वैशम्पायनः-
ततो गत्वा महाबाहुर् एकोऽमात्यान् विसृज्य सः ।
नापश्यदाश्रमे तस्मिंस् तमृषिं संशितव्रतम् ॥
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम् ।
उवाच कोऽत्र इत्युच्चैर् वनं सन्नादयन्निव ॥
श्रुत्वाऽथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी ।
निश्चक्रामाश्रमात्तस्माद् तथा विद्युत् घनान्तरात् ॥
सा तं दृष्ट्वैव राजानं दुष्यन्तमसितेक्षणा ।
सुव्रताऽभ्यागतं तं तु पूज्यं प्राप्तमथेश्वरम् ॥
रूपयौवनसम्पन्ना शीलाचारवती शुभा ।
सा तमायतपद्माक्षं व्यूढोरस्कं सुसंहतम् ॥
सिंहस्कन्धं दीर्घबाहुं सर्वलक्षणपूजितम् ।
विस्पृष्टं मधुरां वाचं साऽब्रवीज्जनमेजय ॥
स्वागतं त इति क्षिप्रम् उवाच प्रतिपूज्य च ।
आसनेनार्चयित्वाऽथ पाद्यार्घ्याचमनैस्तथा ।
पप्रच्छानामयं राजन् कुशलं च नराधिपम् ॥
यथावदर्चयित्वा सा लज्जयावनतानना ।
उवाच स्मयमानेव किं कार्यं क्रियतां मया ॥
आश्रमस्याभिगमने किं त्वं कार्यं चिकीर्षसि ।
कस्त्वमद्येह सम्प्राप्तो महर्षेराश्रमं शुभम् ॥
तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् ।
दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ॥
दुष्यन्तः-
राजर्षेरस्मि पुत्रोऽहम् हलिलस्य महात्मनः ।
दुष्यन्त इति मे नाम सत्यं पुष्करलोचने ॥
आगतोऽहं महाभागम् ऋषिं कण्वमुपासितुम् ।
क्व गतो भगवां भद्रे तन्ममाचक्ष्व शोभने ॥
शकुन्तला-
गतः पिता मे भगवान् फलान्याहर्तुमाश्रमात् ।
मुहूर्तं त्वं प्रतीक्षस्व द्रक्ष्यस्ये तमिहागतम् ॥
वैशम्पायनः-
अपश्यमानस्तमृषिं तथा चोक्तस्तया नृपः ।
तां दृष्ट्वा च वरारोहां श्रीमतीं चारुहासिनीम् ॥
विभ्राजमानां वपुषा तपसा च दमेन च ।
रूपयौवनसम्पन्नाम् इत्युवाच महीपतिः ॥
दुष्यन्तः-
काऽसि कस्यासि सुश्रोणि किमर्थं चागता वनम् ।
एवंरूपगुणोपेता कुतस्त्वमतिशोभने ॥
दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः ।
स्थितोऽस्म्यमितसौभाग्ये विवक्षुश्चास्मि किञ्चन ॥
शृणु मे नागनासोरु वचनं मत्तकाशिनि ॥
राजर्षेरन्वये जातः पूरोरस्मि विशेषतः ।
वृण्वे त्वामद्य सुश्रोणि दुष्यन्तो वरवर्णिनि ॥
न मेऽन्यत्र क्षत्रियायां मनो जातु प्रवर्तते ।
ऋषिपुत्रीषु चान्यासु नावर्णासु परासु वा ॥
तस्मात् प्रणिहितात्मानं विद्दि मां कलभाषिणि ।
तस्य मे त्वयि भावोऽस्ति क्षत्रिया ह्यसि का वदा ॥
न हि मे भीरु विप्रायां मनः प्रसहते गतिम् ।
भजे त्वामायतापाङ्गे भक्तं भजितुमर्हसि ।
भुङ्क्ष्व राज्यं विशालाक्षि बुद्धिं मा त्वन्यथा कृथाः ॥
वैशम्पायनः-
एवमुक्ता तदा कन्या एकाकी सा तमाश्रमे ।
उवाच हसती वाक्यम् इदं सुमधुराक्षरम् ॥
शकुन्तला-
कण्वस्याहं भगवतो दुष्यन्त दुहिता मता ।
तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः ॥
अस्वतन्त्राऽस्मि राजेन्द्र काश्यपो मे गुरुः पिता ।
तमेव प्रार्थय स्वार्थं नायुक्तं कर्तुमर्हसि ॥
दुष्यन्तः-
ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः ।
चलेद्धि चित्ताद्धर्मोऽपि न चलेत्संशितव्रतः ॥
कथं त्वमस्य दुहिता सम्भूता वरवर्णिनी ।
संशयो मे महानत्र सत्यं वक्तुमिहार्हसि ॥
शकुन्तला-
यथाऽयमागमो मह्यं यथा चेदमभूत् पुरा ॥
अन्यथा सन्तमात्मानम् अन्यथा सत्सु भाषते ।
स पापेनावृतो मूर्खस् तेन आत्मापहारकः ।
शृणु राजन् यथातत्त्वं यथाऽस्मि दुहिता मुनेः ॥
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् ॥
ऊर्ध्वरेता यथासि त्वं कुतस्त्येयं शकुन्तला ।
पुत्री त्वत्तः कथं जाता सत्यं मे ब्रूहि काश्यप ।
तस्मै प्रोवाच भगवान् यथावच्छृणु पार्थिव ॥
कण्वः-
तप्यमानस्तपो घोरं विश्वामित्रस्सखा मम ।
कम्पयामास देवेन्द्रं पुरा शक्रं महातपाः ॥
तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति ।
भीतः पुरन्दरस्तस्मान्मेनकामिदमब्रवीत् ॥
इन्द्रः-
गुणैरप्सरसां दिव्यैर् मेनके त्वं विशिष्यसे ।
श्रेयो मे कुरु कल्याणि यत् त्वां वक्ष्यामि तच्छृणु ॥
असावादित्यसङ्काशो विश्वामित्रोऽथ कौशिकः ।
तप्यमानस्तपो घोरं ब्रह्मचर्यं च संश्रितः ॥
मेनके तव भारोऽयं विश्वामित्रस्सुमध्यमे ।
संशितात्मा सुदुर्धर्षश् चाग्रे तपसि वर्तते ॥
तन्मनश्च्यावयेस्स्थानात् तं गत्वा विप्रलोभय ।
चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ॥
रूपयौवनमाधुर्यचेष्टितस्मितभाषतैः ।
लोभयित्वा वरारोहे तपस्सन्निवर्तय ॥
मेनका-
महातेजास्स भगवान् सदैव च महातपाः ।
कोपनश्च तथा ह्येनं जानाति भगवानपि ॥
तेजसस्तपसश्चैकः कोपस्य च महात्मनः ।
त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ॥
विमोह्य च वसिष्ठं च तस्य पुत्राञ्छशाप ह ।
क्षत्रे जातश्च यः पूर्वं सोऽभवद्ब्राह्मणो बलात् ॥
शौचार्थं यो नदीं चक्रे दुर्गमां पापकर्मभिः ।
यत्तत्पुण्यतमां लोके कौशिकीति विदुर्जनाः ॥
बभार यज्ञस्य पुरा काले दुर्गे महात्मनः ।
दारान् मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ॥
अतीतकाले दुर्भिक्षे प्रत्येत्य पुनराक्षमम् ।
मुनिवारेति नद्या वै नाम चक्रे तदा प्रभुः ॥
मतङ्गं याजयाञ्चक्रे यत्र प्रीतमनास्स्वयम् ।
त्वं च सोमं भयाद्यस्य गतः पातुं सुरेश्वर ॥
अतिनक्षत्रवंशानि क्रुद्धो नक्षत्रसम्पदा ।
प्रतिश्रवणपूर्वाणि नक्षत्राणि ससर्ज यः ।
गुरुशापहतस्यापि त्रिशङ्कोश्शरणं ददौ ॥
ब्रह्मर्षिशापं राजर्षिः कथ माक्ष्यति कौशिकः ।
अवमत्य तदा देवैर् यज्ञाङ्गं तद्विनाशितम् ॥
अन्यानि च महातेजा यज्ञाङ्गान्यसृजत्प्रभुः ।
निनाय च तदा स्वर्गं त्रिशङ्कुं स महातपाः ॥
एतान्यन्यानि कर्माणि भृशं देव बिभेम्यहम् ।
यथा मां न दहेत्क्रुद्धस् तथा पश्य सुरेश्वर ॥
तेजसा निर्दहेल्लोकांश् चालयेद्धरणीं तथा ।
सङ्क्षिपेच्च महामेरुं महीमावर्तयेत्तथा ॥
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् ।
कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् ॥
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् ।
कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ॥
यमश्च सोमश्च महर्षयश्च विश्वे
यस्योद्विजन्ते मनुयस्सदैव कस्मादिन्द्र मादृशी नोद्विजेत ॥
त्वयैवमुक्ता तु कथं सुरेश ऋषेर्न गच्छेयमहं ममीपम् ।
रक्षां तु मे चिन्तय देवराज यथा त्वदर्थे सुखिनी चरेयम् ॥
भवेच्च मे मन्मथस्तत्र कार्ये सहायभूतस्तु च प्रसादात् ।
वनं च वायुस्सुरभिः प्रवापयेत् तस्मिन् काले तमृषिं लोभयन्त्याः ।
कामं तु मे मारुतस्तत्र वासः प्रकीडिताया विवृणोतु देव ॥
तथेत्युक्त्वा विहिते चैव तस्मिंस्ततो ययौ साऽऽश्रमं कौशिकस्य ॥ ॥