वैशम्पायनः-
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि ।
पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥
ययातिः-
जरावली च मे तात पलितानि च पर्यगुः ।
काव्यस्योशनसश्शापान्न च तृप्तोऽस्मि यौवने ॥
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह ।
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् ।
दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ॥
यदुः-
सितश्मश्रुशिरा दीना जरया शिथिलीकृतः ।
वलीसन्ततगात्रश्च दुर्दर्शो दुर्बलः कृतः ॥
अशक्तः कार्यकरणे परिभूतश्च यौवने ।
सहोपजीविभिश्चैव तां जरां नैव कामये ॥
ययातिः-
वैशम्पायनः-
यो मे त्वं हृदयाज्जातो वयस्स्वं न प्रयच्छसि ।
तस्मादराज्यभाक्तात प्रजा वै ते भविष्यति ।
प्रत्याख्यातस्स राजा तु तुर्वशुं प्रत्युवाच ह ॥
ययातिः-
तुर्वशो प्रतिपद्यस्व पाप्मानं जरया सह ।
यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् ।
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥
तुर्वशुः
न कामये जरां तात कामभोगप्रणाशिनीम् ।
बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् ॥
ययातिः-
यो मे त्वं हृदयाज्जातो वयस्स्वं न प्रयच्छसि ।
तुर्वशो त्वं प्रियं कामं नैृतत्सम्पत्स्यसे क्वचित् ॥
अराज भोजशब्दं तु तत्रावाप्स्यसि सान्वयः ।
तस्मात्प्रजासमुच्छेदं तुर्वशो तव यास्यति ॥
सङ्कीर्णाचारधर्मेषु प्रतिलोमचरेषु च ।
म्लेच्छेषु पिशिताशेषु मूढो राजा भविष्यसि ॥
गुरुदारप्रसक्तेपु तिर्यग्योनिगतेषु च ।
छिन्नधर्मस्वरूपेषु व्याधेषु जनयिष्यसि ॥
वैशम्पायनः-
एवं स तुर्वशुं शप्त्वा ययातिस्सुतमात्मनः ।
शर्मिष्ठायास्सुतं द्रुह्युम् इदं वचनमब्रवीत् ॥
ययातिः-
द्रुह्यो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् ॥
द्रुह्युः-
जीर्णश्शिशुवदादत्ते कालेऽन्नमशुचिर्यथा ।
न जुहोति च कालेऽग्निं न बुध्यति च कालतः ॥
न च कृत्यं करोत्येष तां जरां नाभिकामये ॥
ययातिः-
यो मे त्वं हृदयाज्जातो वयस्स्वं न प्रयच्छसि ।
जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं नाभिपत्स्यसे ॥
प्रजाश्च यौवनं प्राप्ता विनिशिष्यन्त्यतस्तव ।
अग्निप्रस्पन्दनपरस् त्वं चाप्येवं भविष्यसि ॥
ययातिः-
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।
एकं वर्षसहस्रं वै चरेयं तव रूपधृक् ॥
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् ।
दत्त्वा च प्रतिपत्स्ये वै पाप्मानं जरया सह ॥
अनुः
न हस्तिनं नरो नाश्वं जीर्णो भुड्क्ते न पीठकम् ।
बाग्दुर्भगाऽस्य भवति तां जरां नैव कामये ॥
ययातिः-
यो मे त्वं हृदयाज्जातो वयस्स्वं न प्रयच्छसि ।
हस्त्यश्वरथमुख्यानाम् अध्वा न स्यात्कदाचन ॥
हस्तिनां पीठकानां वा गर्दभानां तथैव च ।
उष्ट्राणां च गवां चैव शिबिकायास्तथैव च ॥
यद्वाऽन्यद्वाहनं किञ्चिद् देवो हन्यात् क्वचित्क्वचित् ।
अराजा तव जातश्च भविष्यति च दुर्मते ॥
वैशम्पायनः-
प्रत्याख्यातश्चतुर्भिश्च शपित्वा तान् यदृच्छया ।
पूरोस्सकाशमगमज् ज्ञात्वा पूरुमलिङ्गिनम् ॥
ययातिः-
पूरो त्वं मे प्रियः पुत्रस् त्वं गरीयान् भविष्यसि ।
जरा वली च मे तात पलितानि च पर्यगुः ॥
काव्यस्योशनसश्शापान्न च तृप्तोऽस्मि यौवने ।
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।
यथाकालं चरेयं वै विषयान् वयसा तव ॥
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् ।
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥
वैशम्पायनः-
एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा ।
यदात्थ मां महाराज तत्करिष्यामि ते वचः ॥
गुरोर्वै वचनं पुण्यं स्वर्ग्यमायुष्करं नृणाम् ।
गुरुप्रसादात् त्रैलोक्यम् अन्वशासच्छतक्रतुः ॥
गुरोरनुमतिं प्राप्य सर्वान् कामानवाप्नुयात् ।
प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह ॥
यावदिच्छसि वा जीवं तावत्तां धारयाम्यहम् ।
गृहाण यौवनं मत्तश् चर कामान् यथेप्सितान् ॥
जरयाऽहं प्रतिच्छन्नो वसे रूपधरस्तव ।
यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् ॥
ययातिः-
पूरो प्रीतोऽस्मि भद्रं ते प्रीतश्चेदं ददामि ते ।
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥