जनमेजयः-
भगवन् विस्तरेणेह भरतस्य महात्मनः ।
जन्म कर्म च सुश्रूषोस् तन्मे शंसितुमर्हसि ॥
वैशम्पायनः-
पौरवाणां वंशकरो दुष्यन्तो नाम वीर्यवान् ।
पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ॥
चतुर्भागं भुवः कृत्स्नं यो भुङ्क्ते मनुजेश्वरः ।
समुद्रावसनांश्चापि देशान् स समितिञ्जयः ॥
म्लेच्छानाटव्यजांश्चापि यो भुङ्क्ते रिपुमर्दनः ।
रत्नाकरान् समुद्रांश्च चातुर्वर्ण्यजनावृतान् ॥
न वर्णसङ्करो राजन् नाकृष्टकरकृज्जनः ।
न पापकृत् कश्चिदासीत् तस्मिन् राजनि शासति ॥
धर्म्यां वृत्तिं सेवमानाः कामार्थौ व प्रपेदिरे ।
तदा नरावरव्याघ्र तस्मिन् जनपदेश्वरे ॥
नासीच्चोरभयं तात न क्षुधाभयमण्वपि ।
नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे ॥
स्वधर्मै रेमिरे वर्णा ह्यन्यकर्मणि निस्स्पृहाः ।
तमाश्रित्य महीपालम् आसंश्चैवाकुतोभयाः ॥
कालवर्षी च पर्जन्यस् सस्यानि फलवन्ति च ।
सर्वरत्नसमृद्धा च मही पशुमती तथा ॥
स चाद्भुतमहावीर्यो वज्रसंहननो युवा ।
उद्यम्य मन्दरं दोर्भ्यां हरेत् सवनकाननम् ॥
धनुष्यस्त्रे गदायुद्धे सर्वप्रहरणेषु च ।
नागस्कन्धेऽश्वपृष्ठे च बभूव परिनिष्ठतः ॥
बले विष्णुसमश्चासीत् तेजसा भास्करोपमः ।
अक्षोभ्यत्वे ऽर्णवसमः सहिष्णुत्वे धरासमः ॥
सर्वतस्स महीपालः प्रसन्नपुरराष्ट्रवान् ॥
भूयो धर्मपरैर्भावैर् मुदितं जनमावसत् ॥ ॥