अष्टकः-
कतरस्त्वेतयोः पूर्वं देवानामेति साम्यताम् ।
उभयोर्धावतो राजन् सूर्याचन्द्रमसोरिव ॥
ययातिः-
अनिकेतो गृहस्थेषु कामवृत्तेष्वसंयतः ।
ग्राम एव वसन्भिक्षुस् तयोः पूर्वतरं गतः ॥
अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् ।
तप्यते यदि तत्कृत्वा चरेत्सोऽन्यत्तपस्तथा ॥
पापानां कर्मणां नित्यं बिभीयाद्यस्तु मानवः ।
सुखमप्याचरन्नित्यं सोऽत्यन्तं सुखमेधते ॥
यद्वै नृशंसं तदसत्यमाहुर् यत्सेवते धर्ममथार्थबुद्धिः ।
अस्वोऽप्यनाशी च तथैव राजंस् तदार्जवं स समाधिस्तदार्यम् ॥
अष्टकः-
केनासि दूतः प्रहितोऽद्य राजन् युवा स्रग्वी दर्शनीयस्सुवर्चाः ।
कुत आगतः कतरस्यां दिशि त्वम् उताहोस्वित्पार्थिवं स्थानमस्ति ॥
ययातिः-
इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वीं गगनाद्विप्रहीणः ।
विद्वांश्चैवं मतिमानार्यबुद्धिर् ममाभवत्कर्मलोक्यं च सर्वम् ।
उक्त्वाऽहं वः प्रपतिष्याम्यनन्तरं त्वरयन्ति मां ब्राह्मणा लोकपालाः ॥
सतां सकाशे तु वृतः प्रपातस् ते सङ्गता गुणवन्तश्च सर्वे ।
शक्राच्च लब्धो हि वरो मयैष पतिष्यता भूमितले नरेन्द्र ॥
अष्टकः-
पृच्छामि त्वां प्रपतन्तं प्रपातं ये मे लोकास्तत्र राजेन्द्र सन्ति ।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥
ययातिः-
यावत्पृथिव्यां व्रीहियवं गवाश्वं सहारण्यैः पशुभिः पार्वतैश्च ।
तावन्तो लोका दिवि राजन् स्थिता वै तदा विजानीहि नरेन्द्रसिंह ॥
अष्टकः-
तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति ।
यद्यन्तरिक्षे यदि वा दिवि श्रितास् तानाक्रमस्व क्षिप्रममित्रसाहः ॥
ययातिः-
नास्मद्विधः क्षत्रियवंशजातः प्रतिग्रहे वर्तते क्षत्रमुख्य ।
यथा प्रदेयं सततं द्विजेभ्यस् तथाऽददं पूर्वमहं द्विजेभ्यः ॥
नाब्राह्मणः कृपणं जातु जीवेद् दद्यान्न याचोदिति क्षत्रधर्मः ।
सोऽहं यदा कृतपूर्वं चरेयं विवित्समानः किमुतात्र साधु ॥
प्रतर्दनः-
पृच्छामि त्वां काशिराजोऽहमस्मि प्रतर्दनोऽहं यदि मे सन्ति लोकाः ।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥
ययातिः-
ये सन्ति लोका बहवस्ते नरेन्द्र एकैकशस्सप्त सप्तैव तानि ।
मधुच्युतो घृतसिक्ता विशोकास् ते तावन्तस्त्वां प्रतिपालयन्ति ॥
प्रतर्दनः-
तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु ।
यद्यन्तरिक्षे यदि वा दिवि श्रितास् तानाक्रमस्व प्रददाम्यहं ते ॥
ययातिः-
न तुल्यतेजास्सुकृतं कामयेत योगक्षेमं पार्थिव पार्थिवस्सन् ।
दैवादेशादापदं प्राप्य विद्वांश् चरेन्नृशंसं न हि जातु राजा ॥
धर्म्यं मार्गं यतमानो यशस्यं कुर्यान्नृपो धर्ममवेक्षमाणः ।
न मद्विधो धर्मबुद्धिं विजानन् कुर्यादेवं कृपणं मां यथाऽऽत्थ ॥
कुर्यात्तथा वै न कृतं यदन्यैर् विवित्समानः किमिवात्र साधु ॥
धर्माधर्मौ सुविनिश्चित्य सम्यक् कार्याकार्येष्वप्रमत्तश्चरेद्यः ।
स वै धीमान् सत्यसन्धः कृतात्मा राजा भवेल्लोकपालो महिम्ना ॥
वैशम्पायनः
यदा भवेत्संशयो धर्मकार्ये कामार्थे वा यत्र विन्दन्ति सम्यक् ।
कार्यं तत्र प्रथमं धर्मकार्यं यन्नो विरुध्यादर्थकामौ स धर्मः ।
ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसुमानाश्चाब्रवीत्तम् ॥ ॥