अष्टकः-
तथा वसन्नन्दने कामरूपी संवत्सराणामयुतं शतानाम् ।
किं कारणं कार्तयुगप्रधान हित्वापि तद्येन धरां प्रपन्नः ॥
ययातिः-
सम्बन्धिनो ज्ञातिस्सुहृज्जानाश्च क्षीणे वित्ते सन्त्यजन्तीह मर्त्यम् ।
तथा चैनं क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यस्सेश्वरा देवसङ्घाः ॥
अष्टकः-
कथं तत्र क्षीणपुण्या भवन्ति सम्मुह्यते मेऽत्र मनोऽतिमात्रम् ।
के वा विशिष्टाः कस्य धामोपयान्ति तन्मे ब्रूहि क्षेत्रवित् त्वं मतो मे ॥
ययातिः-
इमं भौमं नरकं ते पतन्ति लालप्यमाना नरदेव सर्वे ।
ते कङ्कगोमायुबलाशनार्थं क्षीणे पुण्ये बहुशः प्रव्रजन्ति ॥
तस्मादेतद्वर्जनीयं नरेण दुष्टं लोके गर्हणीयं च कर्म ।
आख्यातं ते पार्थिव सर्वमेतद् भूयश्चेदानीं वद किं ते वदामि ॥
अष्टकः-
यदा समन्तात्पतितं तुदन्ति वयांसि गृध्राः पिशिताशनाश्च ।
कथं भवन्ति कथमाविर्भवन्ति न भौममन्तं नरकं शृणोमि ॥
ययातिः-
ऊर्ध्वं देहाद्ब्रह्मणा जृम्भमाणाद् व्यक्तं पृथिव्यामिह सञ्चरन्तः ।
इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् ॥
षष्टिं सहस्राणि पतन्ति व्योम्नः तथाऽशीतिं चोपरिवत्सराणि ।
तान्वै तुदन्ति पपतन्तं प्रपातं भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥
अष्टकः-
यदेनसा ते पततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ।
कथं भवन्ति कथमाविर्भवन्ति कथम्भूता गर्भभूता भवन्ति ॥
ययातिः-
अस्रं रेतः पुष्परसानुपृत्तम् अन्वेति तावत् पुरुषेण सृष्टम् ।
तच्चैतस्यां रज आपद्यते वै स गर्भभूतस्समुपैति तत्र ॥
वनस्पतींश्चौषधीश्चाविशन्ति आपो वायुंः पृथिवी चान्तरिक्षम् ।
चतुष्पदां द्विपदां चाति सर्वमेव रसा भूता गर्भभूता भवन्ति ॥
अष्टकः-
अन्यो हि वैनं विदधातीह गर्भम् उताहोस्वित् स्वेन कामेन याति ।
आपद्यमानो नरयोनिमेताम् आचक्ष्व मे संशयात् प्रब्रवीमि ॥
शरीरदेहातिसमुच्छ्रयं च चक्षुश्श्रोत्रे लभते केन सञ्ज्ञाम् ।
एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः क्षेत्रज्ञं त्वां तात मन्याम सर्वे ॥
ययातिः
वायुस्समुत्कर्षति गर्भयोनिम् ऋतौ रेतः पुष्परसानुवृत्तम् ।
स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम् ॥
स जायमानो निगृहीतगात्रः प्रज्ञातनिष्ठायतनो मनुष्यः ।
स श्रोत्राभ्यां वेदयतीह शब्दं सम्यग्रूपं पश्यति चक्षुषा च ॥
घ्नाणेन गन्धं जिह्वया वै रसं च त्वचा स्पर्शं मनसा वेदभावान् ।
इत्यष्टकैतान् विहितांश्च विद्धि सहात्मनः प्राणभृतश्शरीरे ॥
अष्टकः-
यस्संस्थितः पुरुषो दह्यते वा निहन्यते वा विनिकृष्यते वा ।
अभावभूतस्स विनाशमेत्य केनात्माना चेतयते परस्तात् ॥
ययातिः-
हित्वा सोऽसून् सुप्तवन्निष्टनित्वा पुरोधाय स्वं सुकृतं दुष्कृतं च ।
अन्यां योनिं पवमानानुसारी हित्वा देहं भजते राजसिंह ॥
पुण्यां योनिं पुण्यकृतो भजन्ते पापां योनिं पापकृतो भजन्ति ।
कीटाः पतङ्गाश्च भवन्ति पापा न मे विवक्षास्ति महानुभाव ॥
चतुष्पदा द्विपदाष्षट्पदाश्च तथा राजन् गर्भभूता भवन्ति ।
आख्यातमेतन्निखिलेन सर्वं भूयस्तु किं पृच्छसि राजसिंह ॥
अष्टकः-
किंस्वित् कृत्वा लभते तात लोकान् मर्त्यश्श्रेष्ठांस्तपसा विद्यया च ।
तन्मे पृष्टश्शंस सर्वं यथावच् छुभाल्ँलोकान् येन गच्छेत् क्रमेण ॥
ययातिः-
तपश्च दानं च यशो दमश्च ह्रीरार्जवं सर्वभूतानुकम्पा ।
नश्यन्ति मानेन तथाऽभिभूताः पुंसस्सदैवेति वदन्ति सन्तः ॥
अधीयानः पण्डितम्मन्यमानो यो विद्यया हन्ति यशः परेषाम् ।
तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद्ब्रह्म फलं ददाति ॥
चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि ।
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ॥
न मानमान्यो मुदमाददीत न सन्तापं प्राप्नुयाच्चावमानात् ।
तं साधवः पूजयन्तीह लोके नासाधवस्साधुबुद्धिं लभन्ते ॥
इति दद्यादिति यजेद् इत्यधीयीत मे व्रतम् ।
इत्यस्मीति भयान्याहुस् तानि वर्ज्यानि नित्यशः ॥
ये नाश्रमान् वेदयन्ते पुराणाः मनीषिणो मनसा संविभक्तान् ।
तन्निश्श्रेयस्तैजसं रूपमेत्य परां शान्तिं प्राप्नुते प्रत्यगेव ॥