जनमेजयः-
पुत्रं ययातेः प्रबूहि पूरुं धर्मभृतां वरम् ।
आनुपूर्व्येण ये चान्ये पूरोर्वंशविवर्धनाः ॥
विस्तरेण पुनर्ब्रूहि दौष्यन्तेर्जनमेजयात् ।
सम्बभूव यथा राजा भरतो राजसत्तम ॥
वैशम्पायनः-
पूरुर्नृपतिशार्दूलो यथैवास्य पिता नृप ।
धर्मनित्यः स्थितो राज्ये शक्रतुल्यपराक्रमः ॥
प्रवीरश्शतरुग्द्यौश्च त्रयः पुत्रा महाबलाः ।
पूरोः पौष्यामजायन्त प्रवीरस्तत्र वंशभाक् ॥
नमस्युरभवत्तस्माच् छूरश्शैब्यां सुतो महान् ।
पृथिव्यां सागरान्तायां राजा राजीवलोचनः ॥
शुभ्रस्संहननो वाग्मी सौवीरीतनयास्त्रयः ।
नमस्योरभवन्पुत्राश् शूरास्सर्वे महारथाः ॥
सुन्वन्तं वसुनाभ च गर्गरम्यौ यशस्विनौ ।
शूरानभयदान् राजा जनयामास वीर्यवान् ॥
यवीयान् सुन्वतः पुत्रो रथन्तर्यामजायत ।
शूरश्च दृढधन्वा च वपुष्मान् स नृपोत्तमः ॥
रुद्राश्वं पृषदश्वं च रथदश्वं गयं मनुम् ।
यवीयाञ्जनयामास गन्धर्वान्भीमविक्रमान् ।
रुद्राश्वस्य महाबाहोर् दशाप्सरसि सूनवः ॥
ऋतेपुरथ कक्षेयुः कृपणेपुश्च वीर्यवान् ।
स्थण्डिलेपुर्जलेपुश्च स्थलेपुश्च महाबलः ॥
तेजोपुर्बलवान्धीमान् रथेपुश्चन्द्रविक्रमः ।
धर्मेयुस्सन्ततेपुश्च दशमो देवविक्रमः ॥
अनाधृष्यास्सुतास्तात राजसूयाश्वमेधिनः ।
अन्तिनारस्ततो राजा विद्वांश्चर्तेपुतोऽभवत् ॥
त्रस्नुं मोघं प्रतिरथं द्रुमं चाप्रतिमं युधि ।
एतान्वै सुषुवे साध्वी ह्यन्तिनाराद्यशस्विनी ॥
तेषां त्रस्नुर्महावीर्यः पौरवं वंशमुद्वहन् ।
आजहार यशो दीप्तं जिगाय च वसुन्धराम् ॥
हलिलं सुषुवे त्रस्नोर् यमुना वै तपस्विनी ।
सो ऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ॥
रथन्तर्यामृषीन् पञ्च पञ्चभूतोपमांस्तथा ।
हलिलो जनयामास दुष्यन्तप्रमुखांस्तथा ॥
दुष्यन्तं शूरभीमौ च पुपूरुं वसुमेव च ॥
तेषां ज्येष्ठो महाराजा दुष्यन्तो दुर्जयो युधि ।
दुष्यन्ताल्लक्ष्मणायां तु जज्ञे वै जनमेजयः ॥
शकुन्तलायां भरतो दौष्यन्तिरभवत्सुतः ।
तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥ ॥