वैशम्पायनः-
ययातिस्स्वपुरं गत्वा पताकाभिरलङ्कतम् ।
प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥
देवयान्याश्चानुमते सुतां तां वृषपर्वणः ।
अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥
वृतां दासीसहस्रेण शर्मिष्ठामसुरात्मजाम् ।
वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् ॥
देवयान्या तु सहितो ययातिर्नहुषात्मजः ।
प्रीत्या परमया युक्तो मुमुदे शाश्वतीस्समाः ॥
अशोकवनिकामध्ये देवयानी समागता ।
शर्मिष्ठया सा क्रीडित्वा रमणीये मनोरमे ॥
तत्रैव तां तु निर्दिश्य राज्ञा सह ययौ गृहम् ।
एवमेव सह प्रीत्या मुमुदे बहुकालतः ।
विजहार बहून्देशान् देववन्मुमुदे भृशम् ॥
ऋतुकाले तु सम्प्राप्ते देवयानी शुचिस्मिता ।
लेभे गर्भं प्रथमतः कुमारश्च व्यजायत ॥
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी ।
सा तु काले ऋतुस्नाता भर्तारं समचिन्तयत् ॥
शुद्धा स्नाता तु शर्मिष्ठा सर्वालङ्कारभूषिता ।
अशोकशाखामालम्ब्य सुफुल्लैस्स्तबकैर्वृताम् ॥
आदर्शे मुखमुद्वीक्ष्य भर्तुर्दर्शनलालसा ।
शोकमोहसमाविष्टा वचनं चेदमब्रवीत् ॥
अशोक शोकापनुद शोकोपहतचेतसाम् ।
त्वन्नामानं कुरु क्षिप्रं प्रियसन्दर्शनाद्धि माम् ।
एवमुक्तवती सा तु शर्मिष्ठा पुनरब्रवीत् ॥
ऋतुकालश्च मे प्राप्तो न च भर्ताऽस्ति कश्चन ।
किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा सुकृतं भवेत् ॥
देवयानी प्रजाताऽसौ यथा सम्प्राप्तयौवना ।
देवयानी पुण्यकृता तस्या भर्ता हि नाहुषः ॥
यथा तस्या भवेद्भर्ता ममाप्येै तथा भवेत् ।
राज्ञा पुत्रफलं देयम् इति मे निश्चिता मतिः ॥
अपीदानीं स धर्मात्मा ईयान्मे दर्शनं रहः ।
केशे बध्वा तु राजानं याचेऽहं सदृशं पतिम् ॥
गृहे मुदा देवयानी पुत्रमीक्ष्य पुनः पुनः ।
क्रीडत्यन्तःपुरे तस्याः क्वचित्क्षणमवाप सः ॥
अथ निष्क्रम्य राजार्षिस् तस्मिन् काले यदृच्छया ।
अशोकवनिकाभ्याशे शर्मिष्ठां प्रेक्ष्य तिष्ठति ॥
दृष्ट्वा तमेकं रहसि शर्मिष्ठा चारुहासिनी ।
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥
शर्मिष्ठा-
सोमस्येन्द्रस्य विष्णोर्वा यमस्य धनदस्य च ।
तव वा नाहुष कुले कस्स्त्रियं स्प्रष्टुमर्हति ॥
रूपाभिजनशीलैर्हि त्वं राजन् वेत्थ मां सदा ।
त्वां याचे सम्प्रसाद्याहं तं तु मे दातुमर्हसि ॥
ययातिः-
वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् ।
रूपेण ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥
तदाप्रभृति दृष्ट्वा त्वां स्मराम्यनिशमुत्तमे ।
अब्रवीदुशना काव्यो देवयानीं सदा वह ॥
नेयमाह्वयितव्या ते शयने वाऽन्यथापि वा ।
देवयान्याः प्रियं कृत्वा शर्मिष्ठामपि पोषय ॥
शर्मिष्ठा-
न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा मिथ्या तदर्थं चरितं नरेन्द्र ।
एकार्थतायां तु समाहितायां मिथ्या वदन्तं ह्यनृतं हिनस्ति ॥
अनृतं नानृतं स्त्रीषु परिहासविवाहयोः ।
आत्मप्राणार्थघातेषु तदेवोत्तमतां व्रजेत् ॥
ययातिः-
राजा प्रमाणं भूतानां विनश्येत मृषा वदन् ।
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥
शर्मिष्ठा-
उभौ हि च पती लोके पतिस्सख्याः पतिश्च यः ।
समं विवाहमित्याहुस् सख्या मेऽसि पतिर्वृतः ॥
त्रय एवाधना राजन् भार्या दासस्सुतस्तथा ।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥
सह दत्तास्मि काव्येन देवयान्या महर्षिणा ।
पूज्या पोषयितव्येति न मृषा कर्तुमर्हसि ॥
सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च ।
याचितॄणां ददासि त्वं गोभूम्यादीनि यानि च ॥
बाहिकं दानमित्युक्तं न शरीराश्रितं नृप ।
दुष्करं पुत्रदानं च आत्मदानं च दुष्करम् ॥
शरीरदानात्तत्सर्वं दत्तं भवति नाहुष ।
यस्य यस्य यथा कामस् तस्य तस्य ददाम्यहम् ।
इत्युक्त्वा नगरे राजंस्त्रिकालं घोषितं त्वया ॥
अनृतं तत्तु राजेन्द्र वृथा घोषितमेव च ।
तत्सत्यं कुरु राजेन्द्र यथा वैश्रवणस्तथा ॥
ययातिः-
दास्यामि याचते नित्यम् इति मे व्रतमाहितम् ।
त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ॥
धनं वा यदि वा किञ्चिद् राज्यं वाऽपि शुचिस्मिते ।
वैशम्पायनः-
अधर्मात्त्राहि मां राजन् धर्मं च प्रतिपादय ।
नान्यं वृणे पुत्रकामात् पुत्रात्परतरं न च ॥
त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ।
पुत्रार्थं भर्तृपोषार्थं स्त्रियस्सृष्टास्स्वयम्भुवा ॥
अपतिश्चापि या कन्या अनपत्या च या भवेत् ।
तासा जन्म वृथा लोके गतिस्तास्या न विद्यते ॥
देवयान्या भुजिष्याऽस्मि वश्या च तव भार्गवि ।
सा चाहं च त्वया राजन् भरणीये भजस्व माम् ॥
वैशम्पायनः-
एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् ।
काव्याच्च देवयान्याश्च भीतो धर्मभयादपि ॥
पूजयामास शर्मिष्ठां धर्मे च प्रतिपादयन् ।
ऋत्विक्पुरोहिताचार्यैर् मन्त्रिभिश्चापि संवृतः ॥
कृत्वा विवाहं विधिवद् दत्वा ब्राह्मणदक्षिणाम् ।
पुण्ये नक्षत्रसंयोगे मुहूर्ते द्विजपूजिते ॥
समागम्य च शर्मिष्ठां यथा काममवाप्य च ।
अन्योन्यं पूजयित्वा तु जग्मतुस्तौ यथागतम् ॥
तस्मिन् समागमे सुभ्रूश् शर्मिष्ठा चारुहासिनी ।
लेभे गर्भं प्रथमतस् तस्माद्राजर्षिसत्तमात् ॥
प्रजज्ञे च ततः काले क्रियाः कृत्वा विशेषतः ।
कुमारं देवगर्भाभं राजीवनिभलोचनम् ॥ ॥