ययातिः-
अहं ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात् ।
प्रभ्रंशितस्सुरर्षिसिद्धलोकाद् इतश्च्युतः प्रपताम्यल्पपुण्यः ॥
अहं हि पूर्वो वयसा भवद्भ्यस् तेनाभिवादं भवतां न प्रयुञ्जे ।
यो विद्यया तपसा जन्मना वा वृद्धस्स पूज्यो भवति द्विजानाम् ॥
अष्टकः-
अविद्वांश्चेद्वयसा यस्सवृद्धः इतीह राजन्नाभिवाद्यः कथञ्चित् ।
यो वै विद्वान् वयसा न स्म वृद्धः स वै पूज्यो भवति द्विजानाम् ॥
ययातिः-
प्रतिकूलं कर्मणां पापमाहुस् तद्वर्तने प्रापणे पापलोक्यम् ।
तस्मात् सन्तो नातिवर्तन्ति चैतद् यदात्मैषामप्यनुकूलवादी ॥
अष्टकः-
अभूद्धनं मे विपुलं महद्वै विवेष्टमानो नाधिगन्ता तदस्मि ।
एवं प्रधार्यात्महिते निविष्टो यो वर्तते नावजानाति जीवन् ॥
महाधनो यो यजते स्म यज्ञैर् यस्सर्वविद्यासु विनीतबुद्धिः ।
वेदानधीत्य तपसा योज्य देहं दिवं स यायात् पुरुषो वीतमोहः ।
न जातु हृष्येन्महता धनेन वेदानधीयीत नाहङ्कृतस्स्यात्॥
नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः ।
तत्प्राप्येत न विहन्येत धीरो दिष्टं बलीय इति मत्वाऽऽत्मबुद्ध्या ॥
सुखं हि जन्तुर्यदि वाऽपि दुःखं दैवाधीनं विन्दति नात्मशक्त्या ।
तस्माद्दिष्टं बलवन्मन्यमानो न सञ्ज्वरेन्नातिहृष्येत्कदाचित् ॥
दुःखे न तप्येत सुखे न हृष्येत् समेन वर्तेत स दैव धीरः ॥
भये न मुह्याम्यष्टकाहं कदाचित् सन्तापो मे मानसो नास्ति कश्चित् ।
धाता यथा मां विदधाति लोके ध्रुवं तथाऽहं भवितेति मत्वा ॥
संस्वेदजादुद्भिजादण्डजाद्वा सरीसृपाः कृमयोऽथाप्सु मत्स्याः ।
तथाश्मानस्तृणकाष्ठं च सर्वे दिष्टक्षये स्वां प्रकृतिं भजन्ति ॥
अनित्यतां सुखदुःस्वस्य मत्वा बुद्ध्या कस्मादष्टकं सम्पतेयम् ।
किं कुर्यां वै किं च कृत्वा न तप्ये तस्मात्सन्तापं वर्जयाम्यप्रमत्तः ॥
दुःखे न खिद्येन्न सुखेन माद्येत् समेन वर्तेत स धीरधर्मा ।
दिष्टं बलीयस्समवेक्ष्य बुद्ध्या न सज्जते चात्र भृशं मनुष्य ।
दृष्टो हि मे परमश्चापि लोकः प्राप्ता लोकास्सर्वतो नास्ति निष्ठा ॥
अष्टकः-
ये ये लोकाः पार्थिवेन्द्र प्रधाना स्वयं भुक्ता यं च कालं यथावत् ।
तं मे राजन् ब्रूहि सर्वं यथावत् क्षेत्रज्ञवद्भाषसे त्वं हि धर्मम्॥
ययातिः-
राजाऽहमासमिह सार्वभौमस्ततो लोकान् महतोऽहं जयेयम् ।
तत्रावसं वर्षसहस्रमात्रं ततो लोकमपरमभ्युपेतः ॥
ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनान्ताम् ।
अध्यवसं वर्षसहस्रमात्रं ततो लोकमपरमभ्युपेतः ॥
ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर्लोकमन्यैर्दुरापम् ।
तत्रावसं वर्षसहस्रमात्रं ततो लोकमपरमभ्युपेतः ॥
देवस्य देवस्य निवेशने च विजित्य लोकानवसं यथेष्टम् ।
सम्पूज्यमानस्त्रिदशैस्समेतैस्तुल्यप्रभावद्युतिरीश्वराणाम् ॥
तथाऽवसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम् ।
सहाप्सरोभिर्विहरन् पुण्यगन्धान् पश्यन्नगान् पुष्पिताग्रान् सुरूपान् ॥
तत्रस्थं मां देव सुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम् ।
दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥
एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात् क्षीणपुण्यः ।
वाचोऽश्रौषं चान्तरिक्षे सुराणाम् अनुक्रोशाच्छोचतां मानवेन्द्र ॥
अहो कष्टं क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः ।
तानब्रुवं पतमानस्तथाऽहं सतां मध्ये निपतेयं कथं नु ॥
तैराख्याता भवतां यज्ञभूमिः समीक्ष्यैनां त्वरितमुपागतोऽस्मि ।
हविर्गन्धं देशिकं यज्ञभूमेर् धूमापाङ्गं प्रतिगृह्णन् प्रतीतः ॥