वैशम्पायनः-
अथान्तरिक्षे दुष्यन्तं वागुवाचाशरीरिणी ।
ऋत्विक्पुरोहिताचार्यैर् मन्त्रिभिश्चाभिसंवृतम् ॥
माता भस्त्रा पितुः पुत्रो यस्माज्जातस्स एव सः ।
भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला ॥
सर्वेभ्यो ह्यङ्गमङ्गेभ्यस् साक्षादुत्पद्यते सुतः ।
आत्मा चैष सुतो नाम तेथैव तव पौरव ॥
आहितं ह्यात्मनाऽऽत्मानं परिरक्ष इमं सुतम् ।
अनन्यां त्वं प्रतीक्षस्व मावमंस्थाश्शकुन्तलाम् ॥
स्त्रियः पवित्रमतुलम् एतद्दुष्यन्त धर्मतः ।
मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ।
ततस्सर्वाणि भूतानि व्याजह्रुस्तं समन्ततः ॥
देवाः-
आहितस्त्वत्तनोरेष मावमंस्थाश्शकुन्तलाम् ॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयम् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥
पतिर्जायां प्रविशति स तस्यां जायते पुनः ।
अन्योन्यस्य प्रकृत्यैष मावमंस्थाश्शकुन्तलाम् ॥
जाया जनयते पुत्रम् आत्मनोऽङ्गाद्द्विधा कृतम् ।
तस्माद्भरस्व दुष्यन्त! पुत्रं शाकुन्तलं नृप ॥
सुभूतिरेषा न त्याज्या जीवितं जीवन्तमात्मजम् ।
शाकुन्तलं महात्मानं दुष्यन्त! भर पौरवम् ॥
भर्तव्योऽयं त्वया यस्माद् अस्माकं वचनादपि ।
तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥
भरताद्भारती कीर्तिर् येनेदं भारतं कुलम् ।
अपरे ये च पूर्वे च भारता इति तेऽभवन् ॥
वैशम्पायनः-
एवमुक्त्वा ततो देवा ऋषयश्च तपोधनाः ।
पतिव्रतेति संहृष्टाः पुष्पवृष्टिं ववर्षिरे ॥
तच्छ्रुत्वा पौरवो वाक्यं व्याहृतं वे दिवौकसाम् ।
सिंहासनात् समुत्थाय प्रणम्य च दिवौकसः ।
पुरोहितममात्यांश्च प्रष्टाव्यानब्रवीदिदम् ॥
दुष्यन्तः-
शृण्वन्त्वेतद्भवन्तोऽद्य देवदूतस्य भाषितम् ।
शृण्वन्तु देवतानां च महर्षीणां च भाषितम् ॥
अहमप्येवमेवैनं जानामि सुतमात्मजम् ॥
यद्यहं वचनादेव गृह्णीयामिममात्मजम् ।
भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ॥
वैशम्पायनः-
तां विशोध्य तदा राजा देवैस्सहमहर्षिभिः ।
हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ॥
मूर्ध्नि चैनं समाघ्राय सस्नेहं परिषस्वजे ॥
सभाज्यमानो विप्रैश्च स्तूयमानश्च वन्दिभिः ।
मुदं स परमां लेभे पुत्रस्पर्शनजां नृपः ॥
तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः ।
अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ॥
दुष्यन्तः-
लोकस्यायं परोक्षस्तु सम्बन्धो नौ पुराऽभवत् ।
कृतो लोकसमक्षोऽद्य सम्बन्धो वै पुनः कृतः ॥
तस्मादेतन्मया त्वद्य तन्निमित्तं प्रभाषितम् ॥
शङ्केत वा व लोकोऽथ त्वया भावेऽधिसङ्गतम् ।
तस्मादेतन्मया देवि तच्छुद्ध्यर्थं विचारितम् ॥
ब्राह्मणाः क्षत्रिया वैश्याश् शूद्राश्चैव पृथग्विधाः ।
त्वां देवि! पूजयिष्यन्ति निर्विशङ्कं पतिव्रताम् ॥
पुत्रश्चायं वृतो राज्ये त्वमग्रमहिषी मम ॥
यच्च कोपितयाऽत्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये ।
प्रणयिन्या विशालाक्षि तत्क्षान्तव्यं मया शुभे! ॥
अनृतं वाप्यनिष्टं वा दुरुक्तं वापि दुष्कृतम् ।
त्वयाप्येवं विशालाक्षि क्षन्तव्यं मम दुर्वचः ॥
क्षान्त्या पतिकृते नार्यः पातिव्रत्यं व्रजन्ति ताः ॥
वैशम्पायनः-
तामेवमुक्त्वा राजर्षिस् तामनिन्दितगामिनीम् ।
अन्तःपुरं प्रवेश्यैव दुष्यन्तो महिषीं प्रियाम् ॥
वासोभिरन्नपानैश्च पूजयित्वा तु भारत ।
स मातरमुपस्थाय रथन्तर्यामभाषत ॥
मम पुत्रो वने जातस् तव शोकप्रणाशनः ।
ऋणादद्य विमुक्तोऽहम् अस्मि पौत्रेण ते शुभे ॥
विश्वामित्रसुता चेयं कण्वेन च विवर्धिता ।
स्नुषा तव महाभागे प्रसीदस्व शकुन्तलाम् ।
पुत्रस्य वचनं श्रुत्वा पौत्रं सा परिषस्वजे ॥
पादयोः पतितां तत्र रथन्तर्या शकुन्तलाम् ।
परिष्वज्य च बाहुभ्यां हर्षादश्रुण्यवर्तयत् ॥
उवाच वचनं सत्यं लक्षयंल्लक्षणानि च ॥
तव पुत्रो विशालाक्षि! चक्रवर्ती भविष्यति ।
तव भर्ता विशालाक्षि! त्रैलोक्यविजयी भवेत् ।
दिव्यान् भोगाननुप्राप्ता भव त्वं वरवर्णिनि! ॥
एवमुक्ता रथन्तर्या परं हर्षमवाप सा ॥
शकुन्तलां तदा राजा शास्त्रोक्तेनैव कर्मणा ।
ततोऽग्रमहिषीं कृत्वा सर्वाभरणभूषिताम् ॥
ब्राह्मणेभ्यो धनं दत्त्वा सैनिकानां च भूपतिः ।
दौष्यन्तिं च ततो राजा पुत्रं शाकुन्तलं तदा ।
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ॥
भरते भारमावेश्य कृतकृत्योऽभवन्नृपः ॥
ततो वर्षशतं पूर्णं राज्यं कृत्वा नराधिपः ।
कृत्वा दानानि दुष्यन्तस् स्वर्गलोकमुपेयिवान् ॥
वैशम्पायनः-
दुष्यन्त उपरते राज्यं यथान्यायमवाप सः ।
तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः ।
भास्वरं दिव्यमजितं लोकसन्नादनं महत् ॥
स विजित्य महीपालांश् चकार वशवर्तिनः ॥
स चचार सतां धर्मं प्राप्य चानुत्तमं यशः ।
स राजा चक्रवर्त्यासीत् सार्वभौमः प्रतापवान् ॥
ईजे च बहुभिर्यज्ञैर् यथा शक्रो मरुत्पतिः ।
याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् ॥
श्रीमद्गोविततं नाम वाजिमेधमवाप सः ।
यस्मात् सहस्रं पद्मानां कण्वाय भरतो ददौ ॥
सोऽश्वमेधशतैरीजे यमुनामनु तीरगः ।
त्रिशता च सरस्वत्यां गङ्गामनु शरच्छतैः ॥
दौष्यन्तिर्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः ।
तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥
भरतस्य वरस्त्रीषु पुत्रास्सञ्जज्ञिरे पृथक् ।
नाभ्यनन्दत्तदा राजा नानुरूपा ममेति तान् ॥
ततो महद्भिः क्रतुभिर् ईजानो भरतस्तदा ।
लेभे पुत्रं भरद्वाजाद् भुमन्युं नाम भारत ॥
धर्मे पणिहितात्मानं मत्वा तं पुरुषोत्तमम् ।
ततः पुत्रिणमात्मानं मत्वा स कुरुपुङ्गव! ।
भुमन्युं भरतः प्रीतो यौवराज्येऽभ्यषेचयत् ॥
ततस्तस्य महीन्द्रस्य वितयं पुत्रतोऽभवत् ।
ततस्य वितथो नाम भुमन्योरभवत्तदा ॥
सुहोत्रसुतहोतारौ तथा गर्हतरावुभौ ॥
पुष्करिण्यामुचक्थ्यं वै भुमन्योरभवन्सुताः ।
चत्वारो भारते वंशे सुहोत्रस्तस्य वंशभाक् ॥
तेषां ज्येष्ठस्सुहोत्रस्तु राज्यं प्राप्य महीक्षिताम् ।
राजसूयाश्वमेधाद्यैर् ईजे च बहुभिर्मखैः ।
सुहोत्रः पृथिवीं चेमां बुभुजे सागराम्बराम् ॥
सुहोत्रे तु महीपाले महीं धर्मेण शासति ।
चैत्ययूपाङ्किता भूमिर् बभूवाथ सहस्रशः ॥
पूर्णा हस्तिगवां चैव बभौ रत्नसमाकुला ॥
सा ममज्जेव पृथिवी भूरिभारावपीडिता ।
हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम् ।
समृद्धसस्यसम्पन्ना सहदेवा व्यरोचत ॥
ऐक्ष्वाक्यां जनयामास सुहोत्रस्त्रीन् सुतान् नृप ।
अजमीढं सुदामीढं पुरुमीढं च भारत ॥
अजमीढो वरस्तेषां तस्मिन् वंशः प्रतिष्ठितः ।
षट् पुत्रान् सोप्यजनयत् तिसृषु स्त्रीषु भारत ॥
ऋक्षं धूमिन्यथो नीली दुष्यन्तपरमेष्ठिनौ ।
केशिन्यजनयज्जह्नुम् उभौ च जनरूषिणौ ॥
विदुस्संवरणं शूरम् ऋक्षाद्राथन्तरीसुतम् ।
तथेमे सर्वपञ्चाला दुष्यन्तपरमेष्ठिनोः ॥
अन्वयाः कुशिका राजञ्जन्होरमिततेजसः ॥
जनरूषणयोर्ज्येष्ठम् ऋक्षमाहुर्जनाधिपम् ।
ऋक्षात्संवरणो जज्ञे राजन् वंशकरस्तव ॥
आर्क्षे संवरणे राज्यं प्रशासति महात्मनि ।
संक्षयस्सुमहानासीत् प्रजानामिति शुश्रुमः ॥
व्यशीर्यत ततो राष्ट्रं दुर्भिक्षैरावृतं तथा ।
क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च महाबलैः ॥
अभ्यापतन् भारताश्चैव सपत्नानां बलानि च ।
चालयन्तो धृतिं भीमां जनयन्तो भृशं भयम् ॥
अभ्ययुस्तं च पाञ्चल्यो विवृण्वन्तो बलैर्महीम् ।
अक्षौहिणीभिर्दशभिस् तदा तं तरसाऽजयन् ॥
ततस्सदारस्सामात्यस् सपुत्रस्ससुहृज्जनः ।
राजा संवरणस्तस्मात् पलायत महाभयात् ॥
ते प्रतीचीं पराजित्य प्रसन्ना भारता दिशम् ।
सिन्धोर्नदस्य महतो गुहायां न्यवसंस्तदा ॥
शिवे विषयपर्यन्ते पर्वतस्य समीपतः ।
तत्रावसन् प्रतिच्छन्ना भारताच्च भयाच्चिरम् ॥
तेषां निवसतां तत्र सहस्रं परिवत्सरान् ।
अागच्छद्भगवांस्तत्र वसिष्ठो भरतान्प्रति ॥
तमागतं प्रयत्नेन अभ्युत्थायाभिवाद्य च ।
अर्घ्यमस्यानयन् प्रीता अजमीढपुरोगमाः ।
निवेद्य सर्वमृषये सत्कृत्यैनमुपासत ॥
ततस्संवरणश्चेष्टं राजा वव्रे स्वयं तदा ।
पुरोहितो भवान्नोऽस्तु राज्याय प्रयतेमहि ॥
एवमस्त्विति तं विप्रो भारतं प्रत्यभाषत ।
तमभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् ॥
विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ।
स पुरं भारतस्सर्षिर् अध्यतिष्टत् पुरातनम् ॥
आजमीढो महायज्ञैर् बहुभिर्भूरिदक्षिणैः ॥
भारतः पृथिवीं प्राप्य पुनरीजे महाबलः ।
ततस्संवरणात् सौरी तपती सुषुवे कुरुम् ॥
राजत्वे तं प्रजास्सर्वा धर्मज्ञ इति वव्रिरे ।
महिम्ना तस्य कुरवो लेभिरे प्रत्ययं भृशम् ॥
तस्य नाम्ना च विख्यातम् अभूत्तत् कुरुजाङ्गलं ।
कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ॥
अश्ववन्तमभीवन्तं तथा चैत्ररथं मुनिम् ।
जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुम ॥
पञ्चैतांश्च महीपुत्रान् व्यजायत मनस्विनी ॥
अविक्षितः परिक्षित्तु शबलाश्वश्च वीर्यवान् ।
आभिराजो विराजश्च बलाशश्च महाबलः ।
चित्रश्रवा धर्मकरो दित्वाष्टिश्चाष्टम स्स्मृतः ॥
न तेषामन्वयः ख्यातास् सर्वेषां नामतो गुणैः ॥
जनमेजयादयस्सप्त तथैवान्ये महारथाः ।
परीक्षितोऽभवन्पुत्रास् सप्त धर्मार्थकोविदाः ॥
कक्षसेनोग्रसेनौ तु चित्रसेनस्तथा शिशुः ।
इन्द्रसेनस्सुषेणश्च भीमसेनश्च नामतः ।
जनमेजयस्य तनयास् तथा चाष्टौ महाबलाः ॥
धृतराष्ट्रश्च धर्मात्मा तथोभौ पाण्डुबाह्लीकौ ।
निषधश्च महातेजास् तथा जाम्बूनदो बली ॥
कुण्डोदरः पदातिश्च वसातिश्चाष्टमस्स्मृतः ।
सर्वे धर्मार्थकुशलास् सर्वभूतहिते रताः ॥
धृतराष्ट्रोऽथ राजासीत् तस्य पुत्रोऽथ शुण्डिकः ।
हस्ती विकत्थनः क्रोधः कुण्डलश्चापि पञ्चमः ॥
पर्यश्रवसमिन्द्राभं शराभं वीजिनां युधि ।
अधिराजात्मजानाहुस् तथा शक्रपुरञ्जयौ ॥
ततो धर्मभृतां श्रेष्ठः पर्यश्रवस उच्यते ।
ऋषिं पुण्यकृतां श्रेष्ठं तमेव परमं विदुः ॥
भीमसेनान्महेष्वासः प्रतीपस्समपद्यत ।
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ ॥
देवापिश्शन्तनुश्चैव बाह्लीकश्च महायशाः ॥
देवापिस्तु प्रवव्राज तेषां धर्महितेप्सया ।
शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः ॥
भरतस्यान्वये राजन् सत्त्ववन्तो महारथाः ।
बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ॥
एवंविधाश्चाप्यपरे देवकल्पा महारथाः ।
अन्ववाये महाराज ऐलवंशविवर्धनाः ॥
गङ्गातीरं समागम्य दीक्षितो जनमेजय ।
अश्वमेधसहस्राणि वाजपेयशतानि च ॥
पुनरीजे महायज्ञैस् समाप्तवरदक्षिणैः ।
अग्निष्टोमातिरात्राणाम् उक्थानां सोमवत्पुनः ॥
वाजपेयेष्टिसत्राणां सहस्रैश्च सुसम्भृतैः ।
इष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान् धनैः ।
पुनस्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥
जम्बूनदस्य शुद्धस्य कनकस्य महायशाः ।
यस्य यूपाश्शतव्यामाः परिणाहेऽथ काञ्चनाः ॥
सहस्रव्याममुद्वृद्धास् सेन्द्रैर्देवैस्समुच्छ्रिताः ।
स्वलङ्कृता भ्राजमानास् सर्वरत्नैर्मनोरमैः ॥
हिरण्यं द्विरदानश्वान् महिषोष्ट्रगजाविकम् ।
दासीदासं धनं धान्यं सवत्सां गां पयस्विनीम् ॥
भूमिं यूपसहस्राङ्कां कण्वाय बहुदक्षिणाम् ।
बहूनां ब्रह्मकल्पानां दक्षिाणाममितां ददौ ॥
ग्रामान् गृहाणि क्षेत्राणि कोटिशश्शतशस्तथा ॥
यस्मात्तु भारती कीर्तिर् येनेदं भारतं कुलम् ।
भरतस्यान्वये जाता देवकल्पा महारथाः ॥
बहवो ब्रह्मकल्पाश्च बहवो राजसत्तमाः ।
तेषामपरिमेयानि नामधेयानि सर्वशः ॥
तेषां कुले यथा मुख्यान् कीर्तयिष्यामि भारत ।
महाभागान् देवकल्पान् सत्यार्जवपरायणान् ॥ ॥