कण्वः-
एवमुक्तस्तया शक्रः सन्दिदेश सदागतिम् ।
प्रातिष्ठत ततः काले मेनका वायुना सह ॥
तथाऽपश्यद्वरारोहा तपसोग्रेण कर्शितम् ।
विश्वामित्रं तपस्यन्तं दुर्धर्षं संशितव्रतम् ॥
ततोऽभिवाद्य सा तस्मै प्राक्रीडदृषिसन्निधौ ।
अपोवाह च वासोऽस्या मारुतश्शशिसन्निभम् ॥
साऽगच्छत्त्वरिता भूमिं वासार्थंवाऽवलम्बती ।
कुत्सयन्तीव सव्रीडं मारुतं वरवर्णिनी ॥
गृध्नुं वाससि स्रवीडां सम्भ्रान्तां मेनकामृषिः ।
अनिर्देश्यवयोरूपाम् अपश्यद्विवृतां तदा ॥
तस्या रूपगुणं दृष्ट्वा कामार्तस्समपद्यत ।
चकार भावं संसर्गे तया कामवशं गतः ॥
न्यमन्त्रयत चाप्येनां साप्यैच्छत्तमनिन्दिता ।
तौ तत्र सुचिरं कालं विजह्राते महावने ॥
रममाणौ यथाकामं यतैकदिवसं तथा ।
एवं वर्षसहस्राणाम् अतीतं नाभ्यचिन्तयत् ॥
कामक्रोधावजितवान् मुनिर्नित्यं क्षमान्वितः ।
चिरार्जितस्य तपसः क्षयं स कृतवानृषिः ॥
तपसस्सङ्क्षयादेव मुनिर्मोहं समाविशत् ।
मोहाभिभूतः क्रोधात्मा ययौ तां कौशिकीं मुनिः ॥
पादैर्जलरवं कृत्वा अन्तर्द्वीपे कुटीं गतः ।
मेनका गन्तुकामा वै शुश्राव जलनिस्वनम् ॥
तपसा दीप्तवीर्योऽसावाकाशादेति याति च ।
अद्य सञ्ज्ञां विजानामि येन केन तपःक्षयम् ॥
गन्तुं न युक्तमित्युक्त्वा ऋतुस्नाता तु मेनका |
कामरागाभिभूतस्य मुनेः पार्श्वं जगाम सा ॥
जनयामास स मुनिर् मेनकायां शकुन्तलाम् ।
प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ॥
देवगर्भोपमां बालां सर्वाभरणभूषिताम् ।
शयानां शयने रम्ये मेनका वाक्यमब्रवीत् ॥
मेनका-
महर्षेरुग्रतपसस् तेजस्त्वमसि भामिनि ।
तस्मात्स्वर्गं गमिष्यामि देवकार्यार्थमागता ॥
कण्वः-
जातमुत्सृज्य तं कन्यां मेनका मालिनीं प्रति ।
शक्रसंसदमागच्छत् कृत्वा कार्यं शचीपतेः ॥
तं वने गहने गर्भं सिंहव्याघ्रनिषेविते |
दृष्ट्वा शयानं शकुनास् समन्तात्पर्यवारयन् ॥
नेमां हिंस्युर्वने बालां क्रव्यादा मांसगर्धिनः ।
इति मत्वा स्म रक्षन्ति शकुन्ता मेनकात्मजाम् ॥
उपस्प्रष्टुं गतश्चाहं तामपश्यमनिन्दिताम् ।
निर्जने विपिने रम्ये शकुन्तैः परिवारिताम् ॥
मां दृष्ट्वैवान्वपद्यन्त पादयोः पतिता द्विजाः ।
अब्रुञ्शकुनास्सर्वे कलं मधुरभाषिणः ॥
द्विजाः-
विश्वामित्रसुतां ब्रह्मन् न्यासभूतां भरस्व वै ।
कामक्रोधावजितवान् सखा ते कौशिकीं गतः ।
तस्मात्पोषय तत्पुत्रीं दयावानिति तेऽब्रुवन् ॥
कण्वः-
सर्वभूतरुतज्ञोऽहं दयावान् सर्वजन्तुषु ॥
निर्जनेऽपि महारण्ये शकुन्तैः परिवारिताम् ।
आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् ॥
शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते ।
क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्मदर्शने ॥
निर्जने च वने यस्माच् छकुन्तैः परिरक्षिता ।
शकुन्तलेति नामास्याः कृतं चापि ततो मया ॥
एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् ।
शकुन्तला च पितरं मन्यते मामनिन्दिता ॥
शकुन्तला-
एतदाचष्ट भगवान् मम जन्म महर्षये ।
सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ॥
कण्वं हि पितरं मन्ये पितरं स्वमजानती ।
इति ते कथितं राजन् यथावृत्तं श्रुतं मया ॥ ॥