वैशम्पायनः-
ततो मृगसहस्राणि हत्वा सबलवाहनः ।
तत्र मेघघनप्रख्यं सिद्धचारणसेवितम् ।
वनमालोकयामास नगराद्योजनद्वये ॥
मृगाननुचरन् वन्याञ् श्रमेण परिपीडितः ।
मृगाननुचरंश्चापि वेगेनाश्वानचोदयत् ॥
राजा मृगप्रसङ्गेन वनमध्यं विवेश ह ।
एक एवोत्तमबलः क्षुत्पिपासासमन्वितः ॥
तद्वनस्यान्तमासाद्य सोऽपश्यद्धरिणं ततः ॥
तच्चाप्यतीत्य नृपतिर् उत्तमाश्रमसंवृतम् ।
मनःप्रह्लादजननं मनोरममतीव च ॥
शीतमारुतसंयुक्तं जगामान्यन्महद्वनम् ।
पुष्पितैः पादपैः कीर्णम् अतीव सुखशाद्वलम् ॥
विपुलं मधुरारावैर् नादितं विहगैस्तदा ।
विवृद्धविटपैर्वृक्षैस् सुखच्छायैस्समावृतम् ।
षट्पदाघूर्णिततलं लक्ष्म्या परमया युतम् ॥
नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी ।
षट्पदैर्वाप्यनाकीर्णो न कश्चित्काननेऽभवत् ॥
विहङ्गैर्नादितं पुष्पैर् अलङ्कृतमतीव च ।
सर्वर्तुकुसुमैर्वृक्षैर् अतीव सुखशाड्वलम् ॥
मनोरमं सहेष्वासो विवेश वनमुत्तमम् ॥
मारुतान्दोलितास्तत्र द्रुमाः कुसुमशोभिताः ।
पुष्पवृष्टिं विचित्रां तु व्यसृजंस्ते पुनः पुनः ॥
दिवस्पृशोऽथ सङ्घुष्टाः पक्षिभिर्मधुरस्वरैः ।
विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ॥
तेषां पत्रप्रवालेषु पुष्पभारावनामिषु ।
रुवन्ति रावां विहगाष् षट्पदैस्सहिता मृदु ॥
तत्र प्रदेशांश्च बहून् कुसुमोत्करमण्डितान् ।
लतागृहपरिक्षिप्तान् मनसः प्रीतिवर्धनान् ।
सम्पश्यन् स महातेजा बभूव मुदितस्तदा ॥
परस्पराश्लिष्टशाखैर् अङघ्रिपैः कुसुमाचितैः ।
अशोभत वनं मत्तैर् महेन्द्रध्वजसन्निभैः ॥
सिद्धचारणसङ्घैश्च गन्धर्वाप्सरसां गणैः ।
सेवितं वनमत्यर्थं मत्तवानरकिन्नरैः ॥
सुखशीतस्सुगन्धश्च पुष्परेणुवहोऽनिलः ।
परिक्रामन् वने वृक्षान् उपैति च रिरंसया ॥
एवङ्गुणसमायुक्तं ददर्श स वनं नृपः ।
नदीकच्छोद्भवं कान्तम् उच्छ्रितध्वजसन्निभम् ॥
प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम् ।
आश्रमप्रवरं रम्यं ददर्श च मनोरमम् ॥
नानामृगसमाकीर्णं सम्प्रज्वलितपावकम् ।
यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् ॥
अग्न्यगारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् ।
महीकच्छैर्बृहद्भिश्च विभ्राजितमतीव च ॥
मालिनीमभितो राजन् नदीं पुण्यसुखावहाम् ।
नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् ॥
तत्र व्यालमृगान् सैम्यान् पश्यन् प्रीतिमवाप सः ॥
त चाप्रतिरथश्श्रीमान् आश्रमं प्रत्यपूजयत् ।
देवलोकप्रतीकाशं सर्वतस्सुमनोहरम् ॥
नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः ।
सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् ॥
सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् ।
सकिन्नरगणावासां वानरर्क्षनिषेविताम् ॥
पुण्यस्वाध्यायसङ्घुष्टा नियमव्रतचारिणाम् ।
मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् ॥
तस्यास्तीरे भगवतः काश्यपस्य महात्मनः ।
आश्रमप्रवरं पुण्यं महर्षिगणसेवितम् ॥
नदीमाश्रमसम्बद्धां तत्राश्रमपदं तथा ।
चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ॥
अलङ्कृतं द्वीपवत्या मालिन्याऽतीव रम्यया ।
नरनारायणस्थानं गङ्गयेवोपशोभितम् ।
मत्तबर्हिणसङ्घुष्टं प्रविवेश महद्वनम् ॥
तत्स चैत्ररथप्रख्यं समुपेत्य जनेश्वरः ।
अतीव गुणसम्पन्नम् अनिर्देश्यं चक्षुषाम् ॥
महर्षिं काश्यपं द्रष्टुम् अथ कण्वं तपोधनम् ॥
रथनागाश्वसम्बाधां पदातिजनसङ्कुलाम् ।
अवस्थाप्य वनद्वारि सेनामिदमुवाच सः ॥
दुष्यन्तः-
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् ।
काश्यपं स्थीयतामत्र यावदागमनं मम ॥
वैशम्पायनः-
तद्वनं नन्दनप्रख्यम् आसाद्य मनुजेश्वरः |
क्षुत्पिपासे जहौ राजा मुदं चावाप पुष्कलाम् ॥
सामात्यो राजलिङ्गानि सोपनीय नराधिपः ।
पुरोहितसहायश्च जगामाश्रममण्डलम् ॥
दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् ।
ब्रह्मलोकप्रतीकाशम् आश्रमं सोऽभिवीक्ष्य च ॥
षट्पदोद्गीतसङ्घुष्टं नानाद्विजगणायुतम् ।
विस्मयोत्पुल्लनयनो राजा प्रीतो बभूव ह ॥
ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः ।
शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु ॥
यज्ञविद्याङ्गविद्भिश्च यजुर्विद्भिश्च शोभितम् ।
मधुरैस्सामगीतैश्च शिरोभिर्नियमव्रतैः ॥
भारुण्डसामगीताभिर् अथर्वशिरसोद्भवैः ।
अमिताभिस्सुनियमैश् शुशुभे स तदाश्रमः ।
अथर्वभिः ऋग्यजुस्सामभिश्शोभितैस्तदा ॥
संहितामीरयन्ति स्म पदक्रमयुतां तु ते ॥
शब्दसंस्कारसंयुक्तं ब्रुवद्भिर्न्यायवित्तमैः ।
नादितस्स बभौ श्रीमान् ब्रह्मलोक इवापरः ॥
यज्ञसंस्तरविद्भिश्च क्रमशिक्षाविशारदैः ।
न्यायतत्त्वार्थविज्ञानसम्पन्नैर्वेदपारगैः ॥
नानावाक्यसमाहार तत्त्वज्ञानविशारदैः ।
वैशिष्टिकार्थविद्भिश्च मोक्षधर्मविशारदैः ॥
स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः ।
शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः ॥
द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः ।
जल्पवादवितण्डज्ञैर् व्यासग्रन्थसमाश्रितैः ।
नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम् ॥
लोकायतिकमुख्यैश्च समन्तादभिनादितम् ॥
तत्र तत्र च विप्रेन्द्रान् नियतान् संशितव्रतान् ।
जपहोमरतान् सिद्धान् ददर्श परवरिहा ॥
आसनानि विचित्राणि पुष्पवन्ति महीपतिः ।
प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् ॥
देवतायतनानां च प्रेक्ष्य पूजां कृतां द्विजैः ।
ब्रह्मलोकसम राजन् मेने स नृपसत्तमः ॥
तं काश्यपतपोगुप्तम् आश्रमप्रवरं शुभम् ।
नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् ॥
स काश्यपस्यायतनं महाव्रतैर् वृतं समन्तादृषिभिस्तपोधनैः ।
विवेश सामात्यपुरोहितोऽरिहा विविक्तमत्यर्थमनोहरं शिवम् ॥ ॥