शकुन्तला-
राजन्सर्षपमात्राणि मय्यघानि प्रपश्यसि ।
आत्मनो मेरुमात्राणि पश्यन्नपि न पश्यसि ॥
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् ।
ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मतः ॥
क्षितौ चरसि राजंस्त्वम् अन्तरिक्षे चराम्यहम् ।
आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च ।
भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥
पुरा नरवरः पुत्र उर्वश्यां जनितस्तदा ।
आयुर्नाम महाराज तव पूर्वपितामहः ॥
महर्षयश्च बहवः क्षत्रियाश्च परन्तपाः ।
अप्सरस्सु मृगीणां च मातृदोषो न विद्यते ॥
विरूपो यावदादर्शे नात्मनो वीक्षते मुखम् ।
मन्यते तावदात्मानम् अन्येभ्यो रूपवत्तरम् ॥
यदा तु मुखमादर्शे विरूपं सोऽभिवीक्षते ।
तदा ह्रीमांस्तु जानीयाद् अन्तरं नेतरं जनम् ॥
अतीव रूपसम्पन्नो न किं चिदवमन्यते ।
अतीव जल्पन् दुर्वाचो भवतीह विभेदकः ॥
सम्यग्वा विप्रवादोऽयं सम्प्रवक्ष्यामि तेऽनघ ।
निदर्शनार्थं न द्वेषात् तच्छ्रुत्वा क्षन्तुमर्हसि ॥
पांसुपातेन हृष्यन्ति कुञ्जरा मदशालिनः ।
तथा परिवदन्नन्यान् हृष्टो भवति दुर्जनः ॥
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव ।
नास्तिकोऽप्युद्विजत्येव जनः किं पुनरास्तिकः ॥
स्वयमुत्पाद्य पुत्रं वै सदृशं योऽवमन्यते ।
तस्य देवाश्श्रियं घ्नन्ति तत्रैनं कलिराविशेत् ॥
अभव्ये ह्यनृतेऽशुद्धे नास्तिके पापकर्मणि ।
दुराचारे कलिर्ह्याशु न कलिर्धर्मचारिषु ॥
मूर्खोऽपि जल्पतां पुंसां श्रुत्वा तेषां शुभाशुभम् ।
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ॥
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचश्शुभाशुभाः ।
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसि ॥
आत्मनो दुष्टभावत्वं ज्ञानी नीचोऽप्रसन्नधीः ।
परेषामपि जानाति स्वधर्मसदृशं गुणैः ॥
दह्यमानास्तु तीव्रेण नीचाः परयशोऽग्निना ।
अशक्तास्तां गतिं गन्तुम् अतो निन्दां प्रकुर्वते ॥
अन्यान् परिवदन् साधुर् यथा हि परितप्यते ।
तथा परिवदन्नन्यं हृष्टो भवति दुर्जनः ॥
अपास्य दूरन्तो मूर्खा भवन्ति स्म विशेषतः ।
नापवादरतास्सन्तो भवन्ति स्म विशेषतः ॥
अभिवाद्य च वृद्धान्हि साधुर्गच्छति निर्वृतिम् ।
एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः ।
ये तु वाच्याः परैस्सन्तः परानाहुस्तथाविधान् ।
अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते ॥
यत्र दुर्जन इत्याह सज्जनं दुर्जनास्स्वयम् ।
दारुणाल्लोकसङ्क्लेशाद् दुःखमाप्नोत्यसंशयम् ॥
कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् ॥
उत्तमं सर्वधर्माणां मनसः प्रीतिवर्धनम् ।
स्वपत्नीप्रभवाल्ँलब्ध्वा क्रीतान् सर्वविवर्जितान् ।
कृतानन्यैरथोत्पन्नान् पुत्रान् वै मनुरब्रवीत् ॥
तत्र षड्वन्धुदायादाः षडदायादबान्धवाः ।
धर्माकृतिवहा नॄणां मनसः प्रीतिवर्धनाः ॥
त्रायन्ति जनकाज्जाताः पुत्रा धर्मप्लवाः पितॄन् ॥
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि ।
तस्मात् पुत्रं च सत्यं च पालयस्व महीपते ॥
उभयं पालय ह्येतन्नानृतं वक्तुमर्हसि ।
आत्मानं सत्यधर्मौ च पालयेथा महीपते ।
नरेन्द्रसिंह कपटं न हि वोढुं त्वमर्हसि ॥
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः ।
वरः क्रतुशतात्पुत्रस् सत्यं पुत्रशताद्वरम् ॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् ।
सत्यं च वदतो राजन् समं वा स्यान्न वा समम् ॥
नास्ति सत्यात् परो धर्मो न सत्याद्विद्यते परम् ।
न हि तीव्रतरं पापम् अनृतादिह विद्यते ॥
राजन् सत्यं परं ब्रह्म सत्यं च समयः परः ।
मा त्याक्षीस्समयं राजन् सत्यं सङ्गरमस्तु ते ॥
यः पापं न विजानाति कर्म कृत्वा नराधिप ।
न हि तादृक्परं पापम् अनृतादिह विद्यते ॥
यस्य ते हृदयं वेद सत्यस्यैवानृतस्य च ।
कल्याणं साक्षिणं तस्मात् कर्तुमर्हसि धर्मतः ॥
यो न कामान्न च क्रोधान्न द्रोहादभिवर्तते ।
अमित्रं वापि मित्रं वा स वा उत्तमपूरुषः ॥
अनृते चेत् प्रसङ्गस्ते श्रद्दधासि न चेत् स्वयम् ।
आत्मना हतमिच्छामि तादृशो नास्ति सङ्गतं ॥
पुत्रत्वे शङ्कमानस्य बुद्धिर्ज्ञापकदीपना ॥
गतिस्स्वरस्स्मृतिस्सत्वं शीलविज्ञानविक्रमाः ।
धृष्णुःप्रकृतिभावौ च आवर्ता रोमराजयः ।
समा यस्य यतस्स्युस्ते तस्य पुत्रो न संशयः ॥
सादृश्येनोद्धृतं बिम्बं तव देहाद्विशांपते ।
तातेति भाषमाणं वै मा स्म राजन् वृथा कृथाः ॥
ऋतेऽपि गर्दभीक्षीरात् पयः पास्यति मे सुतः ॥
ऋतेऽपि त्वां तु दुष्यन्त! शैलराजावतंसिकाम् ।
चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥
शकुन्तले! तव सुतश् चक्रवर्ती भविष्यति ।
एवमुक्तो महेन्द्रेण भविष्यति न चान्यथा ॥
साक्षित्वे बहवोऽप्युक्ता देवदूतादयो मताः ।
न ब्रुवन्ति तथा सत्यम् उताहोऽप्यनृतं किल ॥
असाक्षिणी मन्दभाग्या गमिष्यामि यथागतम् ॥
वैशम्पायनः-
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला ।
तस्याः क्रोधसमुत्थोग्निस् सधूमो मूर्ध्न्यदृश्यत ॥
सन्नियम्यात्मनोऽङ्गेषु ततः क्रोधाग्निमात्मजम् ।
प्रस्थितैवानवद्याङ्गी सह पुत्रेण वै वनम् ॥ ॥