दुष्यन्तः-
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे ।
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥
सुवर्णमालां वासांसि कुण्डले परिपाटके ।
नानापत्तनजैश्शुभ्रैर् मणिरत्नैश्च शोभनैः ॥
आहरामि तवाद्याहं निष्कादीन्यमितानि च ।
सर्वं राज्यं तवाद्य त्वं भार्या मे भव शोभने ॥
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि ।
विवाहानां हि रम्भोरु गान्धर्वश्श्रेष्ठ उच्यते ॥
शकुन्तला-
फलाहारो गतो राजन् पिता मम महातपाः ।
मुहूर्तं सम्प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥
पिता हि मे प्रभुर्नित्यं दैवतं परमं मतम् ।
यस्य वा दास्यति पिता स मे भर्ता भविष्यति ॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥
दुष्यन्तः-
अवमन्यमाना राजेन्द्र पितरं मे तपस्विनम् ।
अधर्मेण हि धर्मिष्ठ कथं वरमुपास्महे ।
मा मैवं वद सुश्रोणि तपोराशिं दयात्मकम् ॥
शकुन्तला-
मन्युप्रहरणा विप्रा न विप्राश्शस्त्रपाणयः ॥
अग्निर्दहति तेजोभिस् सूर्यो दहति रश्मिभिः ।
राजा दहति दण्डेन ब्राह्मणो मन्युना दहेत् ।
क्रोधितो मन्युना हन्ति वज्रपाणिरिवासुरान् ॥
दुष्यन्तः-
जानाभि भद्रे महर्षिं तस्य मन्युर्न विद्यते ।
इच्छामि त्वां वरारोहे भज मां त्वमनिन्दिते ॥
त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः ।
आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥
अष्टावेव समासेन विवाहा धर्मतस्स्मृताः ॥
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः ।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमस्स्मृतः ॥
पञ्चानां तु त्रयो धर्म्या द्वावधर्मौ मताविह ।
पैशाच आसुरश्चैव न कर्तव्यौ कथञ्चन ॥
अनेन विधिना कार्यो धर्मश्चैष सनातनः ।
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्कथाः ।
पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥
सा त्वं मम सकामस्य सकामा भव शोभने ।
गान्धर्वेण विवाहेन भार्या मे भव भामिनि ॥
शकुन्तला-
यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम ।
प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ॥
सत्यं मे प्रतिजानीहि यद्वाचा वच्म्यहं रहः ।
ब्राह्मी मे प्रतिजानीहि प्रतिज्ञां राजसत्तम ॥
मम जायते यः पुत्रस् स राजा त्वदनन्तरम् ॥
युवराजश्च कर्तव्यस् सत्यमेतद्ब्रवीहि मे ।
यद्येतदेवं दुष्यन्त अस्तु मे सङ्गमस्त्वया ॥
वैशम्पायनः-
तस्यास्तु सर्वं संश्रुत्य यथोक्तं स विशाम्पतिः ।
दुष्यन्तः पुनरेवाह यद्यदिच्छसि तद्वद ॥
शकुन्तला-
ख्यातो लोकप्रवादोऽयं विवाह इति शास्त्रतः ।
वैवाहिकीं क्रियां सन्तः प्रशंसन्ति प्रजाहिताम् ॥
लोकपरवादशान्त्यर्थं विवाहं विधिना कुरु ।
सन्त्यत्र यज्ञपात्राणि दर्भास्सुमनसोऽक्षताः ।
यथा युक्तो विवाहस्स्यात् तथा युक्ता प्रजा भवेत् ॥
तस्मादाज्यं हविर्लाजास् सिकता ब्राह्मणास्तव ।
वैवाहिकानि चान्यानि सर्वमस्तीह पार्थिव ॥
दुरुक्तमपि राजेन्द्र क्षन्तव्यं धर्मकारणात् ॥
वैशम्पायनः-
एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् ।
पुरोहितं समाहूय वचनं युक्तमब्रवीत् ॥
दुष्यन्तः-
राजपुत्र्या यदुक्तं वै न वृथा कर्तुमुत्सहे ।
क्रियाहीनो हि न भवेन्मम पुत्रो महाद्युतिः ।
तथा कुरुष्व शास्त्रोक्तं विवाहं मा चिरं कृथाः ॥
वैशम्पायनः-
एवमुक्तो नृपतिना द्विजः परमयन्त्रितः ।
शोभनं राजराजेति विधिना कृतवान् द्विजः ॥
शासनाद्विप्रमुख्यस्य कृतमङ्गलकौतुकः ।
जग्राह विधिवत्पाणिम् उवास च तया सह ॥
दुष्यन्तः-
विश्वास्य चैनां स प्रतिष्टद् अब्रवीच्च पुनः पुनः ।
प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ॥
त्रयीविवृद्धैस्सहिता नागरा मामकैस्सह ।
शिबिकासहस्रैस्सहिता वनमायान्ति बान्धवाः ॥
मूकाश्चैव किराताश्च कुब्जा वामनकैस्सह ।
सहिताः कञ्चुकिवरैर् वाहिनीसूतमागधैः ॥
शङ्खदुन्दुभिनिर्घोषैर् वनं च समुपैष्यति ।
तथा त्वामानयिष्यामि नगरं स्वं शुचिस्मिते ॥
अन्यथा त्वां न नेष्यामि स्वनिवेशमसत्कृताम् ।
सर्वमङ्गलसत्कारैस् सुभ्रु सत्यं करोमि ते ॥
वैशम्पायनः-
एवमुक्त्वा स राजर्षिस् तामनिन्दितगामिनीम् ।
परिष्वज्य च बाहुभ्यां स्मितपूर्वमुदैक्षत ॥
प्रदक्षिणीकृतां देवीं राजा सम्परिषस्वजे ।
शकुन्तला ह्यश्रुमुखी पपात नृपपादयोः ॥
तां देवीं पुनरुत्थाप्य मा शुचेति पुनः पुनः ।
शपेयं सुकृतेनैव प्रापयिष्ये नृपात्मजे ॥
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय ।
मनसा चिन्तयन् प्रायात् काश्यपं प्रति पार्थिवः ॥
भगवांस्तपसा युक्तश् श्रुत्वा किं नु करिष्यति ।
तं न प्रसाद्यागतोऽहं प्रसीदेति द्विजोत्तमम् ॥
एवं सञ्चिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥
ततो मुहूर्ते याते तु कण्वोऽप्याश्रममागमत् ।
शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥
शङ्कितैव च विप्रर्षिम् उपचक्राम सा शनैः ।
ततोऽस्य राजञ्जग्राह आसनं चाप्यकल्पयत् ॥
प्राक्षालयच्च सा पादौ काश्यपस्य महात्मनः ।
न चैनं लज्जयाऽशक्रोद् अक्षिभ्यामभिवीक्षितुम् ॥
शकुन्तला च सव्रीडा तमृषिं नाभ्यभाषत ।
तस्मात् स्वधर्मात् स्खलिता भीता सा भरतर्षभ ।
अभवद्दोषदर्शित्वाद् ब्रह्मचारिण्ययन्त्रिता ॥
स तदा ब्रीडितां दृष्ट्वा ऋषिस्तां प्रत्यभाषत ॥
कण्वः-
सव्रीडैव च दीर्घायुः पुरेव भविता न च ।
वृत्तं कथय रम्भोरु मा त्रासं च प्रकल्पय ॥
वैशम्पायन उवाच
ततः प्रक्षाल्य पादौ सा विश्रान्तं पुनरब्रवीत् ।
निधाय कामं तस्यर्षेः कन्दानि च फलानि च ॥
ततस्संवाह्य पादौ सा विश्रान्तं वेदिमध्यगा ।
शकुन्तला पौरवाणां दुष्यन्तं जग्मुषी पतिम् ॥
ततः कृच्छ्रादतिशुभा सव्रीडा श्रमती तदा ।
सगद्गदमुवाचेदं काश्यपं सा शुचिस्मिता ॥
शकुन्तला-
राजा ताताजगामेह दुष्यन्त इलिलात्मजः ।
मया पतिर्वृतो योऽसौ दैवयोगादिहागतः ॥
तस्य तात प्रसीदस्व भर्ता मे सुमहायशाः ।
अतस्सर्वं तु यद्वृत्तं दिव्यज्ञानेन पश्यसि ।
अभयं क्षत्रियकुले प्रसादं कर्तुमर्हसि ॥
वैशम्पायनः-
चक्षुषा स तु दिव्येन सर्वं विज्ञाय काश्यपः ।
ततो धर्मिष्ठतां मत्वा धर्मे चास्खलितं मनः ॥
कण्वः-
उवाच भगवान् प्रीतस् तद्वृत्तं स महातपाः ।
एवमेतन्मया ज्ञातं दृष्टं दिव्येन चक्षुषा ॥
त्वयाऽद्य राजान्वयया मामनादृत्य यत्कृतम् ।
पुंसा सह समायोगो न स धर्मोपघातकः ॥
न भयं विद्यते भद्रे मा शुचस्सुकृतं कृतम् ॥
क्षत्रियस्य तु गान्धर्वो विवाहश्श्रेष्ठ उच्यते ।
सकामायास्सकामेन निमन्त्रश्श्रेष्ठ उच्यते ।
किं पुनर्विधिवत्कृत्वा सुप्रजात्वमवाप्स्यसि ॥
धर्मात्मा च महात्मा च दुष्यन्तः पुरुषोत्तमः ।
अभ्यागच्छत् पतिर्यस्त्वां भजमानां शकुन्तले ॥
महात्मा जनिता लोके पुत्रस्तव महायशाः ।
स च सर्वां समुद्रान्तां सम्यग्रक्ष्यति मेदिनीम् ॥
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः ।
भविष्यत्यप्रतिहतं विततं चक्रवर्तिनः ॥
प्रसन्न एव तस्याहं त्वकृते वरवर्णिनि ।
ऋतवो बहवस्ते वै गता व्यर्थाश्शुचिस्मिते ॥
सार्थकं साम्प्रतं ह्येतन्न च पापोऽस्ति तेऽनघे ।
गृहाण च वरं मत्तस् त्वत्कृते यदभीप्सितम् ॥
शकुन्तला-
मया पतिर्वृतो योऽसौ दुष्यन्तः पुरुषोत्तमः ।
मम चैव पतिर्दृष्टो देवतानां समक्षतः ।
तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥
वैशम्पायनः-
इत्येवमुक्त्वा मनसा प्रणिधाय मनस्विनी ।
ततो धर्मिष्ठतां वव्रे राज्ये ऽप्रस्खलनं तथा ॥
शकुन्तलां पौरवाणां दुष्यन्तहितकाम्यया ।
एवमस्त्विति तां प्राह कण्वो धर्मभृतां वरः ॥
पस्पर्श चापि पाणिभ्यां सुतां श्रीमिव रूपिणीम् ॥
कण्वः-
अद्यप्रभृति देवी त्वं दुष्यन्तस्य महात्मनः ।
पतिव्रतानां या वृत्तिस् तां वृत्तिमनुपालय ॥
वैशम्पायनः-
इत्येवमुक्त्वा धर्मात्मा तां विशुद्ध्यर्थमस्पृशत् ।
स्पृष्टमात्रे शरीरे तु परं हर्षमवाप सा ॥