वैशम्पायनः-
स्वर्गतस्स तु राजेन्द्रो निवसन् देववेश्मनि ।
पूजितस्त्रिदशैस्साध्यैर् मरुद्भिर्वसुभिस्तथा ॥
देवलोकाद्ब्रह्मलोकं सञ्चरन् पुण्यकृद्वशी ।
पूजितस्त्रिदशैस्साध्यैर् ययातिरतिधार्मिकः ।
अवसत्पृथिवीपालो दीर्घकालमिति श्रुतः ॥
स कदाचिन्नृपश्रेष्ठो ययातिश्शक्रमागमत् ।
कथान्ते तत्र शक्रेण स पृष्टः पृथिवीपतिः ॥
इन्द्रः-
यदा पूरुस्तव रूपेण राजञ्जरां गृहीत्वा विचचार भूमौ ।
तदा राज्यं सम्प्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम् ॥
ययातिः-
गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव ।
मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्ताधिपास्तव ॥
न च कुर्यान्नरो दैन्यं शाठ्यं क्रोधं तथैव च ।
जैह्यं च मत्सरं वैरं सर्वत्रेव न कारयेत् ॥
मातरं पितरं चैव विद्वांसं च तपोधनम् ।
क्षमावन्तं च देवेन्द्र नावमन्येत बुद्धिमान् ॥
शक्तस्तु क्षमते नित्यम् अशक्तः क्रुध्यते नरः ।
दुर्जनस्सुजनं द्वेष्टि दुर्बलो बलवत्तरम् ॥
रूपवन्तमरूपी च धनवन्तं च निर्धनः ।
अकर्मी कर्मिणं द्वेष्टि धार्मिकं च न धार्मिकः ॥
निर्गुणो गुणवन्तं च शक्रैतत्कलिलक्षणम् ।
विपरीतं च राजेन्द्र एतेषु कृतलक्षणम् ॥
ब्राह्मणो वाऽथ राजा वा वैश्यो वा शूद्र एव वा ।
प्रशस्तेषु प्रसक्ताश्चेत् प्रशस्यन्ते यशस्विनः ॥
तस्मात्प्रशस्ते देवेन्द्र नरस्सक्तमना भवेत् ।
अलोकज्ञा ह्यप्रशस्ता भ्रातरस्ते ह्यबुद्धयः ॥
अन्ताधिपतयस्सर्वे ह्यभवन् गुरुशासनात् ॥
इन्द्रः-
त्वं हि वै धर्मदो राजन् कथ्यसे धर्ममुत्तमम् ।
कथयस्व पुनर्मेऽद्य लोकवृत्तान्तमुत्तमम् ॥
ययातिः-
अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥
आक्रुश्यमानो नाक्रोशेन्मन्युरेवातितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥
नारुन्तुदस्स्यान्न नृशंसवादी न हीनतः परमभ्याददीत ।
ययाऽस्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम् ॥
अरुन्तुदं पुरुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यम् ।
क्षिप्रंह्यलक्षीर्भजते नरं तं मुखे निबद्धां निकृतिं वहन्तम् ॥
सद्भिः पुरस्तादथ पूजितस्स्यात् सद्भिस्सदा पृष्ठतो रक्षितस्स्यात् ।
सदाऽसतामतिवादांस्तितिक्षेत् सतां वृत्तं चाददीतार्यवृत्तिः ॥
वाक्सायका वदनान्निष्पतन्ति यैराहतश्शोचति रात्र्यहानि ।
परस्य वा मर्मसु ये पतन्ति तान् पण्डितो नावसृजेत्परेषु ॥
नैतादृशं संवननं त्रिषु लोकेषु विद्यते ।
दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥
तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् ।
पूज्यान् सम्पूजयेन्नित्यं न याचेच्च कदा चन ॥ ॥