अष्टकः-
चरन् गृहस्थः कथमेति देवान् कथं भिक्षुः कथमाचार्यकर्मा ।
वानप्रस्थस्सत्पथे सन्निविष्टो कथमेतास्मिन् सम्प्रति वेदयन्ति ॥
ययातिः-
आहूताध्यायी गुरुकर्मस्वचोद्यः पूर्वोत्थायी चरमं चोपशायी ।
मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलस्सिध्यति ब्रह्मचारी ॥
धर्मागतं प्राप्य धनं यजेत दद्यात् सदैवातिथीन् भोजयेच्च ।
अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत्पुराणी ॥
स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी ।
मृगैस्सचारी वनजान्नभोजी तादृङ्मुनिस्सिद्धिमुपैत्यरणये ॥
अशिल्पजीवी न गृहस्थश्च नित्यं जितेन्द्रियस्सर्वतो विप्रमुक्तः ।
अनौकसारी लघुरल्पाशनश्च चरन् देशानेकचरस्स भिक्षुः ॥
रात्र्या यया चाभिजिताश्च लोका भवन्ति कामाविजितास्सुखाश्च ।
तामेव रात्रिं प्रयतेत विद्वान् अरण्यनित्यो भवितुं यतात्मा ॥
दशैव पूर्वानपरान्दशैव ज्ञातीन् सहात्मानमथैकविंशम् ।
अरण्यनित्यस्सुकृते दधाति विमुच्यारण्ये स्वशरीरधातून् ॥
अष्टकः-
कथं स्विद्वसतोऽरण्यं कति मौनानि चाप्युत ।
भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ॥
ययातिः-
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः ।
ग्रामे निवसतोऽरण्यं स मुनिस्स्याज्जनाधिप ॥
अष्टकः-
कथंस्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः ।
ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ॥
ययातिः-
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् ।
तथाऽस्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ॥
अनग्निरनिकेतश्च अगोत्रचरणो मुनिः ।
कौपीनाच्छादनी चीरी सर्वस्वादुविवर्जितः ॥
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् ।
तथाऽस्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥
यस्तु कामान् परित्यज्य त्यक्त्वा कर्म जितेन्द्रियः ।
आतिष्ठेच्च मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥
धौतदन्तं कृत्तनखं सदा स्नातं दयापरम् ।
असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ॥
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः ।
यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः ।
अथ लोकमिमं जित्वा लोकं विजयते परम् ॥
आस्येन तु य आहारं गोवन्मृगयते मुनिः ।
अथास्य लोकः पूर्वो यस् सोऽमृतत्वाय कल्पते ॥
सामान्यधर्मस्सर्वेषां क्रोधो लोभो द्रुहाऽक्षमा ॥
विहाय मत्सरं स्तैन्यं गर्वं दम्भं च पैशुनम् ।
क्रोधं लोभं ममत्वं च यस्य नास्ति स धर्मवित् ॥
अष्टकः-
नित्यास्नायी ब्रह्मचारी गृहस्थो वनगो मुनिः ।
नाधर्ममशनात्प्राप्येत् कथं ब्रूहीह पृच्छते ॥
ययातिः-
अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः ।
द्वात्रिंशत्तु गृहस्थस्य अमितं ब्रह्मचारिणः ॥
इत्येवं कारणाज्ज्ञेयम् अष्टकैतच्छुभाशुभम् ॥ ॥