वैशम्पायनः-
गतान् मुनिगणान् दृष्ट्वा पुत्रं सङ्गृह्य पाणिना ।
मातापितृभ्यां विरहाद् यथा शोचन्ति दारकाः ॥
तथा शोकपरीताङ्गी धृतिमालम्ब्य दुःखिता ।
पुत्रणैव सहायेन सा जगाम शनैश्शनैः ॥
अदृष्टपूर्वान् पश्यन् वै राजमार्गेण पौरवः ।
हर्म्यप्रसादचैत्यांश्च सभा दिव्या विचित्रिताः ।
कौतूहलसमाविष्टो दृष्ट्वा विस्मयमागतः ॥
सर्वे ब्रुवन्ति तां दृष्ट्वा पद्महीनामिव श्रियम् ।
गतेन हंसीसदृशीं कोकिलेन स्वरे समाम् ॥
मुखेन चन्द्रसदृशीं श्रिया पद्मालयासमाम् ।
स्मितेन कुन्दसदृशीं पद्मगर्भसमत्वचम् ॥
पद्मपत्रविशालाक्षीं तप्तजाम्बूनदप्रभाम् ।
करान्तमितमध्यां तां सुकेशीं संहतस्तनीम् ॥
जघनं सुविशालं वै ऊरू करिकरोपमौ ।
रक्ततुङ्गतलौ पादौ धरण्यां सुप्रतिष्ठितौ ॥
एवं रूपसमायुक्ता स्वर्गलोकादिहागता ।
इति स्म सर्वेऽमन्यन्त दुष्यन्तनगरे जनाः ॥
पुनः पुनरवोचंस्ते शाकुन्तलगुणानपि ॥
सिंहेक्षणस्सिंहदंष्ट्रस् सिंहस्कन्धो महाभुजः ।
सिंहोरस्कस्सिंहबलः सिंहविक्रान्तगाम्ययम् ॥
पृथ्वंसः पृथुवक्षाश्च छत्राकारशिरा महान् ।
पाणिपादतले रक्तो रक्तास्यो दुन्दुभिस्वनः ।
राजलक्षणयुक्तश्च राजश्रीश्चास्य लक्ष्यते ॥
आकारेण च रूपेण शरीरेणापि तेजसा ।
दुष्यन्तेन समो ह्येष कस्य पुत्रो भविष्यति ॥
एवं ब्रुवन्तस्ते सर्वे प्रशशंसुस्सहस्रशः ॥
युक्तिवादानवोचन्त सर्वाः प्राणभृतस्स्त्रियः ।
बान्धवा इव सस्नेहा अनुजग्मुश्शकुन्तलाम् ।
पौराणां तद्वचश्श्रुत्वा तूष्णींभूता शकुन्तला ॥
वेश्मद्वारं समासाद्य विह्वलन्ती नृपात्मजा ।
चिन्तयामास सहसा कार्यगौरवकारणात् ॥
लज्जया च परीताङ्गी राजन् राजसमक्षतः ।
अघृणा किं नु वक्ष्यामि दुष्यन्तं मम कारणात् ॥
एवमुक्त्वा तु कृपणा चिन्तयन्ती शकुन्तला ।
अभिसृत्य च राजानं वेदिता सा प्रवेशिता ॥
सह तेन कुमारेण तरुणादित्यवर्चसा ॥
सिंहासनस्थं राजानं महेन्द्रसदृशद्युतिम् ।
शकुन्तला नतशिराः परं हर्षमवाप्य च ।
पूजयित्वा यथान्यायं अब्रवीत्तं शकुन्तला ॥
अभिवादय राजानं पितरं ते दृढव्रतम् ।
एवमुक्त्वा तु पुत्रं सा लज्जानतमुखी स्थिता ॥
स्तम्भमालिङ्ग्य राजानं प्रसीदस्वेत्युवाच सा ॥
शाकुन्तलोऽपि राजानम् अभिवाद्य कृताञ्जलिः ।
हर्षेणोत्फुल्लनयनो राजानं चान्ववैक्षत ।
दुष्यन्तो धर्मबुद्ध्या तु चिन्तयन्नेव सोऽब्रवीत् ॥
दुष्यन्तः-
किमागमनकार्यं ते ब्रूहि त्वं वरवर्णिनि ।
करिष्यामि न सन्देहः सपुत्राया विशेषतः ॥
शकुन्तला-
प्रसीदस्व महाराज वक्ष्यामि पुरुषोत्तम ।
एष पुत्रो हि ते राजन् मय्युत्पन्नः परन्तप ॥
तस्मात्पुत्रस्त्वया राजन् यौवराज्येऽभिषिच्यताम् ॥
यथोक्तमाश्रमे तस्मिन् वर्तस्व पुरुषोत्तम ।
मया समागमे पूर्वं कृतस्स समयस्त्वया ।
तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति ॥
वैशम्पायनः-
तस्योपभोगसक्तस्य स्त्रीषु चान्यासु भारत ।
शकुन्तला सपुत्रा च मनस्यन्तरधीयत ॥
सोऽथ श्रुत्वा तु तद्वाक्यं तस्या राजा स्मरन्नपि ।
अब्रवीन्न स्मरामीति त्वया भद्रे समागमम् ॥
मैथुनं च वृथा नाहं गच्छेयमिति मे मतिः ।
नाभिजानामि कल्याणि त्वया सह समागमम् ॥
धर्मार्थकामसम्बन्धं न स्मरामि त्वया सह ।
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥
सैवमुक्ता वरारोहा व्रीडितैव मनस्विनी ।
विसञ्ज्ञैव च दुःखेन तस्थौ विगतचेतना ॥
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसम्पुटा ।
निर्दहन्तीव नेत्राभ्यां तिर्यग्राजानमैक्षत ॥
आकारं गूहमाना च मन्युना च समीरितम् ।
तपसा सम्भृतं तेजो धारयामास वै तदा ॥
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता ।
भर्तारमपि सम्प्रेक्ष्य यथान्यायं वचोऽब्रवीत् ॥
जानन्नपि महाराज कस्मादेवं प्रभाषसे ।
न जानामीति निश्शङ्कं यथान्यः प्राकृतस्तथा ॥
तस्य ते हृदयं वेद सत्यस्यैवानृतस्य च ।
कल्याणं बत साक्षीणाम् आत्मानमवमन्यसे ॥
योऽन्यथा सन्तमात्मानम् अन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥
एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणम् ।
यो वेदिता कर्मणः पापकस्य तस्यान्तिके त्वं वृजिनं करोषि ॥
धर्म एव हि साधूनां सर्वेषां हितकारणम् ।
नित्यं मिथ्याविहीनानां न च दुःखावहो भवेत् ॥
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति ।
देवाश्चैनं विदन्त्येव भूताश्चैव तथापरे ॥
आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् ।
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥
न तुष्यति च यस्यैष पुरुषस्य दुरात्मनः ।
तं यमः पापकर्माणं निर्भर्त्सयति दुष्कृतम् ॥
योऽवमत्यात्मनात्मानम् अन्यथा प्रतिपद्यते ।
न तस्य देवाश्श्रेयांसो यस्यात्मापि न कारणम् ॥
स्वयं प्राप्तेति मामेवं मा वमंस्था पतिव्रताम् ।
अर्चार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् ॥
किमर्थं मां प्राकृतवद् उपप्रेक्षसि संसदि ।
सा खल्वहमिदं शून्यं करोमि न शृणोषि मे ॥
यदि मे याचमानाया वचनं न करिष्यसि ।
दुष्यन्त! शतधा त्वद्य मूर्धा ते विफलिष्यति ॥
जायां पतिस्सम्प्रविश्य यदस्यां जायते पुनः ।
जायाया इति जायात्वं यस्तस्यां जायते ततः॥
यदागमवतः पुंसो यदपत्यं प्रजायते ।
तत्तारयति सन्तत्या पूर्वप्रेतान् पितामहान् ॥
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः ।
तस्मात्पुत्र इति प्रोक्तः पूर्वमेव स्वयम्भुवा ॥
पुत्रेण लोकाञ्जयति पौत्रेणनन्त्यमश्नुते ।
अथ पौत्रस्य पुत्रेण मोदन्ते प्रपितामहाः ॥
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती ।
सा भार्या या पतिप्राणा सा भार्या याऽतिथिप्रिया ॥
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमस्सखा ।
भार्या मूलं त्रिवर्गस्य यस्सभार्यस्स बन्धुमान् ॥
भार्यावन्तः क्रियावन्तस् सभार्या गृहमेधिनः ।
भार्यावन्तः प्रमोदन्ते भार्यावन्तश्श्रिया वृताः ॥
सहायाः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः ।
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥
कान्तारेष्वपि विश्रामो जनस्याध्वनिकस्य वै ।
यस्सदारस्स विश्वास्यस् तस्माद्दाराः परा गतिः ॥
संसरन्तमभिप्रेतं विषमेष्वेकपातिनम् ।
भार्यैबान्वेति भर्तारं सततं वै पतिव्रता ॥
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते ।
पूर्वप्रेतं तु भर्तारं पश्चात्साप्यनुगच्छति ॥
एतस्मात्कारणाद्राजन् पाणिग्रहणमिष्यते ।
यदाप्नोति पतिर्भार्याम् इह लोके परत्र च ॥
पोषणार्थं शरीरस्य पाथेयं स्वर्गतस्य वै ।
आत्माऽऽत्मनैव जनितः पुत्र इत्युच्यते बुधैः ॥
तस्माद्भार्यां पतिः पश्येन्मातृवत्पुत्रमातरम् ।
अन्तरात्मैव सर्वस्य पुत्रनाम्नोच्यते सदा ॥
गती रूपं च चेष्टा च आवर्ता लक्षणानि च ।
पितॄणां यानि दृश्यन्ते पुत्राणां सन्ति तानिच ॥
तेषां शीलगुणाचारास् तत्सम्पर्काच्छुभाशुभाः ॥
भार्यायां जनितं पुत्रम् आदर्शे स्वमिवाननम् ।
जनितं मोदते प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत् ॥
पतिव्रतारूपधरा परबीजस्य सङ्ग्रहात् ।
कुलं विनाश्य भर्तॄणां नरकं याति दारुणम् ॥
परेण जनिताः पुत्रास् स्वभार्यायां यथेष्टतः ।
मम पुत्रा इति मतास् ते पुत्रा अपि शत्रवः ।
द्विषन्ति प्रतिकुर्वन्ति न ते वचनकारिणः ॥
न द्वेष्टीति पिता पुत्रं तस्मादात्मा सुतो भवेत् ॥
दह्यमाना मनोदुःखैर् व्याधिभिस्तुमुलैर्जनाः ।
स्वेषु दारेषु तुष्यन्ति घर्मार्तास्सलिलेष्विव ॥
विप्रवासकृशा दीना नरा मलिनवाससः ।
तेऽपि स्वदारांस्तुष्यन्ति दरिद्रा धनलाभवत् ॥
अप्रियोक्तोऽपि दाराणां न ब्रूयादप्रियं वचः ।
रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च ॥
आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजाः ।
शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन् पितॄन् ॥
आत्मनो जन्मनः क्षेत्रं पुण्या रामास्सनातनाः ।
ऋषीणामपि का शक्तिस् स्रष्टुं रामामृते प्रजाः ॥
देवानामपि का शक्तिः वेत्तुं सम्भवमात्मनः ।
पण्डितस्यापि लोकेषु स्त्रीषु सृष्टिः प्रतिष्ठिता ।
ऋषिभ्यो ह्यृषयः केचिच् चण्डालीष्वपि जज्ञिरे ॥
परिसृत्य यदा सूनुर् धरणीरेणुकुण्ठितः ।
पितुरालिङ्गतेऽङ्गानि किमिवाभ्यधिकं ततः ॥
स त्वं सूनुमभिप्राप्तं साभिलाषं मनस्विनम् ।
प्रेक्षमाणं कटाक्षेण किमर्थमवमन्यसे ॥
अण्डानि बिभ्रति स्वानि न त्यजन्ति पिपीलिकाः ।
किं पुनस्त्वं न मन्येथास् सर्वथा पुत्रमीदृशम् ॥
न भरेथाः कथं नु त्वम् अज्ञातं स्वं स्वमात्मजम् ।
ममाण्डानीति वर्धन्ते कोकिलानिव वायसाः ॥
किं पुनस्त्वं न मन्येथास् सर्वज्ञः पुत्रमीदृशम् ॥
मलयाच्चन्दनं जातम् अतिशीतं वदन्ति वै ।
शिशोरालिङ्ग्यमानस्य चन्दनादधिकं भवेत् ॥
न वाससां न रामाणां नापां स्पर्शस्तथाविधः ।
शिशुनालिङ्ग्यमानस्य स्पर्शस्सूनोर्यथा सुखः ।
पुत्रस्पर्शात्सुखतरस् स्पर्शो लोके न विद्यते ॥
स्पृशतु त्वा समालिङ्ग्य पुत्रोऽयं प्रियदर्शनः ॥
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ।
गुरुर्गरीयसां श्रेष्ठः पुत्रस्स्पर्शवतां वरः ॥
त्रिषु वर्षेषु पूर्णेषु प्रजातोऽयमरिन्दमः ।
कुमारो राजशार्दूल तव शोकप्रणाशनः ॥
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः ।
राजसूयादिकानन्यान् क्रतूनमिततेजसः॥
इति गौरन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ।
शकुन्तला-
हन्त स्वमङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः ।
मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ॥
वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः ।
जातकर्मणि पुत्राणां तवापि विदितं ध्रुवम् ॥
अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे ।
आत्मा वै पुत्रनामासि स जीव शरदश्शतम् ॥
उपजिघ्रन्ति पितरो मन्त्रेणानेन मूर्धनि ॥
पोषो हि त्वदधीनऽसौ सन्तानमपि चाक्षयम् ।
तस्मात्त्वं जीव मे पुत्र स सुखीव शरदां शतम् ॥
एको भूत्वा द्विधा भूत इति वादः प्रदृश्यते ।
त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः ॥
सरसीवामलेऽऽत्मानं द्वितीयं पश्य ते सुतम् ।
सरसीवामले सोमं प्रेक्षात्मानं त्वमात्मना ॥
यथावाऽऽहवनीयोऽग्निर् गार्हपत्यात्प्रणीयते ।
एवं त्वत्तः प्रसूतोऽयं त्वमेकस्सन् द्विधाकृतः ॥
मृगापकृष्टेन हि वै मृगयां परिधावता ।
अहमासादिता राजन् कुमारी पितुराश्रमे ॥
उर्वशी पूर्वचित्तिश्च सजन्या या च मेनका ।
विश्वाची च घृताची च षडेवाप्सरसां वराः ॥
तासां वै मेनका नाम ब्रह्मयोनिर्वराप्सराः ।
दिवस्सम्प्राप्य जगतीं विश्वामित्रादजीजनत् ॥
श्रीमानृषिर्धर्मपरो वैश्वानर इवापरः ।
ब्रह्मयोनिः कुशो नाम विश्वामित्रपितामहः ॥
कुशस्य पुत्रो बलवान् कुशनाभश्च धार्मिकः ।
गाधिस्तस्य सुतो राजन् विश्वामित्रस्तु गाधिजः ॥
एवंविधः पिता राजन् मेनका जननी वरा ।
सा मां हिमवतः पृष्ठे सुषुवे मेनकाऽप्सराः ।
परित्यज्य च मां याता परात्मजमिवासती ॥
पक्षिणः पुण्यवन्तस्ते सहिता धर्मतस्तदा ।
पक्षैस्तैरभिगुप्ता च तस्मादस्मि शकुन्तला ॥
ततोऽहमृषिणा दृष्टा काश्यपेन महात्मना ॥
जलार्थमग्निहोत्रस्य गतं दृष्ट्वा तु पक्षिणः ।
न्यासभूतामिव मुनेः प्रददुर्मां दयावतः ।
स माऽरणिमिवादाय स्वमाश्रममुपागमत् ॥
सा वै सम्भाविता राजन् अनुक्रोशान्महर्षिणा ।
तेनैव स्वसुतेवाहं राजन् वै परमर्षिणा ॥
विश्वामित्रसुता चाहं वर्धिता मुनिना नृप ।
यौवने वर्तमानां च दृष्टवानसि मां नृप ॥
आश्रमे पर्णशालायां कुमारीं विजने वने ।
धात्रा प्रचोदितां शून्ये पित्रा विरहितां मिथः ॥
वाग्भिस्त्वं सूनृताभिर्माम् अपत्यार्थमचूचुदः ।
अकार्षीस्त्वाश्रमे वासं धर्मकामार्थनिश्चितम् ॥
गान्धर्वेण विवाहेन विधिना पाणिमग्रहीः ॥
साऽहं कुलं च शीलं च सत्यवादित्वमात्मनः ।
स्वधर्मं च पुरस्कृत्य त्वामद्य शरणं गता ।
तस्मान्नर्हसि संश्रुत्य तथेति वितथं वचः ॥
स्वधर्मं पृष्ठतः कृत्वा परित्यक्तुमुपस्थिताम् ।
त्वन्नाथां लोकनाथस्त्वं नार्हसि त्वमनागसम् ॥
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जातिषु ।
यदहं बान्धवैस्त्यक्ता बाल्ये सम्प्रति यत्वया ॥
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् ।
इमं बालं तु सन्त्युक्तं नार्हस्यात्मानमात्मना ॥
दुष्यन्तः-
न पुत्रमभिजानामि त्वयि जातं शकुन्तले ।
असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः ॥
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे ।
विशेषतो मत्सकाशे दुष्टतापसि! गम्यताम् ॥
क्व महर्षिस्स चैवोग्रः क्वाप्सरास्सा च मेनका ।
क्व च त्वमेवं कृपणा तापसीवेषधारिणी ॥
अतिकायश्च पुत्रस्ते बालोऽतिबलवानयम् ।
कथमल्पेन कालेन सालस्कन्ध इवोद्गतः ॥
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे ।
यदृच्छया कामरागाज् जाता मेनकया ह्यसि ॥
सर्वमेव परोक्षं मे यत्त्वं वदसि तापसि ।
सर्वा वामास्स्त्रियो लोके सर्वाः कामपरायणाः ॥
सर्वास्स्त्रियः परवशास् सर्वाः क्रोधसमाकुलाः ।
असत्योक्तास्स्त्रियस्सर्वा न कण्वं वक्तुमर्हसि ॥
मेनका निरनुक्रोशा वर्धकी जननी तव ।
यया हिमवतः पादे निर्माल्यवदुपेक्षिता ॥
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव ।
विश्वामित्रो ब्राह्मखेलो लुब्धः कामपरायणः ॥
मेनकाऽप्सरसां श्रेष्ठा महर्षिश्चापि ते पिता ।
तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि ॥
जातिश्चापि निकृष्टा ते कुलीनेति विकत्थसे ।
जनयित्वा त्वमुत्सृष्टा कोकिलेन परैर्भृता ॥
अरिष्टैरिव दुर्बद्धिः कण्वो वर्धयिता पिता ।
अश्रद्धेयमिदं वाक्यं यत्त्वं जल्पसि तापसि ॥
ब्रुवन्ती राजसान्निध्ये गम्यतां यत्र वेच्छसि ॥
सुवर्णमणिमुक्तानि सर्वाण्याभरणानि च ।
यद्यदिच्छसि भोगार्थं तापसि! प्रतिगृह्यताम् ॥
नाहं त्वां द्रष्टुमिच्छामि यथेष्टं गम्यतामितः ॥ ॥