वैशम्पायनः-
पौरवेणाथ वयसा ययातिर्नहुषात्मजः ।
रूपयौवनसम्पन्नः कुमार स्समपद्यत ।
प्रीतियुक्तो नृपश्रेष्ठश् चचारा विषयान् प्रियान् ॥
यथाकामं यथोत्साहं यथाकालं यथासुखम् ।
धर्माविरुद्धं राजेन्द्रो यथा भवति सोऽन्वभूत् ॥
देवानतर्पयद्यज्ञैश् श्राद्धैस्तद्वत्पितॄनपि ।
दीनान्धकृपणान् वृद्धान् अनाथांश्चाभ्यपूजयत् ॥
अतिथीनन्नपानैश्च विशश्च परिपालनैः ।
आनृशंस्येन शूद्रांश्च दस्यून्निग्रहणेन च ॥
धर्मेण स्वप्रजास्सर्वा यथावदनुरञ्जयन् ।
ययातिः पालयामास साक्षादिन्द्र इवापरः ॥
स राजा सिंहविक्रान्तो युवा विषयगोचरः ।
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥
स सम्प्राप्य सुखान् कामांस् तृप्तः खिन्नश्च पार्थिवः ।
कालं वर्षसहस्रं तत् सस्मार मनुजाधिपः ॥
परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् ।
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥
ययातिः-
यथाकामं यथोत्साहं यथाकालमरिन्दम ।
सेविता विषयाः पुत्र यौवनेन मया तव ॥
तेजसा तव सत्पुत्र पूर्णं यौवनमुत्तमम् ।
पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् ॥
राज्यं च मे गृहाणेदं यावदिच्छसि यौवनात् ।
तावद्दीर्घायुषा भुङ्क्ष्व त्वं हि मे प्रियकृत्सुतः ॥
वैशम्पायनः-
प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः ।
यौवनं प्रतिपेदे च पूरुस्स्वं पुनरात्मवान् ॥
अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् ।
ब्राह्मणप्रमुखाः पौरा इदं वचनमब्रुवन् ॥
कथं शुक्रस्य नप्तारं देवयान्यास्सुतं प्रभो ।
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ॥
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वशुः ।
शर्मिष्ठायास्सुतो द्रुह्युर् अनुः पूरुश्च पार्थिव ॥
कथं ज्येष्ठानतिक्रम्य यवीयान् राज्यमर्हति ।
एतत्सम्बोधयामस्त्वां धर्मं त्वमनुपालय ॥
ययातिः-
ब्राह्मणप्रमुखा वर्णास् सर्वे शृण्वन्तु मे वचः ।
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथं चन ॥
मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।
प्रतिकूलः पितुर्यश्च न स पुत्रस्सतां मतः ॥
मातापित्रोर्वचनकृद्धितश्च विभवस्य च ।
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥
पुदिति नरकस्याख्या दुःखं हि नरकं विदुः ।
पुतस्त्राणात्ततः पुत्त्रमिहेच्छन्ति परत्र च ॥
आत्मनस्सदृशः पुत्रः पितृदेवर्षिपूजने ।
यो बहूनां गुणकरस् स पुत्रो ज्येष्ठ उच्यते ॥
ज्येष्ठांशभाक् स गुणकृद् इह लोके परत्र च ॥
श्रेयान् पुत्रो गुणोपेतस् स पुत्रो नेतरो वृथा ।
वदन्ति धर्मं धर्मज्ञाः पितॄणां पुत्रकारणात् ॥
यदुनाऽहमवज्ञातस् तथा तुर्वशुना पुनः ।
द्रुह्युना चानुना चैव मय्यवज्ञ कृता भृशम् ॥
पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः ।
कनीयान् मम दायादो धृता येन जरा मम ।
भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ॥
पौराः-
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितस्सदा ।
सर्वमर्हति कल्याणं कनीयानपि स प्रभो ॥
वेदे धमार्थशास्त्रेषु मुनिभिः कथितं पुरा ॥
अर्हः पूरुरिदं राज्यं यस्सुतः प्रियकृत्तव ।
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥
वैशम्पायनः-
पौरजानपदैस्तुष्टैर् इत्युक्तो नाहुषस्तदा ।
अभ्यषिञ्चत्तदा पूरुं ययातिर्द्विजपूर्वकम् ॥
यदुं च तुर्वशुं चोभौ द्रुह्युं चैव सहानुजम् ।
अन्तेष्वथ विनिक्षिप्य नाहुषस्स्वात्मजान् सुतान् ॥
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः ।
पुरात् स निर्ययौ तस्माद् ब्राह्मणैस्तापसैस्सह ॥
यदोस्तु यादवा जातास् तुर्वशोर्यवनास्सुताः ।
द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः ॥
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव ।
इदं वर्षसहस्राणि राज्यं कारयिता प्रभो ॥ ॥