वैशम्पायनः-
इक्ष्वाकूणामन्यतमो राजाऽऽसीत् पृथिवीपतिः ।
महाभिषगिति ख्यातस् सत्यवाक् सत्यविक्रमः ॥
सोऽश्वमेधसहस्रेण राजसङ्येन भारत ।
तोषयामास देवेशं स्वर्गं लेभे च सत्प्रभुः ॥
ततः कदाचिद्ब्रह्माणम् उपासाञ्चक्रिरे सुराः ।
तत्र राजर्षयो ह्यासन् स च राजा महाभिषक् ॥
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात् पितामहम् ।
तस्या वासस्समुद्धूतं मारुतेन शशिप्रभम् ॥
ततोऽभवन् सुरगणास् सहसाऽवाङ्मुखास्तदा ।
महाभिषक् तु राजर्षिस् तदैको दृष्टवान्नदीम् ॥
सोऽपध्यातो भगवता ब्रह्मणा तु महाभिषक् ।
उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥
यया हृतमनाश्चासि गङ्गया त्वं सुदुर्मते ।
सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति ॥
यदा ते भविता मन्युस् तदा शापाद्विमोक्ष्यते ॥
स चिन्तयित्वा नृपतिर् नृपान् सर्वास्तपोधनान् ॥
प्रतीपं रोचयामास पितरं भूरिवर्चसम् ।
सा महाभिषजं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् ।
तमेव मनसा ध्यायन्त्युपावृत्ता सरिद्वरा ॥
सा तु विध्वस्तसङ्काशान् कश्मलाभिहतान् दिवि ।
ददर्श पथि गच्छन्ती वसून् देवान् दिवौकसः ।
तथारूपांश्च तान् दृष्ट्वा प्रपच्छ सरितां वरा ॥
गङ्गा-
किमिदं नष्टरूपास्स्थ कच्चित् क्षेमं दिवौकसाम् ।
किमर्थं मनुजा भूमौ निपतिष्यन्ति दुःखिताः ॥
वैशम्पायनः-
तामूचुर्वसवो दीनाश् शप्ता वै सुमहानदि ।
अस्वयङ्कृतया बुद्धया वसिष्ठेन महात्मना ॥
वयं हि सहसा सर्वे प्रच्छन्नमृषिसत्तमम् ।
सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ॥
तेन कोपाद्वयं शप्ता योनौ सम्भवतेति ह ॥
न तच्छक्यमकर्तुं च यदुक्तं ब्रह्मवादिना ।
त्वमस्मान् मानुषी भूत्वा सूष्व पुत्रान् वसून् भुवि ॥
गङ्गा-
न मानुषीणां जठरं प्रविशेम कथञ्चन।
प्रत्युवाच वसडून् गङ्गा तथाऽस्तु समयादिति ॥
मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ॥
वसवः-
प्रतीपस्य सुतो विद्वान् शान्तनुर्नाम धार्मिकः ।
त्वत्क्तृते मानुषे लोके स नः कर्ता भविष्यति ॥
गङ्गा-
ममाप्येवं मतं जातं यथा मां वदथानघाः ।
प्रियं तस्य करिष्यामि वचनं च दिवौकसाम् ॥
वसवः-
जातान् कुमारान् स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि ।
यथा न चिरकालं नो निष्कृतिस्स्यात् त्रिलोकगे ॥
गङ्गा-
एवमेव करिष्यामि पुत्रस्तस्य विधीयताम् ।
नास्य मोघं भवेत् कर्म पुत्रहेतोः कृतं मया ॥
वसवः-
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् ।
तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ॥
न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः ।
अपुत्रस्तु नरव्याघ्रो भविष्यति सुतस्तव ॥
वैशम्पायनः-
एवं च समयं कृत्वा गङ्गया वसवश्च ते ।
जग्मुः प्रहृष्टमनसो यथासङ्कल्पमञ्जसा ॥ ॥