गन्धर्वी वा समुध्यमे ।
यक्षी वा मानवी वापि जानीयां कां शुचिस्मिते ॥
याऽसि काऽसि समुध्ये त्वं महिषी मे भवानघे! ।
त्वद्गता हि मम प्राणा वसु यन्मेऽस्ति किञ्चन ॥
वैशम्पायनः
श्रुत्वा तु राज्ञस्सा बाला सस्मितं मृदु वल्गु च ।
यशस्विनी च साऽगच्छच् छान्तनोर्भूतये तदा ॥
सा च दृष्ट्वा नृपश्रेष्ठं चरन्तं तीरमाश्रितम् ।
स्मृत्वा वसूनां समयम् अभ्यगच्छदनिन्दिता ॥
प्रजार्थिनी राजपुत्रं शान्तनुं पृथिवीपतिम् ।
प्रतीपवचनं चापि संस्मृत्यैव स्वयं नृप ॥
कालोऽयमिति मत्वा सा वसूनां शापचोदिता ।
प्रत्युवाच महीपालं ह्लादयन्ती मनो नृप ॥
गङ्गा-
भविष्यामि महीपाल महिषी ते वशानुगा ।
न तु त्वं वा द्वितीयो वा ज्ञातुमिच्छेत्कथञ्चन ॥
यत्तु कुर्यामहं राजन् शुभं वा यदि वाऽशुभम् ।
नाहं वारयितव्याऽस्मि न वक्तव्या तथाऽप्रियम् ॥
एवं वै वर्तमाने तु त्वयि वत्स्यामि पार्थिव ।
वारिता विप्रियं चोक्ता त्यजेयं त्वां नराधिप ॥
एष मे समयो राजन् भज मां त्वं यथेप्सितम् ।
अनुनीताऽस्मि ते पित्रा भर्ता मे त्वं भव प्रभो ॥
वैशम्पायनः-
तथेति राज्ञा साधूक्ता तत्रेैव वरवर्णिनी ।
प्रहर्षमतुलं लेभे श्रुत्वा वाक्यमनिन्दिता ॥
प्रतिज्ञाय तु तत्तस्यास् तथेति मनुजाधिपः ।
रथमारोप्य तां देवीं जगाम स तया सह ॥
सा च शान्तनुमभ्यागात् साक्षाल्लक्ष्मीरिवापरा ।
आसाद्य शान्तनुस्तां च बुभुजे कामवान् सुखी ।
न प्रष्टव्येति मन्वानो न स तां किञ्चिदूचिवान् ॥
स तस्याश्शीलवृत्तेन रूपेण परमेण च ।
सम्यक्चैवोपचारेण सुखमाराधितोऽभवत् ॥
स राजा परमप्रीतः परमस्त्रीप्रलालितः ॥
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी ।
मानुषं विग्रहं कृत्वा श्रीमत् कृत्वा वै वरवर्णिनी ॥
भाग्योपनतकामस्य भार्यावोपस्थिताऽभवत् ।
शन्तनो राजसिंहस्य देवराजसमद्युतेः ॥
सम्भोगस्नेहचातुर्यैर् भावलास्यैर्मनोहरैः ।
राजानं रमयामास यथा रज्येत स प्रभुः ॥
स राजा रतिसक्तोऽभूद् उत्तमस्त्रीगुणैर्वृतः ॥ ॥