वैशम्पायनः-
स कदाचिन्महाबाहुः प्रभूतबलवाहनः ।
वनं जगाम गहनं हयनागशतैर्वृतः ॥
खड्गशक्तिधरैर्वीरैर् गदामुसलपाणिभिः ।
प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ॥
सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः ।
रथनेमिस्वनैश्चैव सनागवरबृंहितैः ॥
ह्रेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः ।
आसीत्किलकिलाशब्दस् तस्मिन्गच्छति पार्थिवे ॥
प्रासादवरशृङ्गस्थाः वरया नृपशोभया ।
ददृशुस्तं स्त्रियस्तत्र नृपमात्मयशस्करम् ॥
शक्रोपमममित्रघ्नं परवारणवारणम् ।
पश्यन्तस्स्त्रीगणास्तत्र शक्तिपाणिं स्म मेनिरे ॥
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः ।
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ॥
इति वाचो ब्रुवन्त्यस्तास् स्त्रियः प्रेम्णा नराधिपम् ।
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ॥
तत्र तत्र च विप्रेन्द्रैस् स्तूयमानस्समन्ततः ।
निर्ययौ परया प्रीत्या वनं मृगजिघांसया ॥
आबालमनुजग्मुस्तं पौरजानपदास्तदा ।
न्यवर्तन्त ततः पश्चाद् अनुज्ञाता नृपेण ह ॥
सौवर्णप्रतिमेनाथ रथेन वसुधाधिपः ।
महीमापूरयामास घोषेण त्रिदिवं तथा ॥
स गच्छन् ददृशे धीमान् नन्दनप्रतिमं वनम् ।
बिल्वार्कखदिराकीर्णं कपित्थवटसङ्कुलम् ॥
विषमं पर्वतप्रस्थैर् अश्मभिश्च समाचितम् ।
निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ।
मृगसङ्घैर्वृतं घोरैर् अन्यैश्चापि वनेचरैः ॥
तद्वनं मनुजव्याघ्रस् सभृत्यबलवाहनः ।
लोडयामास दुष्यन्तस् सूदयन् विविधान् मृगान् ॥
बाणगोचरसम्प्राप्तांस् तत्र व्याघ्रगणान् बहून् ।
पातयामास दुष्यन्तो निर्बिभेद च सायकैः ॥
दूरस्थान् सायकैः कांश्चिद् अभिनत्स नरर्षभः ।
अभ्याशमागतांश्चान्यान् खड्गेन निरकृन्तत ॥
कांश्चिदेणान् स निर्जघ्ने शक्त्या शक्तिमतां वरः ।
गदामण्डलतत्त्वज्ञश् चचारामितविक्रमः ॥
तोमरैरसिभिश्चापि गदामुसलकर्पणैः ।
चचार निघ्नन् वै वन्यान् स्वैरचारान् वनाद्विपान् ॥
राज्ञा चाद्भुतवीर्येण यौधैश्च समरप्रियैः ।
वध्यमानं महारण्यं तत्यजुश्च महामृगाः ॥
तत्र विद्रुतसङ्घानि हतयूथपतीनि च ।
मृगयूथान्यथो भीत्या शब्दं चक्रुरनेकशः ॥
शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिनः ।
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ॥
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि ।
कैश्चित्तत्र नरव्याघ्रैर् अभक्ष्यन्त बुभुक्षितैः ॥
केचिदग्निमथोत्पाद्य समिद्ध्य च वनेचराः ।
भक्षयन्ति स्म मांसानि प्रतप्य विधिवत्तदा ॥
तत्र केचिद्गजा मत्रा बलिनश्शस्त्रविक्षताः ।
सङ्कुच्याग्रकरान् भीताः प्राद्रवन्ति स्म वेगिताः ॥
शकृन्मूत्रं सृजन्तश्च क्षरन्तश्शोणितं बहु ।
वन्या गजवरास्तत्र ममृदुर्मनुजान् बहून् ॥
तद्वनं बलमेघेन शरासारेण संवृतम् ।
व्यरोचन् महिषाकीर्णं राज्ञा हतमहामृगम् ॥