इन्द्रः-
सर्वाणि कर्माणि समाप्य राजन् गृहं परित्यज्य वनं गतोऽसि ।
तत् त्वां पृच्छामि नहुषस्य पुत्र केनासि तुल्यस्तपसा ययाते ॥
ययातिः-
नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु ।
आत्मनस्तपसा तुल्यं कञ्चित् पश्यामि वासव ॥
इन्द्रः-
यदाऽवमंस्थाः सदृशाञ्छ्रेयसश्च वरीयसश्चापि निजप्रभावात् ।
तस्माल्लोकाश्चान्तवन्तश्च ये ते क्षीणे पुण्ये पतितोऽस्यद्य राजन् ॥
ययातिः-
सुरर्षिगन्धर्वनरावमानात् क्षयं गतो मे यदि शक्र लोकः ।
इच्छेयं वै सुरलोकाद्विहीनः सतां समीपे पतितुं देवराज ॥
इन्द्रः-
सतां सकाशे पतितोऽसि राजंश् च्युतः प्रतिष्ठां यत्र लब्धोऽसि भूयः ।
एवं विदित्वा नाहुष मा स्म सर्वान् वाचाऽवमंस्थाः सदृशाञ्श्रेयसश्च ॥
वैशम्पायनः-
ततः प्रभूतामरराजजुष्टात् पुण्याल्ँलोकात् पतमानं ययातिम् ।
सम्प्रेक्ष्य राजर्षिरथाष्टकस्तम् उवाच सद्धर्मविधानगोप्ता ॥
अष्टकः-
कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाऽग्निः ।
पतस्युदीर्णाम्बुधरान्धकारात् खात् खेचराणां प्रवरो यथाऽर्कः ॥
दृष्ट्वा च त्वां सूर्यपथात् पतन्तं वैश्वानरार्कद्युतिमप्रमेयम् ।
किं नु स्विदेतत्पततीति सर्वे वितर्कयन्तः परिमोहितास्स्मः ॥
दृष्ट्वा च त्वां विष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम् ।
अभ्युद्गतास्त्वां वयमद्य सर्वे तत्वं पाते तव जिज्ञासमानाः ॥
न चापि त्वां धृष्णुमः प्रष्टुमग्रे न च त्वमस्मान् पृच्छसे ये वयं स्मः ।
तत्त्वां पृच्छामः कमनीयरूप कस्य त्वं वा किन्निमित्तं त्वमागाः ॥
भयं तु ते व्येतु विषादमोहौ त्यजाशु देवेन्द्रसमानुरूप ।
त्वां वर्तमानं हि सतां सकाशे नालं प्रसोढुं बलवृत्रहन्ता ॥
सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प ।
सुसङ्गतास्स्थावरजङ्गमेशाः प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः ।
प्रभुस्सूर्यः प्रकाशित्वे सतामभ्यागतः प्रभुः ॥ ॥