वैशम्पायनः-
प्रतिज्ञाय च दुष्यन्ते प्रतियाते शकुन्तलाम् ।
गर्भश्च ववृधे तस्यां राजपुत्र्यां महात्मनः ॥
शकुन्तला चिन्तयन्ती राजानं कार्यगौरवात् ।
दिवारात्रमनिद्रैव स्नानभोजनवर्जिता ॥
राजप्रेषणिका विप्राश् चतुरङ्गबलैस्सह ।
अद्य श्वो वा परश्वो वा समायान्तीति निश्चिता ॥
दिवसान्पक्षानृतून्मासान् अयनानि च सर्वशः ।
गण्यमानेषु वर्षेषु व्यतीयुस्त्रीणि भारत ॥
त्रिषु वर्षेषु पूर्णेषु ऋषेर्वचनगौरवात् ।
ऋषिपत्न्यस्सुबहवो हेतुमद्वाक्यमब्रुवन् ॥
ऋषिपत्न्यः-
शृणु भद्रे लोकवृत्तं श्रुत्वा यद्रोचते तव ।
तत्कुरुष्व हितं देवि नावमान्यं गुरोर्वचः ॥
देवानां दैवतं विष्णुर् विप्राणामग्निरेव च ।
नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः ॥
वैशम्पायनः-
सूतिकालं प्रसूवेति भगवांस्ते पिताऽब्रवीत् ।
करिष्यामीति कर्तव्यं तदा ते सुकृतं भवेत् ।
पत्नीनां वचनं श्रुत्वा साधु साध्वित्यचिन्तयत् ॥
गर्भं सुषाव वामोरूः कुमारममितौजसम् ॥
त्रिषु वर्षेषु पूर्णेषु प्राजायत शकुन्तला ।
रूपौदार्यगुणोपेतं दौष्यन्तिं जनमेजय ॥
तस्मै तदान्तरिक्षात्तु पुष्पवृष्टिः पपात ह ।
देवदुन्दुभयो नेदुर् ननृतुश्चाप्सरोगणाः ।
गायन्तो मधुरं तत्र देवैश्शक्रोऽभ्युवाच ह ॥
शक्रः-
शकुन्तले तव सुतश् चक्रवर्ती भविष्यति ॥
बलं तेजश्च रूपं च न समं भुवि केन चित् ।
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः ॥
अनेकानि साहस्राणि राजसूयादिभिर्मखैः ।
स्वार्थं ब्राह्मणसात्कृत्वा दक्षिणाममितां ददत् ॥
वैशम्पायनः-
देवतानां वचश्श्रुत्वा कण्वाश्रमनिवासिनः ।
सभाजयन्तः कण्वस्य सुतां सर्वे महर्षयः ।
शकुन्तला च तच्छ्रुत्वा परं हर्षमवाप सा ॥
द्विजानाहूय मुनिभिस् सत्कृत्य च महायशाः ॥
जातकर्मादिसंस्कारं कण्वः पुण्यवतां वरः ।
तस्याथ कारयामास वर्धमानस्य चासकृत् ।
यथाविधि यथान्यायं क्रियास्सर्वास्त्वकारयत् ॥
दन्तैश्शुक्लैश्शिखरिभिस् सिंहसंहननोऽभवत् ॥
चक्राङ्कितकरश्श्रीमान् स्वयं विष्णुरिवापरः ।
चतुष्किष्कुर्महातेजा महामूर्धा महाबलः ॥
कुमारो देवगर्भाभस् स तत्राशु व्यवर्धत ।
ऋषेर्भयात्तु दुष्यन्तः स्मरन्नैवाह्वयत्तदा ।
गते काले तु महति न सस्मार तपोधनाम् ॥
षड्वर्षेषु ततो बालः कण्वाश्रमपदं प्रति ॥
व्याघ्रान् सिंहान् वराहांश्च वृकांश्च महिषांस्तथा ।
ऋक्षांश्चाभ्यहनद्व्यालान् पद्भ्यामाश्रमपीडकान् ॥
गजान् भुजाभ्यां सङ्गृह्य बलवान् सन्नियम्य च ।
बद्ध्वा वृक्षेषु दौष्यन्तिर् आर्श्रमस्य समन्ततः ॥
आरोहद्दमयंश्चैव क्रीडन् स्म परिधावति ।
वनं च लोडयामास सिंहव्याघ्रगणैर्वृतम् ॥
ततश्च राक्षसान् सर्वान् पिशाचांश्च रिपून् रणे ।
मुष्टियुद्धेन ताञ्जित्वा ऋषीनाराधयत्तदा ॥
कश्चिद्दितिसुतस्तं तु हन्तुकामो महाबलः ।
वध्यमानांस्तु दैतेयान् अमर्षी तं समभ्ययात् ॥
तमागतं प्रहस्यैव बाहुभ्यां परिगृह्य च ।
दृढं चाबध्य बाहुभ्यां पीडयामास तं तदा ॥
मर्दितो न शशाकास्य मोचितुं बलवत्तया ।
प्राक्रोशद्भैरवं तत्र द्वारेभ्यो निस्सृतं त्वसृक् ॥
तेन शब्देन वित्रस्ता मृगास्सिंहादयो गणाः ।
सुस्रुवुश्च शकृन्मूत्रम् आश्रमस्थाश्च सुस्रुवुः ॥
निरसुं जानुभिः कृत्वा विससर्ज च सोऽपतत् ।
तं दृष्ट्वा विस्मयं चक्रुः कुमारस्य विचेष्टितम् ॥
नित्यकालं वध्यमाना दैतेया राक्षसैस्सह ।
कुमारस्य भयादेव नैव जग्मुस्तदाश्रमम् ॥
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः ।
कण्वेन सहितास्सर्वे दृष्ट्वा कर्मातिमानुषम् ॥
अस्त्वयं सर्वदमनस् सर्वं हि दमयत्यसौ ।
स सर्वदमनो नाम कुमारस्समपद्यत ।
विक्रमेणौजसा चैव बलेन च समन्वितः ॥
अप्रेषयति दुष्यन्ते महिष्यास्तनयस्य च ॥
पाण्डुभावपरीताङ्गीं चिन्तया समभिप्लताम् ।
लम्बालकां कृशां दीनां तथा मलिनवाससम् ।
शकुन्तलां च सम्प्रेक्ष्य प्रदध्यौ स मुनिस्तदा ॥
शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन् ॥
तं कुमारमृषिर्दृष्ट्वा कर्म च ह्यतिमानुषम् ।
समयो यौवराज्याय इत्यनुध्याय स द्विजः ।
शकुन्तलां समाहूय कण्वो वचनमब्रवीत् ॥
कण्वः-
शृणु भद्रे मम सुते मम वाक्यं शुचिस्मिते ।
पतिव्रतानां नारीणां विशिष्टमिति चोच्यते ॥
पतिशुश्रूषणं पूर्वं मनोवाक्कायचेष्टितैः ।
अनुज्ञाता मया पूर्वं पूजयैतद्व्रतं तव ॥
एतेनैव च वृत्तेन विशिष्टां लप्स्यसे श्रियम् ।
तस्माद्भद्रे प्रयातव्यं समीपं पौरवस्य ह ॥
स्वयं नायाति मत्वा ते गतं कालं शुचिस्मिते ।
गत्वाऽऽराधय राजानं दुष्यन्तं हितकाम्यया ॥
दौष्यन्तिं यौवराज्यस्थं दृष्ट्वा प्रीतिमवाप्स्यसि ॥
देवतानां गुरूणां च क्षत्रियाणां च भामिनि ।
भर्तॄणां च विशेषेण हितं सङ्गमनं सताम् ॥
तस्मात्पुत्रि कुमारेण गन्तव्यं मत्प्रियेप्सया ॥
प्रतिवाक्यं न दद्यास्त्वं शापिता मम पादयोः ॥
वैशम्पायनः-
एवमुक्त्वा सुतां तत्र पौत्रं कण्वोऽभ्यभाषत ।
परिष्वज्य च बाहुभ्यां मूर्ध्न्युपाघ्राय पौत्रकम् ॥
कण्वः-
सोमवंशोद्भवो राजा दुष्यन्तो नाम विश्रुतः ।
तस्याग्रमहिषी चैषा तव माता शुचिव्रता ॥
गन्तुकामा भर्तृवंशं त्वया सह सुमध्यमा ।
गत्वाऽभिवाद्य राजानं यौवराज्यमवाप्स्यसि ॥
स पिता तव राजेन्द्रस् तस्य त्वं वशगो भव ।
पितृपैतामहं राज्यम् अनुतिष्ठस्व भावतः ।
तस्मिन् काले स्वराज्यस्थो मामनुस्मर पौत्रक ॥
वैशम्पायनः-
अभिवाद्य मुनेः पादौ पौरवो वाक्यमब्रवीत् ॥
सर्वदमनः-
त्वं पिता मम विप्रर्षे त्वं माता त्वं गतिश्च मे ।
न चान्यं पितरं मन्ये त्वामृते तु महातपः ।
तव शुश्रूषणं पुण्यम् इह लोके परत्र च ॥
शकुन्तला भर्तृकामा स्वयं यातु यथेष्टतः ।
अहं शुश्रूषणपरः पादमूले वसामि वः ॥
क्रीडां व्यालमृगैस्सार्धं करिष्ये न पुरा यथा ।
त्वच्छासनपरो नित्यं स्वाध्यायं सुकरोम्यहम् ॥
वैशम्पायनः-
एवमुक्त्वा तु संश्लिष्य पादौ कण्वस्य तिष्ठति ॥
तस्य तद्वचनं श्रुत्वा प्ररुरोद शकुन्तला ।
स्नेहात् पितुश्च पुत्रस्य हर्षशोकसमन्विता ।
निशाम्य रोदनं मातुर् दौष्यन्तिर्वाक्यमब्रवीत् ॥
सर्वदमनः-
श्रुत्वा भगवतो वाक्यं किं रोदिषि शकुन्तले ।
गन्तव्यं काल्य उत्थाय भर्तृप्रीतिस्तवास्ति चेत् ॥
शकुन्तला-
एकस्तु कुरुते पापं फलं भुङ्क्ते महाजनः ।
भोक्तारस्तत्र मुच्यन्ते कर्ता दोषेण लिप्यते ॥
मया निवारितो नित्यं न करोषि वचो मम ॥
निस्सृतान्कुञ्जरान्नित्यं बाहुभ्यां सम्प्रमथ्य वै ।
वनं च लोडयन्नित्यं सिंहव्याघ्रगणैर्वृतम् ॥
एवंविधानि चान्यानि कृत्वा वै पुरुनन्दन ।
रुषितो भगवांस्तात तस्मादावां विवासितौ ॥
वैशम्पायनः-
अहं न गच्छे दुष्यन्तं नास्मि पुत्र हितैषिणी ।
पादमूले वसिष्यामि महर्षेर्भावितात्मनः ॥
एवमुक्त्वा तु रुदती पपात मुनिपादयोः ॥
एवं विलपतीं कण्वश् चानुनीय च हेतुभिः ।
पुनः प्रोवाच भगवान् आनृशंस्याद्धितं वचः ॥
कण्वः-
शकुन्तले शृणुष्वेदं हितं पथ्यं च भामिनि ।
पतिव्रताभावगुणान् हित्वा साध्यं न किञ्चन ॥
प्रतिव्रतानां देवा वै तुष्टास्सर्ववरप्रदाः ।
प्रसादं च करिष्यन्ति ह्यापदर्थे च भामिनि ॥
पतिप्रसादात्पुण्यगतिं प्राप्नुवन्ति न चाशुभम् ।
तस्माद्गत्वा तु राजानम् आराधय शुचिस्मिते ॥
वैशम्पायनः-
शकुन्तलां तथोक्त्वा वै शाकुन्तलमथाब्रवीत् ॥
कण्वः-
दौहित्रो मम पौत्रस्त्वम् इलिलस्य महात्मनः ।
शृणुष्व वचनं सत्यं प्रब्रवीमि तवानघ ॥
मनसा भर्तृकामा वै वाग्भिरुक्त्वा पृथग्विधम् ।
गन्तुं नेच्छति कल्याणी तस्मात्तात वहस्व वै ।
शक्तस्त्वं प्रतिगन्तुं च मुनिभिस्सह पौरव ॥
वैशम्पायनः-
इत्युक्त्वा सर्वदमनं कण्वश्शिष्यानथाब्रवीत् ॥
कण्वः-
शकुन्तलामिमां शीघ्रम् इहास्माद्भर्तुरन्तिकम् ।
भर्तुः प्रापयत स्थानं सर्वलक्षणपूजिताम् ॥
नारीणां चिरवासो हि बान्धवेषु न रोचते ।
कीर्तिचारित्रधर्मघ्नस् तस्मान्नयत मा चिरम् ॥
वैशम्पायनः-
धर्माभिपूजितं पुत्रं काश्यपेन निशाम्य तु ।
काश्यपात् प्राप्य चानुज्ञां मुमुदे च शकुन्तला ॥
कण्वस्य वचनं श्रुत्वा प्रतिगच्छेति चासकृत् ।
तथेत्युक्त्वा तु कण्वं च मातरं पौरवोऽब्रवीत् ।
किं चिरायसि मातस्त्वं गमिष्यामो नृपालयम् ॥
एवमुक्त्वा तु तां देवीं दुष्यन्तस्य महात्मनः ।
अभिवाद्य मुनेः पादौ गन्तुमैच्छत्स पौरवः ॥
शकुन्तला च पितरम् अभिवाद्य कृताञ्जलिः ।
प्रदक्षिणीकृत्य तदा पितरं वाक्यमब्रवीत् ॥
अज्ञानान्मे पिता चेति दुरुक्तं वापि चानृतम् ।
अकार्यं वाप्यनिष्टं वा क्षन्तुमर्हति काश्यप ॥
एवमुक्तो नतशिरा मुनिर्नोवाच किञ्चन ।
मनुष्यभावात् कण्वोऽपि मुनिरश्रूण्यवर्तयत् ॥
अब्भक्षान् वायुभक्षांश्च शीर्णपर्णाशनान् मुनीन् ।
फलमूलाशिनो दान्तान् कृशान् धमनिसन्ततान् ॥
व्रतिनो जटिलान् मुण्डान् वल्कलाजिनसंवृतान् ।
समाहूय मुनीन् कण्वः कारुण्यादिदमब्रवीत् ॥
मया तु लालिता नित्यं मम पुत्री यशस्विनी ।
वने जाता विवृद्धा च न च जानाति किञ्चन ॥
आश्रमेण पथा सर्वैर् नीयतां क्षत्रियालयम् ।
द्वतीययोजने विप्राः प्रतिष्ठानं प्रतिष्ठितम् ॥
प्रतिष्ठाने पुरे राजा शाकुन्तलपितामहः ।
अध्युवास चिरं कालम् उर्वश्या सहितः पुरा ॥
अनूपजाङ्गलयुतं धनधान्यसमाकुलम् ।
प्रतिष्ठितं पुरवरं गङ्गायामुनसङ्गमे ॥
तत्र सङ्गममासाद्य स्नात्वा हुतहुताशनाः ।
शाकमूलफलाहारा निवर्तध्वं महातपाः ।
अन्यथा तु भवेद्विप्रा अध्वनो गमने श्रमः ॥
वैशम्पायनः-
तथेत्युक्त्वा च ते शिष्याः प्रातिष्ठन्नमितौजसः ।
शकुन्तलां पुरस्कृत्य दुष्यन्तस्य पुरं प्रति ॥
गृहीत्वा चामरप्रख्यं पुत्रं कमललोचनम् ।
आजग्मुश्च पुरं शुभ्रं दुष्यन्ताध्युषितं वनात् ॥
शकुन्तलां समादाय मुनयो धर्मवत्सलाः ।
ते वनानि नदीश्शैलान् गिरिप्रस्रवणानि च ॥
कन्दराणि नितम्बांश्च राष्ट्राणि नगराणि च ।
आश्रमाणि च पुण्यानि गत्वा चैव गतश्रमाः ।
शनैर्मध्याह्नवेलायां प्रतिष्ठानं समाययुः ॥
तां पुरीं पुरुहूतेन ह्यैलस्यार्थे विनिर्मिताम् ॥
परिघावप्रपुरगैर् उपतल्पशतैरपि ।
शतघ्नीचक्रवज्रैश्च गुप्तामन्यैर्दुरासदाम् ॥
हर्म्यप्रसादसम्बाधां नानापण्यविभूषिताम् ।
मण्टपैस्ससभै रम्यैः प्रपाभिश्च समावृताम् ॥
राजमार्गेण महता सुविभक्तेन शोभिताम् ।
कैलासशिखराकारैर् गोपुरैस्समलङ्कृताम् ॥
द्वारतोरणनिर्यूहैर् मङ्गलैरुपशोभिताम् ।
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ।
सर्वपुष्करिणीभिश्च उद्यानैश्च समावृताम् ॥
वर्णाश्रमैस्स्वधर्मस्थैर् नित्योत्सवसमाहितैः ।
धनधान्यसमृद्धैश्च सन्तुष्टै रत्नपूजितैः ॥
कृतयुक्तैश्च विद्वद्भिर् अग्निहोत्रपरैस्सदा ।
अकार्यवर्जितैश्चैव दानशीलैर्दयापरैः ॥
अधर्मभीरुभिस्सर्वैस् स्वर्गलोकजिगीषुभिः ।
एवंविधजनोपेतम् इन्द्रलोकमिवापरम् ॥
तस्मिन्नगरमध्ये तु राजवेश्म प्रतिष्ठितम् ।
इन्द्रसद्मप्रतीकाशं सम्पूर्णं वित्तसञ्चयैः ॥
तस्य मध्ये सभा दिव्या नानारत्नविचित्रिता ॥
तस्यां सभायां राजर्षिस् सर्वालङ्कारभूषितः ।
ब्राह्मणैः क्षत्रियैश्चैव मन्त्रिभिश्चापि संवृतः ।
संस्तूयमानो राजेन्द्रस् सूतमागधवन्दिभिः ॥
सुखासीनोऽभवद्राजा तस्मिन्काले महर्षयः ।
शकुन्तानां स्वनं श्रुत्वा निमित्तज्ञास्त्वलक्षयन् ॥
ऋषयः-
शकुन्तले निमित्तानि शोभनानीह वन्दिनः ।
कार्यसिद्धिं वदन्त्येते ध्रुवं राज्ञी भविष्यसि ॥
अस्मिंस्तु दिवसे पुत्रो युवराजो भविष्यति ॥
वैशम्पायनः-
वर्धमानपुरद्वारं तूर्यघोषनिनादितम् ।
शकुन्तलां पुरस्कृत्य विविशुस्ते महर्षयः ।
प्रविशन्तं नृपसुतं प्रशशंसुश्च प्रेक्षकाः ॥
वर्धमानपुरद्वारं प्रविशन्नेव पौरवः ।
इन्द्रलोकस्थमात्मानं मेने हर्षसमन्वितः ॥
ततो वै नागरास्सर्वे समाहूय परस्परम् ।
द्रष्टुकामा नृपसुतं समपद्यन्त भारत ॥
नागराः-
देवतेव जनस्याग्रे भ्राजते श्रीरिवागता ।
जयन्तेनेव पौलोमी इन्द्रलोकादिहागता ॥
वैशम्पायनः-
इति ब्रुवन्तस्ते सर्वे महर्षीनिदमब्रुवन् ।
अभिवादयाम सहिता महर्षीन् देववर्चसः ॥
वैशम्पायनः-
इत्युक्त्वा सहिताः केचिद् अन्वगच्छन्त पौरवम् ।
हैमवत्यास्सुतमिव कुमारं पुष्करेक्षणम् ॥
ये केचिदब्रुवन्मूढाः शाकुन्तलदिदृक्षवः ।
कृष्णाजिनेन सञ्छन्नान् द्रष्टुं निच्छन्ति तापसान् ॥
पिशाचा इव दृश्यन्ते नागराणां विरूपिणः ।
विना सन्ध्यां पिशाचास्ते प्रविशन्ति पुरोत्तमम् ॥
क्षुत्पिपासार्दितान् दीनान् वल्कलाजिनवाससः ।
त्वगस्थिभूतान् निर्मांसान् धमनीसन्ततानपि ॥
पिङ्गलाक्षान् पिङ्गजटान् दीर्घदन्तान्निरूदरान् ।
विशीर्षकानूर्ध्वहस्तान् दृष्ट्वा हास्यन्ति नागराः ॥
एवमुक्तवतां तेषां गिरं श्रुत्वा महर्षयः ।
अन्योन्यं ते समाहूय इदं वचनमब्रुवन् ॥
उक्तं भगवता वाक्यं न कृतं सत्यवादिना ।
पुरप्रवेशनं नात्र कर्तव्यमिति शासनम् ॥
किं कारणं प्रवेक्ष्यामो नगरं दुर्जनैर्वृतम् ।
त्यक्तसङ्गस्य च मुनेर् नगरे किं प्रयोजनम् ॥
तस्माद्गमिष्याम वयं गङ्गायामुनसङ्गमम् ।
एवमुक्त्वा मुनिगणाः प्रतिजग्मुर्यथागतम् ॥ ॥