वसुमानाः-
पृच्छामि त्वां वसुमानैक्ष्वाकवो स्मि यदि सन्ति लोका दिवि मे स्युर्नरेन्द्र ।
यद्यन्तरिक्षे यदि वा प्रथिव्यां क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥
ययातिः-
यद्यन्तरिक्षं पृथिवीं दिशश्च यत्तेजसा तपते भानुमांश्च ।
लोकास्तावन्तो दिवि संस्थिता वै ते नान्तवन्तः प्रतिपालयन्ति ॥
वसुमानाः-
तांस्ते ददामि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु ।
क्रीणीष्वैतां तृणकेनापि तावत् प्रतिग्रहो यदि वै ते न दृष्टः ॥
ययातिः-
न मिथ्याऽहं विक्रयं वै स्मरामि यथा गृहीतं शिशुके शङ्कमानः ।
कुर्यां न चैवाकृतपूर्वमन्यैर् विवित्समानः किमुतात्र साधुः ॥
वसुमानाः-
तान्सर्वलोकान् प्रतिपद्यस्व राजन् मया दत्तान् यदि नेष्टः क्रयस्ते ।
न चाहं तान् प्रतिपद्ये च मत्वा यत्र गन्ता त्वमपहायात्मलोकम् ॥
ययातिः-
यदा त्वमिन्द्रप्रतिमप्रभावस् ते चाप्यनन्ता नरदेव लोकाः ।
तथाऽन्यलोके न रमेऽन्यदत्ते तस्मादहं नाभिनन्दामि दायम् ॥
शिबिः-
पृच्छामि त्वां शिबिरौशीनरोऽस्मि ममा लोका ये पार्थिवास्तत्र सन्ति ।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥
ययातिः-
नेमान्वाचा हृदयेना चापि परीप्समानस्तव मन्ये नरेन्द्र ।
ते चानन्ता दिवि लोकाश्श्रितास्ते विद्युद्रूपास्स्वनवन्तो नरेन्द्र ॥
शिबिः-
तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति ।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः तानाक्रमस्व प्रददाम्यहं ते ॥
ययातिः-
यथा त्वमिन्द्रप्रतिमप्रभावस् ते वाप्यनन्ता नरदेव लोकाः ।
तथा न दत्ते न रमेऽन्यलोके तस्माच्छिबे नाभिनन्दामि दायम् ॥
अष्टकः-
न चेदेकैकशो राजल्ँलोकान्नः प्रतिगृह्णसि ।
सर्वे प्रदाय भवतो गन्तारो नगरं वयम् ॥
अहं तु नाभिगृह्णामि यत्कृतं न मया पुरा ॥
ययातिः-
यदर्हाय ददध्वं यत् सन्तस्सत्यानृशंस्यत ।
अष्टकः-
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः ।
उच्चैस्सन्तः प्रकाशन्ते ज्वलन्तो ऽग्निशिखा इव ॥
ययातिः-
युष्मानेते वहिष्यन्ति रथाः पञ्च हिरण्मयाः ।
उच्चैस्सन्तः प्रकाशन्ते ज्वलन्तो ऽग्निशिखा इव ॥
वैशम्पायनः-
अश्वमेधे महायज्ञे स्वयम्भुविहिते पुरा ।
हयस्य यानि चाङ्गानि ह्युत्कृत्य च यथाक्रमम् ॥
होताऽध्वर्युस्तथोद्गाता ब्रह्मणा सह भारत ।
अग्नौ प्रास्यन्ति विधिवत् समस्ताष्षोडशर्त्विजः ॥
धूमगन्धं वपायास्तु ये जिघ्रन्ति नराधिपाः ।
विमुक्तपापाः पूतास्ते तत्क्षणेनाभवन्नराः ॥
एतस्मिन्नन्तरे चैव माधवी तु तपोधना ।
मृगचर्मपरीताङ्गी परिणामे मृगत्वचम् ॥
मृगैस्सह चरन्ती सा मृगाहारविचेष्टिता ।
यज्ञवाटं मृगगणैः प्रविश्य भृशविस्मिता ।
आघ्रायन्ती धूमगन्धं मृगैरेव चचार सा ॥
यज्ञवाटमटन्ती सा पुत्रांस्तानपराजितान् ।
पश्यन्ती यज्ञमाहात्म्यं मुदं लेभे च माधवी ॥
असंस्पृशन्तं वसुधां ययातिं नाहुषं यदा ।
दिविष्ठं प्राप्तमाज्ञाय ववन्दे पितरं तदा ॥
ततो वसुमनापृच्छन्मातरं वै तपस्विनीम् ॥
वसुमनाः-
भवत्या यत्कृतमिदं वन्दनं वरवर्णिनि ।
कोऽयं देवोऽथवा राजा यदि जानासि मे वद ॥
माधवी-
शृणुध्वं सहिताः पुत्रा नाहुषोऽयं पिता मम ।
ययातिर्मम पुत्राणां मातामह इति श्रुतः ॥
वैशम्पायनः-
पूरुं मे भ्रातरं राज्ये समावेश्य दिवं गतः ।
केन वा कारणेनैव इह प्राप्तो महायशाः ॥
तस्यास्तद्वचनं श्रुत्वा स्थानभ्रष्टेति चाब्रवीत् ॥
सा पुत्रस्य वचश्श्रुत्वा सम्भ्रमाविष्टचेतना ।
माधवी पितरं प्राह दौहित्रपरिवारितम् ॥
माधवी-
तपसा निर्जिताल्ँलोकान् प्रतिगृह्णीष्व मामकान् ॥
पुत्राणामिव पौत्राणां धर्मादधिगतं धनम् ।
स्वार्थमेव वदन्तीह ऋषयो वेदपारगाः ।
तस्माद्दानेन तपसा अस्माकं दिवमाव्रज ॥
ययातिः-
यदि धर्मफलं ह्येतच् छोभनं भविता तथा ।
दुहित्रा चैव दौहित्रैस् तारितोऽहं महात्मभिः ॥
तस्मात्पवित्रं दौहित्रम् अद्यप्रभृति पैतृके ।
भविष्यति न सन्देहः पितॄणां प्रीतिवर्धनम् ॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ॥
भोक्तारः परिवेष्टारः श्रावितारः पवित्रकाः ॥
दिवसस्याष्टमे भागे मन्दीभवति भास्करे ।
स कालः कुतपो नाम पितॄणां दत्तमक्षयम् ॥
तिलाः पिशाचाद्रक्षन्ति दर्भा रक्षन्ति राक्षसात् ।
रक्षन्ति श्रोत्रियाः पङ्क्तिं यतिभिर्भुक्तमक्षयम् ॥
लब्ध्वा पात्रं तु विद्वांसं श्रोत्रियं सुव्रतं शुचिम् ।
स कालः कालतो दत्तं नान्यथा काल इष्यते ॥
वैशम्पायनः-
एवमुक्त्वा ययातिस्तु पुनः प्रोवाच बुद्धिमान् ।
सर्वे ह्यवभृथस्नातास् त्वरध्वं कार्यगौरवात् ॥
अष्टकः-
आतिष्ठस्व रथं राजन् विक्रमस्व विहायसम् ।
वयमप्यत्र यास्यामो यदा कालो भविष्यति ॥
ययातिः-
सर्वैरिदानीं गन्तव्यं सह स्वर्गजितो वयम् ।
एष नो विरजाः पन्था दृश्यते देववर्त्मनः ॥
वैशम्पायनः-
अष्टकश्च शिबिश्चैव काशेयश्च प्रतर्दनः ।
ऐक्ष्वाकवो वसुमनाश् चत्वारो भूमिपाश्च ह ।
सर्वे ह्यवभृथस्नातास् स्वर्गतास्साधवस्सह ॥
तेऽधिरुह्य रथान् सर्वे प्रयाता नृपसत्तमाः ।
आक्रमन्तो दिवं भाभिर् धर्मेणावृत्य रोदसी ॥
अष्टकः-
अहं मन्ये स्वर्गतानां वरिष्ठः सखा चेन्द्रस्सर्वथा वै महात्मा ।
कस्मादेष शिबिरौशीनरोऽयम् एकोऽत्यगात् सर्वथऽस्मानपोह्य ॥
ययातिः-
अददद्याचमानाय यावद्वित्तमविन्दत ।
उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि निश्शिबिः ॥
दानं तपस्सत्यमथाऽपि धर्मो ह्रीश्श्रीः क्षमा सौम्यभावास्तितिक्षा ।
राजन्नेतान्यप्रमत्तस्य राज्ञः शिबेस्स्थितान्यानृशंस्यं बुद्धौ ॥
वैशम्पायनः-
एवं वृत्तो ह्रीनिषेधश्च यस्मात् तस्माच्छिबिरत्यगाद्वै रथेन ।
अथाष्टकः पुनरेवान्वपृच्छन्मातामहं कोतुकादिन्द्रकल्पम् ॥
पृच्छामि त्वां नृपते ब्रूहि सत्यं पितासि कस्यासि सुतश्च कस्य ।
कृतं त्वया यच्च न तस्य कर्ता लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ॥
ययातिः-
ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वभौमस्त्विहासम् ।
गुह्यं महार्थं मामकेभ्यो ब्रवीमि मातामहोऽहं भवतां प्रकाशम् ॥
सर्वामिमां पृथिवीं निर्जिगाय हस्ते लब्धामददां ब्राह्मणेभ्यः ।
मेध्यानश्वानेकशफान्सुरूपांस् तदा देवाश्शतयज्वेत्यवोचन् ॥
अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलैर्वाहनैश्च ।
गोभिस्सुवर्णैश्च धनैश्च मुख्यैस्तत्रासनानां शतमर्बुदानि ॥
सत्येन वेद्यां च वसुन्धरायां तथैवाग्निर्ज्वलितो मानुषेषु ।
न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति ॥
सत्येन लोका मुनयश्च सङ्घाः सत्येन पूज्या इति मे मनोगतम् ॥
अष्ठकः-
यो नस्स्वर्गजितस्सर्वान् यथावृत्तं न्यवेदयेत् ।
अनसूयुर्द्विजाग्र्येभ्यः लभेन्नस्सर्वलोकताम् ॥
वैशम्पायनः-
एवं राजा स महात्मा ह्यतीव स्वैर्दौहित्रैस्स्मारितो मातृवाक्यात् ।
त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्नप्त्रुपेतः ॥ ॥